अष्टवर्ग (aSTavarga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English अष्टवर्ग aSTavarga being in rows of eight each
अष्टवर्ग aSTavarga class of eight principal medicaments
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiअष्टवर्गः
अष्टन्-वर्गः -
एक प्रकार का रेखाचित्र जो किसी विशेष समय पर ग्रहों की स्थिति दर्शाता है।
Shabdartha Kaustubha
Kannadaअष्टवर्ग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜ್ಯೋತಿಷೋಕ್ತವಾದ ಶುಭಾಶುಭಗಳನ್ನು ತಿಳಿಸುವ ರೇಖಾಕಾರವಾದ ಒಂದು ಚಕ್ರ
अष्टवर्ग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವರ್ನಗಳ ೮ ಗುಂಪು
पुराणम्
Englishअष्टवर्गस् / AṢṬAVARGA(S). meda, Mahāmeda, Kākoli, Kṣīrakākoli, Jīvaka, Iṭavaka, ṛddhi, Vṛddhi (These are used in infusions for treating rheumatism).
शब्दकल्पद्रुमः
Sanskritअष्टवर्गः, (अष्टानां औषधविशेषानां रविप्रभृ-तीनां वा वर्गः ।) औषधविशेषाष्टकं । तद्यथा ।ऋषभः १ जीवकः २ मेदः ३ महामेदः ४ ऋद्धिः५ वृद्धिः ६ काकोली ७ क्षीरकाकोली ८ । इतिवैद्यकपरिभाषा । एकीकृतैतदौषधगुणाः । रक्त-पित्तव्रणवायुपित्तनाशित्वं । इति राजवल्लभः ॥
(“जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके ।अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः ॥
अष्टवर्गो हिमः स्वादुर्वृंहणो शुक्रलो गुरुः ।भग्नसन्धानकृत् कामबलासबलवर्द्धनः ॥
वातपित्तास्रतृट्दाहज्वरमेहक्षयप्रणुत्” ।इति भावप्रकाशः ॥
)ज्योतिषशास्त्रोक्तगोचरविशेषः । तद्यथा । आदौरव्यादिसप्तग्रहाणां राहोश्च अष्टमासकोष्ठं कृत्वाप्रत्येकमासकोष्ठे जन्मकालीनग्रहाधिष्ठितराश्य-वधिस्वाद्दिनकृच्छुभद इत्यादि दीपिकोक्तवच-नाङ्कसंख्यकगृहे रेखां विन्यसेत् तत्र रवेर्द्वादश-कोष्ठे ४८ चन्द्रस्य ४९ कुजस्य ३९ बुधस्य ५५गुरोः ५६ भृगोः ५२ शनेः ३९ राहोः ३९एतत्संख्यका रेखा देयाः । ततः प्रत्येकगृहस्थरेखाःद्विगुणीकृत्य अष्टाधिकाश्चेत् अष्टभिः शोध-येत् । शेषा रेखाः शुभाः ख्याताः । अष्टोना-श्चेत्तदा विन्दुभिरष्टानां पूरणं कार्य्यं । तत्र विन्द-वोऽशुभाः ख्याताः । अष्टौ चेत् तदा विन्दुरे-खयोरभावस्तत्र समं परिकीर्त्तितं ॥
तस्यनामगुणाः ।“जीवकर्षभकौ मेदे काकोल्यौ वृद्धिऋद्धिके ।अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः ॥
