| YouTube Channel

अष्टाङ्गः (aSTAGgaH)

 
E Bharati Sampat
Sanskrit
(पुं) अष्टौ अङ्गानि यस्य १. पातञ्जलोक्तः यमनियमादियोगविशेषः "यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि" - पात.सू. २. प्रणामभेदः दोर्भ्यां पद्भ्यां जानुभ्यामुरसा शिरसा दृशा मनसा वचसा चेति प्रणामोऽष्टाङ्गईरितः" - वैद्यना-आह्निक० ३. अष्टद्रव्यघटितः पूजोपकरणार्घः ‘आपः क्षीरः कुशाग्रं दधि सर्पिः सतण्डुलम् यवः सिद्धार्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्तितः ४. अष्टद्रव्यात्मकः सूर्यार्घः ‘आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि रक्तानि करवीराणि तथा वै रक्तचन्दनम् - काशीखण्डः ५. शारीफलकम् "कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान् अष्टावङ्गानि तस्याङ्गः चिकित्सा येषु संश्रिता" - अष्टाङ्गहृ. १.१.५