| YouTube Channel

अष्टादशाङ्ग (aSTAdazAGga)

 
शब्दकल्पद्रुमः
Sanskrit
अष्टादशाङ्गः,
पुं,
(अष्टादश अङ्गानि यस्मिन् ।)अष्टादशद्रव्यात्मकपाचनं चतुर्व्विधः दश-मूल्यादिः भूनिम्बादिः द्राक्षादिः ।मुस्तादिः तद्यथा ।“दशमूली शठी शृङ्गी पौष्करं सदुरालभा ।भार्गी कुटजवीजञ्च पटोलं कटुरोहिणी
अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः ।कासहृद्गहपाश्वार्त्तिहिक्काश्वासवमीहरः”
“भूनिम्बदारुदशमूलमहौषधाब्द-तिक्तेन्द्रवीजधनिकेभकणाकषायः ।तन्द्राप्रलापकसनारुचिदाहमोहश्वासादियुक्तमखिलं ज्वरमाशु हन्ति”
“द्राक्षामृता शठी शृङ्गी मुस्तकं रक्तचन्दनं ।नागरं कटुका पाठा भूनिम्बं सदुरालभं
उशीरं पद्मकं धान्यं बालकं कण्टकारिका ।पुष्करं पिचुमर्द्दश्च क्वाथं जीर्णज्वरापहः
कासं श्वासञ्च विषमं श्वयथूदरनाशनं ।अष्टादशाङ्गमुदितमेतत् स्यात् सन्निपातनुत्”
मुस्तपर्पटकोशीरदेवदारुमहौषधं ।त्रिफला धन्वयासश्च नीली काम्पिल्लकं त्रिवृत्
किराततिक्तकं पाठा बलाकटुकरोहिणी ।मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते
अष्टादशाङ्गमुदितमेतद्वा सन्निपातनुत् ।पित्तोत्तरे सन्निपाते हितञ्चोक्तं मनीषिभिः
मन्यास्तम्भौरोघाते उरःपार्श्वशिरोग्रहे”
इति सुखबोधः
वाचस्पत्यम्
Sanskrit
अष्टादशाङ्ग पुंन० अष्टादश अङ्गानि यत्र वैद्यक-प्रसिद्धे पाचनभेदे तच्च वातादिभेदेन भिन्नभिन्नप्रकारं दर्शितंचक्रदत्तेन “दशमूली शटी शृङ्गी पौष्करं सदुरा-लभम् भार्गी कुटजवीजञ्च पटोलं कटुरोहिणी अष्टा-दशाङ्ग इत्येष सन्निपातज्वरापहः कासहृद्ग्रहपार्श्वा-र्त्तिश्वासहिक्कावमीहरः भूनिम्बदारुदशमूलमहौषधाट्य-तिक्तेन्द्रवीजधनिकेभकणाकषायः तन्द्रीप्रलापकसनारु-चिदाहमोहश्वासादियुक्तमखिलं ज्व रमाशु हन्ति
मुस्त-पर्प्पटकोशीरदेवदारुमहौषधम् त्रिफलाधन्वयासश्च नी-लीकम्पिल्लकं त्रिवृत् किराततिक्तकं पाठाबलाकटुक-रोहिणी मधूकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते ।अष्टादशाङ्गमुदितमेतद्वा सन्निपातनुत् पित्तोत्तरे सन्नि-पाते हितञ्चोक्तं मनीषिभिः मन्यास्तम्भे उरोघाते उरः-पार्श्वशिरोग्रहे” अत्यविधमप्यन्यत्रोक्तं विस्तरान्न तदुक्तम्