अष्टवर्गो हिमः स्वादुर्वृंहणः शुक्रलो गुरुः ।भग्नसन्धानकृत् बल्यः शरीरबलवर्द्धनः ॥
वातपित्तास्रतृट्दहज्वरमेहक्षयप्रणुत्” ।इति भावप्रकाशः ॥
* । ज्योतिःशास्त्रोक्तगणनयारेखाविन्दुभ्यां शुभाशुभफलसूचकजन्मकालीनाष्ट-ग्रहसमुदायः । यथा । अथाष्टवर्गः ।“जन्मकालग्रहस्थित्या फलं वक्ष्ये शुभाशुभं” ।स्वाद्दिनकृत् शुभदः क्षितिपक्षसमुद्रनगादिक-पञ्चगतो १ । २ । ४ । ७ । ८ । ९ । १० । ११ ।ऽथ विभावरिभर्त्तुस्त्र्यङ्गदशेषगतो ३ । ६ । १० ।११ । ऽथ कुजाद्रविवत् १ । २ । ४ । ७ । ८ । ९ ।१० । ११ । अथ सोमसुतात्रिशरर्त्तुनवादिषुयातः । ३ । ५ । ६ । ९ । १० । ११ । १२ । देव-गुरोर्विषयर्त्तुनवेशगतो ५ । ६ । ९ । ११ । ऽथसुरारिगुरोः समयाचलभास्करयातः । ६ । ७ ।१२ । तीक्ष्णमरीचिसुतादपि भास्करवत् । १ ।२ । ४ । ७ । ८ । ९ । १० । ११ । अथ लग्नगृहात्त्रिकृताङ्गदशादिषु यातः ३ । ४ । ६ । १० । ११ ।१२ । रविरेखाः । ४८ । भूजङ्गविलासाभिधान-मालादण्डकेनादित्याष्टवर्गः ॥
* ॥
चन्द्रः शुभो-ऽर्कात्रिकालाद्रिदन्ताबलाशशिवस्थ । ३ । ६ । ७ ।८ । १० । ११ । स्ततः स्वात् कुरामर्त्त्वगाशा-शिवस्थः । १ । ३ । ६ । ७ । १० । ११ । क्ष्माजा-द्द्विवह्नीषुषड्गोदिगीशेष्व । २ । ३ । ५ । ६ । ९ ।१० । ११ । थ ज्ञात् कुरामाब्धिबाणागदन्ता-बलाशाशिवस्थः १ । ३ । ४ । ५ । ७ । ८ । १० ।११ । जीवात् कुदृग्वेदशैलेभकाष्ठाशिवस्थो १ ।२ । ४ । ७ । ८ । १० । ११ । ऽथ शुक्रात्रिवेदेषु-शैलग्रहाशाशिवस्थः ३ । ४ । ५ । ७ । ९ । १० । ११ ।तीक्ष्णांशुदेहोद्भवाद्रामबाणर्त्तुशम्भुस्थितो ३ । ५ ।६ । ११ । ऽथोदयाद्धव्यवाहर्त्तुकाष्ठाशिवस्थः । ३ ।६ । १० । ११ । चन्द्ररेखाः । ४९ । कामबाणाभि-धानमालादण्डकेन चन्द्राष्टवर्गः ॥
* ॥
कुत्रोऽर्का-च्छुभो वह्निबाणर्त्तुदिक्शम्भुगो ३ । ५ । ६ । १० ।११ । ऽथेन्दुतो रामकालेशग ३ । ६ । ११ । स्ततःस्वात कुदृग्वेदसप्ताष्टदिक्शम्भुगः स्यात् १ । २ ।४ । ७ । ८ । १० । ११ । निशानाथपुत्त्राद्गुणेष्वङ्ग-रुद्रोपयातः । ३ । ५ । ६ । ११ । ततो जीवतःकालकाष्ठाशिवार्कोपयातो ६ । १० । ११ । १२ ।ऽथ देवारिपूज्यादनेहो गजेशार्कसंस्थः । ६ । ८ ।११ । १२ । ततः सूर्य्यपुत्त्रात् कुवेदागनागग्रहा-शाशिवस्थो १ । ४ । ७ । ८ । ९ । १० । ११ ।ऽथ लग्नात् कुरामाङ्गदिकशम्भुयातः । १ । ३ ।६ । १० । ११ । कुजरेखाः ३९ । सिंहविलासा-भिधानमालादण्डकेन भौमाष्टवर्गः ॥
