| YouTube Channel

अस (asa)

 
शब्दसागरः
English
अस (ञ) r. 1st. cl. (असति-ते)
1. To go or move.
2. To take or receive.
3.
To shine. (ल) r. 2d cl. (अस्ति) To be. (य, उ, इर्) r. 4th cl. (अस्यति-ते) To
throw or direct. With अनु prefixed, to sit down: with अप, to quit
or abandon: with नि, to deposit: with निर्, to expel: with परि and
उप, to sit around: with प्र, to throw away, to reject, to confute:
with वि, to divide: with वि and आङ्, to class, to arrange: with सम्
and नि, to abandon the world: with सम्, to collect, to combine or
compound.
Wilson
English
अस (ञ) r. 1st cl. (असति-ते)
1 To go or move.
2 To take or receive.
3 To shine. (ल) r. 2d cl. (अस्ति) To be. (य, उ, इर) r. 4th cl.
(अस्यति-ते) To throw or direct.
With अनु prefixed, to sit down:
with अप, to quit or abandon:
with नि, to deposit:
with निर्, to expel:
with परि and उप, to sit around:
with प्र, to throw away, to reject, to confute:
with वि, to divide:
with वि and आङ्, to class, to arrange:
with सम and नि, to abandon the world:
with सम, to collect, to combine or compound.
Monier Williams Cologne
English
अ-स (Pāṇ. vi, 1, 132) not he,
Śiś.
i, 69 (cf. अ-तद्.)
Shabdartha Kaustubha
Kannada
अस - भुवि (अदा० पर० अक० से०) अस्ति
पदविभागः - > धातुः
कन्नडार्थः - > ಇರು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अस्
मूलधातुः:
अस
धात्वर्थः:
गति-दीप्ति-आदानेषु
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः, दीप्तौ अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
असति-ते
धातुः:
अस्
मूलधातुः:
अस
धात्वर्थः:
भुवि
गणः:
अदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
अस्ति
Abhyankara Grammar
English
अस affix अस mentioned in the Niru- kta in the word अवस ( अव् + अस ) cf. असो नामकरणः तस्मान्नावगृह्णन्ति NirI.17.
धातुप्रदीपः
Sanskrit
असँ अस गति, दीप्ति, आदानेषु
- असति ।असते ''लावण्य उत्पाद्य इवास यत्नः '' ।आसे अष इत्येके अषति अषते ।। 890 ।।
असँ अस भुवि
- अस्ति स्तः सन्ति असि स्थः स्थ [अस्मिस्वः] स्मः व्यतिसे व्यतिहे व्यतिस्वहे व्यतिस्महे इह नित्यत्वादेत (3/4/93) इति ऐकारादेशे एति (7/4/52) इति भवति व्यत्यसै व्यत्यसावहै व्यत्यसामहै अस्तु एधि असानि असाव असाम आसीत् आस्ताम् आसन् बभूव अभूत् सन् कारयामासविदामासेत्यनुप्रयोगे भूभावो नेष्यते (17) केचिदनुप्रयोगादन्यत्रापि नेच्छन्ति (18) ।। 56 ।।
Schmidt Nachtrage zum Sanskrit Worterbuch
German
*अस (Nom. असस्) nicht er, P. 6, 1, 132
Śiś. 1, 69.
°अस werfend, H 43, 155. 244.
