| YouTube Channel

अष्टाविंशतितत्त्व (aSTAviMzatitattva)

 
वाचस्पत्यम्
Sanskrit
अष्टाविंशतितत्त्व
न०
अष्टविंशतौस्थानेषु तत्त्वंतत्त्वज्ञानं यतः ।रघुनन्दनभट्टाचार्य्यकृते मलमासादिषु अष्टाविंशतिस्था-नेषु तत्त्वज्ञापके स्मृतिनिबन्धे तानि स्थानानि तेनप्रतिज्ञायां दर्शितानि यथा “मलिम्लुचे दायभागे संस्कारेशुद्धिनिर्णये प्रायश्चित्ते विवाहे तिथौ जन्माष्टमीव्रतेदुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये तडाभगवनोत्-सर्गे वृषोत्सर्गत्रये व्रते प्रतिष्ठायां परीक्षायां ज्योतिषेवास्तुयज्ञके दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे ।सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे इत्यष्टाविंशति-स्थाने तत्त्वं वक्ष्यामि यत्नतः”