* ॥
ज्ञः शुभो-ऽर्कतः शरर्त्तुगोशिवार्कगो ५ । ६ । ९ । ११ ।१२ । ऽथ चन्द्रतो द्विवेदकालनागदिङ्महेश्वरेषु ।२ । ४ । ६ । ८ । १० । ११ । भूमिजात् कुदृक्-कृतागनागगोदशेशगः । १ । २ । ४ । ७ । ८ ।९ । १० । ११ । ततः स्वतः कुवह्निपञ्चषण्णवादि-केषु । १ । ३ । ५ । ६ । ९ । १० । ११ । १२ ।वाक्पतेरसाष्टशम्भुसूर्य्यगो ६ । ८ । ११ । १२ ।ऽथ शुक्रतः कुबाहुवह्निवेदपञ्चनागगोशिवेषु । १ ।२ । ३ । ४ । ५ । ८ । ९ । ११ पङ्गुतः कुदृक्कृताग-नागपञ्चकस्थितो ऽथ । १ । २ । ४ । ७ । ८ । ९ ।१० । ११ । १२ । लग्नतः क्षितिद्विवेदकालनाग-दिक्शिवेषु । १ । २ । ४ । ६ । ८ । १० । ११ ।बुधरेखाः । ५५ । अशोकमञ्जरीसंज्ञकमाला-दण्डकेन बुधाष्टवर्गः ॥
* ॥
सुरराजगुरुः शुभदोरवितः कुयमानलवेदनगादिकपञ्चगतो १ । २ ।३ । ४ । ७ । ८ । ९ । १० । ११ । ऽथ विधोर्द्वि-शराचलगोशिवगो २ । ५ । ७ । ९ । ११ । वसु-धातनयात् कुयमाब्धिनगाष्टदशेशगतो १ । २ ।४ । ७ । ८ । १० । ११ । ऽथ बुधात् क्षितियुग्म-कृतेषुरसग्रहदिक्गिरिशोपगत १ । २ । ४ ।५ । ६ । ९ । १० । ११ । स्तदनु स्वत एकयमानल-वारिधिपर्ब्बतनागदशेशगतो १ । २ । ३ । ४ ।७ । ८ । १० । ११ । ऽथ सिताद्यमपञ्चरसग्रहदि-शिवगो २ । ५ । ६ । ९ । १० । ११ । रविनन्द-नतो दहनेषुरसार्कगत ३ । ५ । ६ । १२ । स्त्वथलग्नगृहात् कुयमाब्धिशरर्त्तुनगग्रहदिग्गिरिशोप-गतः १ । २ । ४ । ५ । ६ । ७ । ९ । १० । ११ ।गुरुरेखाः ५६ । कुसुमस्तवकाभिधानमालादण्डकेनवृहस्पतेरष्टवर्गः ॥
* ॥
भृगुः शुभो रवेर्गजेश-सूर्य्यगो । ८ । ११ । १२ । ऽथ चन्द्रतः क्ष्मादिपञ्च-काष्टगोशिवार्कगः । १ । २ । ३ । ४ । ५ । ८ ।९ । ११ । १२ । कुजात् त्रिवेदकालगोशिवार्कगो३ । ४ । ६ । ९ । ११ । १२ । ऽथ बोधनात् त्रि-बाणकालरन्ध्ररुद्रसंस्थितः । ३ । ५ । ६ । ९ । ११ ।गुरोः शराष्टरन्धदिङ्महेशग । ५ । ८ । ९ । १० ।११ । स्ततः स्वतः कुपञ्चकाष्टरन्ध्रदिक्शिवोपगः१ । ५ । ८ । ९ । १० । ११ । शनेर्गुणाब्धिपञ्चना-गगोदशेशगो । ३ । ४ । ५ । ८ । ९ । १० । ११ । ऽथलग्नतः कुपञ्चकाष्टगोशिवस्थितः । १ । २ । ३ ।४ । ५ । ८ । ९ । ११ । शुक्ररेखाः । ५२ । अनङ्ग-शेखराभिधानमालादण्डकेन भार्गवाष्टवर्गः ॥
* ॥