शब्दकल्पद्रुमः
Sanskrit
अस भावे (अदां-परं-अकं-सेट् ।) भावःसत्ता सा चेह विद्यमानतैव अस्ति विष्णुः ।इति दुर्गादासः
(वि + अति) अतिक्रमे ।पराभवे “अन्यो व्यतिस्ते तु ममापि धर्म्मः”इति मट्टौ (अभि) भागसत्तायाम् “यदत्रममामिस्यात् दीयताम्” इति पाणिनिः ।(आविस्) आविर्भावे ।“तेषामाविरभूद् ब्रह्मा परिम्लानमुखश्रियाम्” ।इति कुमारे (प्रादुस्) प्रादुर्भावे उद्भवे ।“महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः” ।इति मनुः ।)
अस र् क्षेपे (दिवां-परं-सकं-सेट् ।) इतिकविकल्पद्रुमः
अस्यति असित्वा अस्त्वा ।इर् आस्थत् आसीत् अस्यमानं महागदाइति भट्टौ ताच्छील्ये शतुः शानः इति दुर्गा-दासः
(“तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः” ।इति रघुवंशे (अति) अतिक्रमे पराभवे ।“बहुभिश्चैकमत्यस्यन्नेकेन बहून् जनान्” ।इति रामायणे (वि + अति) उत्ताने ।“व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” ।इति मनुः (अप) टूरनिक्षेपे ।चीरानपास्यज्जनकस्य कन्यानेयं प्रतिज्ञा मम दत्तपूर्व्वा” ।इति रामायणे (अभि) अभ्यासे ।“अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः” ।इति कुमारे (नि) निक्षेपे “न मद्विधो न्यस्यतिभारमुग्रम्” इति भट्टौ (उप + नि) प्रस्तावे ।“स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्मयः” इति किराते (सं + उप + नि) प्रमा-णादिना दृढीकरणे ।“त्वया मया समुपन्यस्तेष्वपि मन्त्रेष्ववज्ञानंवाक्पारूष्यञ्च कृतम्” इति हितोपदेशे (प्रति+ नि) स्थापने ।“तथैवायुधजालानि भ्रातृभ्यां कवचानि ।रथोपस्थे प्रतिन्यस्य सचर्म्म कठिनं यत्”
इति रामायणे (निर्) दूरीकरणे पराभवे ।“यशांसि सर्व्वेषुभृतां निरास्थत्” ।“तानर्द्दिददखादीच्च निरास्थच्च तलाहतान्”
इति भट्टौ (परि) विस्तृतौ “पर्य्यस्यन्निहनिचयः सहस्रसंख्यां” किराते
“ताम्रोष्ठ-पर्य्यस्तरुचः स्मितस्य” इति कुमारे
पातने ।“दासौघटमपां पूर्णं पर्य्यस्येत् प्रेतवत् सदा” ।इति मानवे
(सम्) संयोगे एकत्र संश्लेषे ।यथा, --“सर्व्वोऽप्यवयवोऽह्ना समस्यते ।”“अव्ययं समर्थेन सह समस्यते
”इति पाणिनिः
इत्यादिः
अस ञ् अषार्थे (भ्वादिं-उभं-सकं-सेट् ।) अषार्थोदीप्तिग्रहणगतयः
“वासुदेवं परित्यज्य योऽन्य-देवमुपासते” उपगच्छतीत्यर्थः लावण्य उत्पाद्य-इवास यत्न इत्यादिसिद्ध्यै अनेकाथत्वात् सत्ता-र्थोऽयमपीति रमानाथः अनुप्रयोगादन्यत्रापिपरोक्षायामस्तेर्भूभावं केचिन्नेच्छन्तीति धातुप्रदी-पः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