शुभः पङ्गुरर्कात् क्ष्मायमाम्भोधिशैलाष्टदिक्श-म्भुग । १ । २ । ४ । ७ । ८ । १० । ११ । इन्दुतोरामकालेशगतः । ३ । ६ । ११ । क्ष्मासुताद्वह्नि-बाणर्त्तुकाष्ठाशिवार्कोपगो । ३ । ५ । ६ । १० ।११ । १२ । ऽथ ज्ञतः कालदन्तावलादिस्थितो । ६ ।८ । ९ । १० । ११ । १२ । जीवतो बाणकालेश-मार्त्तण्डयात । ५ । ६ । ११ । १२ । स्ततो दैत्य-पूज्यादनेहःशिवार्कोपयातः । ६ । ११ । १२ । स्वतोवीतिहोत्रेषु कालेशयात । ३ । ५ । ६ । ११ ।स्ततो लग्नतः क्ष्मागुणाम्भोधिषड्दिङ्महेशस्थितः ।१ । ३ । ४ । ६ । १० । ११ । शनिरेखाः ३९ ।मत्तमातङ्गलीलाभिधानदण्डकेन शनैश्चराष्टवर्गः ।इति दीपिका ॥
* ॥
राहुः शुभोऽर्काद्भुजवह्नि-वेदर्त्तुरन्ध्रगो । २ । ३ । ४ । ६ । ९ । अथ चन्द्रात्कुरामवेदाङ्गग । १ । ३ । ४ । ६ । स्ततः कुजा-द्वह्निबाणाङ्गरन्ध्रगतो । ३ । ५ । ६ । ९ । ऽथबुधाच्छशिपक्षवह्निबाणरन्ध्रग । १ । २ । ३ । ५ ।९ । स्ततो जीवाद्धव्यवाहवेदाङ्गरन्ध्रग । ३ । ४ ।६ । ९ । स्ततः शुक्रात् पक्षवह्निबाणरन्ध्रगत ।२ । ३ । ५ । ९ । स्ततः सौरात् पक्षबाणर्त्तुग । २ ।५ । ६ । स्ततः स्वतः शशिवेदबाणरिपुरन्ध्रगो ।१ । ४ । ५ । ६ । ९ । ऽथ लग्नाद्वेदरग्ध्र-दिग्रुद्रसूर्य्यगतः । ४ । ९ । १० । ११ । १२ ।राहुरेखाः । ३९ । मृगेन्द्रविलासाभिधानदण्डकेनराहोरष्टवर्गः ॥
* ॥
सूर्य्यादेकद्विचतुःसप्ताष्ट-दशैकादशेषु । १ । २ । ४ । ७ । ८ । १० । ११ ।सोमात्त्रिषड्दशैकादशेष । ३ । ६ । १० । ११ ।भौमात्त्रिपञ्चषडेकादशेषु । ३ । ५ । ६ । ११ ।बुधात् षडष्टनवदशैकादशेषु । ६ । ८ । ९ । १० ।११ । गुरोः पञ्चषडेकादशद्वादशेषु । ५ । ६ ।११ । १२ । शुक्रात् षडेकादशद्वादशेषु ६ । ११ ।१२ । शनेस्त्रिपञ्चाष्टदशैकादशेषु । ३ । ५ । ८ ।१० । ११ । लग्नादेकत्रिचतुःषड्दशकादशेषु । १ ।३ । ४ । ६ । ११ । एवं लग्नरेखाः ३७ ॥
* ॥
“इति निगदितमिष्टं नेष्टमन्यद्विशेषा-दधिकफलविपाकं जन्मंभात्तत्र दद्युः ।उपचयगृहमित्रस्वोच्चगाः पुष्टमिष्टंत्वपचयगृहनीचारातिभे नेष्टसम्पत् ॥
यावती यावती रेखा ग्रहाणामष्टवर्गके ।तावतीं द्विगुणीकृत्य अष्टाभिः परिशोधयेत् ॥
अष्टोपरि भवेद्रेखा अष्टाभ्यन्तरविन्दवः ।अष्टाभिस्तु समो यत्र तत् समं परिकीर्त्तितम् ॥
रेखा ग्रहाच्छुभे देया विन्दवश्चेतरत्र तु ।रेखाविन्दू समानौ चेत् समस्तत्र निगद्यते ॥
रेखाधिक्ये शुभं ज्ञेयं तद्वद्विन्दोरथाशुभम् ।श्रीरानन्दस्तथा श्रेयो भोगो राज्यं भवेत्तथा ॥
मलिनोऽथ विपच्चैव हानिर्मृत्युर्भवेत्तथा ।द्व्यादिरेखा द्व्यादिविन्दोः फलान्येतान्यनुक्रमात् ॥