अस दीप्तौ अक० ग्रहणे गतौ
सक०
भ्वादि०
उभ०
सेट् असति तेआसीत् आसिष्ट “लावण्य उत्पाद्य इवास यत्नः” कुमा०
अस विद्यमानतायाम् अदा० अक०
पर०
सेट् अस्ति स्तःसन्ति असि स्थःस्थ अम्मि स्वः स्मः स्यात् स्युः अस्तुस्ताम् सन्तु एधि--असानि आसीत् अस्य असार्व्वधातुकेभ्वादेशः तेन भूधातुवद्रूपम् विद्यमानता कालसंबन्धधारणं तदुक्तं हरिणा “आत्मानमात्मना बिभ्रदस्ती-व्यवदिश्यते अन्तर्भावाच्च तेनासौ कर्मणा सकर्म्मकः”“अस्त्युत्तरस्यां दिशि देवतात्मा” कुमा० यच्चावहासार्थमसत्कृतोऽसि गीता” “प्रपन्नोऽत्मि स्वैरं रतिरसमहानन्दनिर-ताम्” श्यामास्तवः “स्याद्वा संख्यावतोऽर्थस्य समुदायो-ऽभिधायकः” फणिभा० “स्यातामसित्रे मित्रे सहजप्राकृतावपि” माघः कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोवराः” मनुः “दिनेदिने त्वं तनुरेधि रेऽधिकम्” नैष० “आसी-दिदं तमोभूतमप्रज्ञातमलक्षणम्” मनुः “नत्वेवाहं जातुनासमिति” गीता सन् सन्तौ सन्तः “सदेव सोम्येदमग्रआसीत्” छा० उ० “योऽन्यथा सन्तमात्मानमन्यथा प्रति-पद्यते” मनुः “नासतोविद्यततेऽभावोनाभावो विद्यते सतः”गीता स्त्रियां ङीप् “सती सती योगविसृष्टदेहा” कुमा०“सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी हरिः वि +अति + व्यतिहारे परस्परमेकरूपेण स्थितौ “अन्योव्यतिस्ते तु ममापि धर्म्मः” भट्टिः
अस क्षेपे दिवा०
पर०
सक०
सेट् अस्यति अस्येत् अस्यतुआस्यत् आस्थत् आस असिता--अस्ता असिष्यति ।अस्यत् अस्यमानः अस्तः असितुम्--अस्तुम् असित्वा-अस्त्वा अभ्यस्य, निरस्य “आरे अस्मद्दैव्यं हेलो अस्यतु” ।ऋ० १, ११४, ४, “दस्यवे हेतिमस्यार्य्यम्” ऋ० १, १०३, ३, अति--अतिदूरक्षेपणे “बहुभिश्चैकमत्यस्यन्नेकेन बहून्जनान्” भा० अत्यस्तः पा० वि + अति वैपरीत्येन स्थापने“व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” मनुः “व्यत्या-सश्छलयोगतः” स्मृतिः अधि--आरोपे आरोपश्च अतस्मिन्तद्बुद्धिःअन्योपरिस्थापनञ्च आद्यार्थे “अप्रत्यक्षेऽपि ह्याकाशेबालास्तलमलिनताद्यध्यस्यन्ति” “आह कोऽयमध्यासोनाम”उच्यते स्मृतिरूपः परत्रपूर्व्वदृष्टावभासः” शा० भा० अनु-पश्चात् सह वा क्षेपणे अन्वस्तः “मुञ्जमेखला वल्कलेनान्वस्ताभवति” शत० ब्रा० अप--दूरीकरणे “गतिरपास्तसंस्थामतिः” मालतीमा० “किमित्यपास्याभरणानि यौवने” कुमा० ।अभि--अभ्यावृत्तौ, “अभ्यस्यन्ति तटाघातं निर्जितैरावतागजाः” कुमा० “अभ्यासेन तु कोन्तेय! वैराग्येण चगृह्यते” गीता “शैशवेऽभ्यस्तविद्यानाम्” रघुः ।अव--अवक्षेपे “तामवास्यतो गच्छति सृजम्” शत० ब्रा०समन्तात्क्षेपे “तामवास्यत्यागच्छति मुदम्” शत० ब्रा०उद्--ऊर्द्धोत्क्षेपणे “पुच्छमुदस्यति” सि० कौ० परि + उद्भिन्नतया बोघने “प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्र-धानता पर्य्युदासः विज्ञेयो यत्रोत्तरपदेन नञ्” मीमां०यथा श्राद्धादौ पर्य्युदस्तकालोरात्र्यादिः “अमावास्यायांपितृभ्योदद्यात्” “रात्रौ श्राद्धं कुर्वीते” त्युभयोरेकवाक्य-तया रात्रीतरामावस्यायां श्राद्धं कुर्व्वीतेति हि बोधः तत्ररात्रिः पर्य्युदस्ता एवमन्यत्रापि परितःक्षेपणे “अन्त्याःसर्वे पर्य्युदस्ता मृषिष्ठिरनिवेशने” भा० स० प० वि +उद्--निवारणे “चीराणीव व्युदस्तानि रेजुस्तत्र महा-वने” “रामा० त्वन्तु हेतूनतीत्यैतान् कामक्रोधौ व्युदस्यच” ।भा० स० प० उप--समीपस्थापने “तस्याधस्त स्तद्बहिरु-पास्यति चमसेषु” कात्या० १०, ५, नि--अर्पणे “न मद्विधेन्यस्यति भारमग्र्यम्” निक्षेपरूपेणार्पणे “न्यासीकृतास्थानभिदास्मरेण” कुमा० “राज्यं न्यासमिवाभुनक्” रघुः ।उच्चारणपूर्व्वकं तत्र तत्र स्थाने अर्पणीतया ध्याने ।“आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् अङ्कुलि-व्यापकन्यासौ हृदादिन्यास एव च” तन्त्रम् ।उप + नि + वाचारम्भणे “उपन्यासस्तु वाङ्मुखम्”अमरः प्रथमब्रयोगे “भूतमप्यनुपन्यस्तं पूर्व्वंमावेदितंन चेत् हीयते व्यवहारेण” स्मृतिः “स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः” किरा० सम् + नि त्यागे“व्रीडादमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः”कुमा० विहितकर्म्मणां विधानेन त्यागे “दशलक्षणकंधर्म्ममनुतिष्ठन् समाहितः वेदान्तं विधिवच्छुत्वा सन्यस्ये-दनृणो द्विजः” मनुः “न हि संन्यसनादेव सिद्धिंसमधिगच्छति” “मयि संन्यस्य कर्म्माणि” गीता ।निस्--निर्--निष्ठीवने दूरीकरणे निरस्यति “निष्ठीवतिष्ठिवु निरसने” पा० धातुपा० “निरस्तः परावसुः तृणनि-रसने भवदेवः “निरस्तगाम्भीर्य्यमपास्तधैर्य्यम्” माघः “निरासभृङ्गं कुपितेव पद्मिनी” भट्टिः “क्वणदलिकुलनूपुरानिरासे” किरा० त्वरितोच्चारणे “निरस्तं त्वरितो-दितम्” अमरः ।परा--निराकारणे “एतेन खण्डनकारमतमपि परास्तम्” चिन्ता०परि--परावर्त्तनेन स्थापने “मुखेन पर्य्यस्तविलोचनेन” कुमा० ।“पर्य्यस्यन्निह निचयः सहस्रसंख्याम्” किरा० अर्पणेच “ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य” कुमा० वि--परि--वैप-रीत्ये, परिवर्त्तने भ्रान्तिज्ञाने “इतरथा पात्रे वि-पर्य्यस्येते” शत० ब्रा० “संशयविपर्य्यासनिवारणेनेति”चिन्ता० “विपर्य्यासितदर्शनैः” बौद्धका० ।प्र--प्रक्षेपे “अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्”मनुः “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते” गीता ।अनु--प्र--आनुलोम्येन अनुगततया एकरूपेण निवेशने अनुप्रासःप्रति--प्रतिरूपक्षेपणे “तद्यथाऽहिनिर्लयणी वल्मीके मृता प्र-त्यस्ता शयीत” शत० ब्रा० ।वि--विशेषरूपेण सम्यगवबोधनाय निवेशने व्यासः विग्रहवाक्यम्तस्य समस्तवाक्यार्थस्य विशेषेणावबोधहेतुतया निवेशनात्तथात्वम् विभागे “विव्याम वेदान् यस्मात् तस्मात्व्यास इति स्मृतः” भा० आ० प० पारावारेतिव्यस्तं समस्तंविपरीतञ्च” सि० कौ० व्यस्तः “व्यस्तरात्रिन्दिवस्य ते”कुमा० पृथक्करणे एवैकशः प्रयीगे व्यस्तः “व्यस्तसम-स्तमहाव्याहृतिहोमे” भवदेव निवारणे “व्यस्यन्नु-दन्यां शिशिरैः पयोभिः” भट्टिः विक्षेपे “व्यस्तास्तारा-गणाइव” भा० ।वि--नि--अर्पणे “विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावलीविन्यस्ता” सि० मु० “विभागविन्यस्तमहार्घरत्नम्” भट्टिः ।सम्--संक्षेपे “समासेन निबोधत” पुरा० समस्या संक्षिप्यन्यसनेयथा पीतम् अम्बरमिति समुदायस्य पीताम्बर इतिसंक्षेपेण प्रयोगः समासः “सर्व्वोऽप्येकदेशोऽह्ना सह सम-स्यते” वार्त्ति० “समस्यमानपदार्थातिरिक्तपदार्थबोध-कत्वं बहुव्रीहित्वमिति सारमञ्जरी “ससासः षडिबधोब्धैः”हरिः साकल्ये समस्तम् “ज्ञानमस्ति समस्तस्य देवीमा०“व्यस्तसमस्त महाव्याहृति होमे विनि०” भवदे०संयोजने समस्य सम्पादयत गुणैरिमाम्” किरा०
क्षीरतरङ्गिणी
Sanskrit
असँ अस गति, दीप्ति, आदानेषु
- असते, असति लावण्य उत्पाद्य इवा यत्नः (कुमारसंभव 135) इत्यत्र आसेत्यसतेरिति वामनः (काव्यांल0 5227) अस्तेरित्येके अदादौ अस भुवि (260) अस्ति [अष इत्येके ] 857
असँ अस भुवि
-(अर्थविवरणम्) भवनं भूः, सत्ता
अस्ति श्नसोरल्लोपः (64111)-स्तः, सन्ति, सन् उपसर्गप्रादुर्भ्यामस्तिर्यच्परः (8387) इति षः-अभिष्यात् अभिषन्ति, प्रादुःष्यात् प्रादुःषन्ति, नेह-अभिस्तः तासस्त्योर्लोप (7450)-त्वमसि, व्यतिसे रि (7451)-व्यतिरे एति (7459) इति सस्य हः-व्यतिहे घ्वसोरेद्धावभ्यासलोपश्च (64119)-एधि अस्ति सिचोऽपृक्ते (7296) इतीट्-आसीत् अस्तेर्भूः (2452), गातिस्था (2477) इति सिज्लुक्, आहिभुवोरीट्, प्रतिषेधः (1156 वा0), भूसुवोस्तिङि (7388) इति गुणाभावः-अभूत् अनुप्रयोगे तु भुवाऽस्त्यबाधनम् (2452 वा0)-कारयामास कृभ्वस्तियोगे (5450) च्विः-शुक्लीस्यात् 53
धातुवृत्तिः
Sanskrit
असँ अस (अर्थः) गति, दीप्ति, आदानेषु
( असति आस असिता असिसिषति आसयति आसते इत्यादि) अष इत्येकइति क्षीरस्वामिमैत्रेयौ शाकटायनस्तूभावपि 771
असँ अस (अर्थः) भुवि
( अस्ति, स्तः, सन्ति, असि, स्थः, स्थ, अस्मि, स्वः, स्मः ) "श्नसोरल्लोपः'' ङ्किति सार्वधातुके इत्यापिद्वचनेषु अल्लोपः "तासस्त्योः'' इति सलोपः सकारादौ ( विदामास, आसतुः आसुः, आसिथ, आसथुः आस, आसिव ) "अस्तेर्भूः'' "आर्धधातुके'' इति भूभावोऽनुप्रयोगे नेत्युक्तम् अन्यत्र भूभावे, ( बभूव ) इत्यादि भवतिवत् चान्द्रैरनुप्रयोगादन्यत्रापि क्वचिद्भूभावो नेष्यत इति "प्रादुरास बहुलक्षपाच्छवि'' इत्यादि समाहितम् अत्र युक्तिर्न दृश्यते धातुप्रदीपे तु "असतेरास' इत्युक्तम् विस्तरतु आसेति बभूवार्थे, आहेत्युवाचार्थे इति विभक्तिप्रतिरूपकत्वेन समाहितम् ( भविता भविष्यति अस्तु, स्तात्, स्ताम्, सन्तु, एधि, स्तात् स्तं, असानि असाव ) हावल्लोपे "घ्वसोरेद्धा0'' इति सकारस्यैत्वम् तस्य "असिद्धवदत्राभात्'' इत्यसिद्धत्वात्, "हुज्झल्भ्यो हेर्धिः'' इति धिभावः तातङ्पक्षे एत्वं भवति, परेण तेन बाधात् कृते तु तातङि स्थानिवत्त्वेनापि भवति "सकृद्गतौ विप्रतिषेधेन' इति ( आसीत्, आस्ताम्, आसन्, आसीः आसम्, आस्व) "अस्तिसिचोऽपृक्ते'' इतीडागमः श्नसोरल्लोपस्य "असिद्धवदत्र'' इत्यसिद्धत्वादाडागमो द्विवचनादौ ( स्यात्, स्यातां, स्युः, स्याः, स्यां, स्याव, ) पिद्वचनेष्वपि यासुटो ङित्त्वादल्लोपः आशिशि (भूयाद्) इत्यादि (अभूत्) "गातिस्था'' इति सिचो लुक् [ आहिभुवोरीट्प्रतिषेधे ] इति स्थानिवत्त्वनिषेधाद् अस्त्याश्रय ईण्णभवति प्रत्ययलक्षणेन सिजाश्रयो भवति, अत एव स्थानिवत्त्वनिषेधसामर्ध्यात् यद्वा "अस्तिसिच'' इत्यस्य विद्यमानसिच इत्यर्थस्य भवतौ प्रतिपादितत्वाद् नैवसिजाश्रयस्येटः प्रसङ्गः सिचि वृद्धिर्लुका लुप्तत्वान्न भवति ( अभूवन् ) "भुवो वुग्लुङ्लिटोः'' इति वुक् "आत'' इति नियमात् जुस्भावो भवति ( अभूः ) "भूसुवोस्तिङि'' इति पिति गुणनिषेधः शेषं भवतिवद् आर्धधातुके नेयम् "श्रिणीभुवोऽनुपसर्गे'' इति घञ् अस्य लुग्विकरणत्वान्न भवति तेन आपादाने भव इति "ऋदोरप्'' इति रक्षितः (विषन्ति प्रादुष्यन्ति, विष्यात्, प्रादुष्यात् ) ( सूत्रम्) उपसर्गप्रादुर्भ्यामस्तिर्यच्परः (इति सूत्रम्) आभ्यां परस्यास्तिसकारस्य यकारस्य यकारपरस्याच्परस्य इति षत्वम् ( व्यतिस्ते, व्यतिषाते, व्यतिषते, व्यतिसे, व्यतिषाथे, व्यतिध्वे, व्यतिहे व्यतिस्वहे व्यतिस्त ) इत्यतोऽन्यत्र"उपसर्गप्रादुर्भ्याम्'' इति षत्वं द्रष्टव्यम् (व्यतिसे) इत्यत्र श्नसोरल्लोपे "तासस्त्योः'' सलोपे प्रत्ययसकारस्यानस्तिसकारत्वात् पदादित्वाच्च षत्वाभावः ( व्यतिध्वे )इत्यत्र पूर्ववदल्लोपे, "धि च'' इति सलोपः एवं सेध्वेशब्दयोः प्रत्ययमात्रमेवावशिष्यते लोटि ( व्यत्यसै ) इत्यत्र नित्यत्वात् "एत ऐ'' इत्यैकारादेशे "ह एति'' इत्येत्वंनिमित्ताभावान्न भवति अस्ति क्षीरं यस्यास्मा ( अस्तिक्षीरा ) ब्राह्मणी नास्ति बाधको येषां ते ( नास्तिबाधकाः ) "सुबधिकारे अस्तिक्षीरादिवचनम्' इति बहुव्रीहिः नास्तिबाधका इत्यत्र उत्तरपदपरत्वाभावात् "नलोपो नञ'' इति भवतिउत्तरपदशब्दश्चसमासचरमावयवे रूढः परलोकोऽस्तीति मतिर्यस्य ( आस्तिकः, ) परलोको नास्तीति मतिर्यस्य (नास्तिकः) "अस्तिनास्ति दिष्टं मतिः''इति मत्युपाधिकार्थेऽभ्योऽस्येति षष्ठ्यर्थेठक् वचनसामर्थ्यात्तिङ्न्ताद्वक्याच्चायं प्रत्ययो भवति निपातौ वास्तिनास्ती अत एव अस्तिमानित्याद्यकि भवति 55
कृदन्तरूपमाला
Sanskrit
1 {@“अस गतिदीप्त्यादानेषु”@} 2 ‘असतेऽसति गत्यादौ, भुव्यस्ति, क्षेपणेऽस्यति।’ 3 इति देवः।
आसकः-सिका, आसकः-सिका, 4 असिसिषकः-षिका
असिता-त्री, आसयिता-त्री, असिसिषिता-त्री
असन्-न्ती, आसयन्-न्ती, असिसिषन्-न्ती
असिष्यन्-न्ती-ती, आसयिष्यन्-न्ती-ती, असिसिषिष्यन्-न्ती-ती
असमानः, आसयमानः, असिसिषमाणः
असिष्यमाणः, आसयिष्यमाणः, असिसिषिष्यमाणः
5 अः, असौ, असः
-- -- असितम्-तः, आसितम्-तः, असिसिषितः-तवान्
असः, आसः, असिसिषुः, आसिसयिषुः
असितव्यम्, आसयितव्यम्, असिसिषितव्यम्
असनीयम्, आसनीयम्, असिसिषणीयम्
आस्यम्, आस्यम्, असिसिष्यम्
ईषदसः, दुरसः, स्वसः, -- -- आसः, आसः, असिसिषः
असितुम्, आसयितुम्, असिसिषितुम्
अस्तिः, आसना, असिसिषा, आसिसयिषा
असनम्, आसनम्, असिसिषणम्
असित्वा, आसयित्वा, असिसिषित्वा
प्रास्य, समास्य, प्रासिसिष्य
आसम् २, असित्वा २, आसम् २, आसयित्वा २, असिसिषम्
असिसिषित्वा २। 6
प्रासङ्गिक्यः
01
=>
(५१)
02
=>
(१-भ्वादिः-८८६-सक-सेट्-उभयपदी)
03
=>
(१८४ श्लोकः।)
04
=>
[[१। ‘सन्यङोः’ (६-१-९) इति द्वित्वम्।]]
05
=>
[[२। क्विपि, ‘ससजुषो रुः’ (८-२-६६) इति रुत्वम्। ‘खरवसानयोर्विसर्जनीयः’ (८-३-१५) इति विसर्गः।]]
06
=>
[पृष्ठम्००५०+ ३७]
1 {@“अस भुवि”@} 2 ‘असतेऽसति गत्यादौ’ भुव्यस्ति, क्षेपणेऽस्यति’ 3 इति देवः।
4 भावकः-विका, भावकः-विका, 5 बुभूषकः-षिका, 6 बिभावयिषकः-षिका, 7 बोभूयकः-यिका
भविता, भावयिता, बुभूषिता, बिभावयिषिता-बोभूयिता-त्री
8 सन्-सती, भावयन्, बुभूषन्, बिभावयिषन्-न्ती
भविष्यन्, भावयिष्यन्, बुभूषिष्यन्, बिभावयिषिष्यन्-न्ती-ती
9 व्यतिषाणः, भावयमानः, भावयिष्यमाणः, बोभूयमानः, बोभूयिष्यमाणः
भूः-भुवौ-भुवः
-- -- -- 10 भूतः-तम्-तवान्, भावितः, बुभूषितः, बिभावयिषितः-बोभूयितः-तवान्
भवः, भावः, बुभूषुः, बिभावयिषुः, बोभूयः
भवितव्यम्, भावयितव्यम्, बुभूषितव्यम्, बिभावयिषितव्यम्, बोभूयितव्यम्
भवनीयम्, 11 प्रभबनीयम्, प्र 12 भावनीयम्, बुभूषणीयम्, बिभावयिषणीयम्, बोभूयनीयम्
13 भव्यम्, अवश्य 14 भाव्यम्, भाव्यम्, बुभूष्यम्, बिभावयिष्यम्, बोभूय्यम्
ईषद्भवम्, दुर्भवम्, सुभवम्
-- -- भूयमानः, भाव्यमानः, बुभूष्यमाणः, बिभावयिष्यमाणः, बोभूय्यमानः
15 16 भवः भावः 17 भावः, बुभूषः
बिभावयिषः, बोभूयः
भवितुम्, भावयितुम्, बुभूषितुम्, बिभावयिषितुम्, बोभूयितुम्
भूतिः, भावना, बुभूषा, बिभावयिषा, बोभूया
भवनम्, भावनम्, बुभूषणम्, बिभावयिषणम्, बोभूयनम्
भूत्वा, भावयित्वा, बुभूषित्वा, बिभावयिषित्वा, बोभूयित्वा
अनुभूय, अनुभाव्य, अनुबुभूष्य, अनुभावयिष्य, अनुबोभूय्य
भावम् २, भूत्वा २, भावम् २, भावयित्वा २, बुभूषम् २, बुभूषित्वा २, बिभावयिषम्
बिभावयिषित्वा
बोभूयम्
बोभूयित्वा २।
प्रासङ्गिक्यः
01
=>
(५२)
02
=>
(२-अदादिः-१०६५-अक। सेट्। पर।)
03
=>
(१८४)
04
=>
[[१। ‘अस्तेर्भूः’ (२-४-५२) इति आर्ध- धातुकविषये ‘भू’ आदेशः।]]
05
=>
[[१। आ। ‘सनि ग्रहगुहोश्च’ (७-२-१२) इति इण्णिषेधः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्।]]
06
=>
[[२। ‘ओः पुयण्ज्यपरे’ (७-४-८०) इति अभ्यासोकारस्येत्त्वम्।]]
07
=>
[[२। आर्घधातुकविवक्षायां भूभावः। अतश्च हलादित्वात् यङ्प्रत्यय उत्प- द्यते--यथा अजधातौ। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासे गुणः।]]
08
=>
[[३। ‘श्नसोरल्लोपः’ (६-४-१११) इति धात्वकारस्य लोपः। शतुः सार्वधा- तुकत्वात् भूभावो न।]]
09
=>
[[३। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्’। ‘श्नसोरल्लोपः’ (६-४-१११) इति धात्वकारलोपः। ‘उपसर्गप्रादुर्भ्यामस्तिर्यच्परः’ (८-३-८७) इति षत्वम्।]]
10
=>
[[४। ‘श्र्युकः किति’ (७-२-११) इतीण्- णिषेधः।]]
11
=>
[[५। ‘न भाभू--’ (८-४-३४) इति णत्वं न।]]
12
=>
[[६। ‘ण्यन्तभादीनां--’ (वा ८-४-३४) इति णत्वं न।]]
13
=>
[[६। ‘अचो यत्’ (३-१-९७) इति यत्।]]
14
=>
[[७। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
15
=>
[पृष्ठम्००५१+ ३०]
16
=>
[[१। ‘ॠदोरप्’ (३-३-५७) इत्यप् भावे।]]
17
=>
[[२। ‘एरच्’ (३-३-५६) इत्यच्।]]
Stchoupak
French
अ-स-
v. अ-लद्-।