रेखायां वत्सरो ज्ञेयः सार्द्धसप्तदिनं समे ।अष्टवर्गदशायुः स्यात् दिनं चतुर्षु विन्दुषु” ॥
इत्यायुर्द्दायः । इत्यष्टवर्गः ॥
* ॥
नन्दी ।“अष्टवर्गशुभैः श्रीमान् कर्म्म कुर्य्यान्नभश्चरैः ।गोचरस्थैस्तदप्राप्तौ तदप्राप्तौ च वेधगैः ॥
व्रतारम्भे विवाहे च यात्रायां क्षुरकर्म्मणि ।अविशुद्धाष्टवर्गस्य समस्ता निष्फलाः क्रियाः ॥
“सततं दिशति नराणांराशौ मध्येऽष्टवर्गफलं निखिलं ।भावफलं प्रथमार्द्धेदृष्टिफलान्यर्द्धभुक्तेषु” ॥
इत्यष्टवर्गार्थकथनम् । इति ज्योतिस्तत्त्वम् ॥
वाचस्पत्यम्
Sanskritअष्टवर्ग अष्टानामराहुरव्यादीना वर्गो यत्र । ज्योतिषोक्तेरेखाविशेषेण शुभाशुभसूचके चक्रभेदे यथा । “जन्मकाल-गृहस्थित्या फलं वक्ष्ये शुभाशुभम् । “स्वाद्दिनकृत् शुभदःक्षितिपक्षससुद्रनगादिकपञ्चगतो १, २, ४, ७, ८, ९, १०, ११, ऽथ विभावरिभर्त्तुस्त्र्यङ्गदशेशगतो ३, ६, १०, ११, ऽथकुजाद्रविवत्, १, २, ४, ७, ८, ९, १०, ११, अथ सोमसुतात्त्रिश-रर्त्तुनवादिषु यातः, ३, ५, ६, ९, १०, ११, १२, देवगुरोर्विष-यर्त्तुनवेशगतो, ५, ६, ९, ११, ऽथ सुरारिगुरोः समयाचल-भास्करयातः, ६, ७, १२, तीक्ष्णमरीचिसुतादपि भास्करवत्, १, २, ४, ७, ८, ९, १०, ११, अथ लग्नगृहात्त्रिकृताङ्गदशा-दिषु यातः, ३, ४, ६, १०, ११, १२ । रविरेखाः । ४८ । “चन्द्रःशुभोऽर्कात्त्रिकालाद्रिदन्तावलाशाशिवस्थः, ३, ६, ७, ८, १०, ११, ततः स्वात्कुरामर्तुगवाशाशिवस्थः, १, ३, ६, ७, १०, ११, क्षमाजादक्षिवह्नीषुषड्गीदिगीशेष्व, २, ३, ५, ६, ९, १०, ११, थ ज्ञात् कुरामाब्धिवाणागदन्तावलाशाशिवस्थः, १, ३, ४, ५, ७, ८, १०, ११, जीवात् कुदृग्वे दशैलेभकाष्ठाशिवस्थो, १, २, ४, ७, ८, १०, ११, ऽथ शुक्रात्त्रिवेदेषुशैलग्रहाशाशिवस्थः, ३, ४, ५, ७, ९, १०, ११, तीक्ष्णांशुदेहोद्भवाद्रामवाणर्त्तुशम्भु-स्थित, ३, ५, ६, ११, उदयाद्धव्यवाहर्त्तुकाष्ठाशिवस्थः”, ३, ६, १०, ११, चन्द्ररेखाः । ४९ । “कूजोऽर्काच्छुभो वह्निवा-णर्त्तुदिक्शम्भुगो, ३, ५, ६, १०, ११, ऽथेन्दुतोरामकालेशग, ३, ६, ११, स्ततः स्वात् कुदृग्वेदमुन्यष्टदिक्शम्मुगः, १, २, ४, ७, ८, १०, ११, स्यान्निशानाथपुत्राद्गुणेष्वङ्गरुद्रोपयातः ।३, ५, ६, ११, ततोजीवतः कालकाष्ठाशिवार्कोपयातो, ६, १०, ११, १२, ऽथ देवारिपूज्यादनेहोगजेशार्कसंस्थः, ६, ८, ११, १२, ततः सूर्य्यपुत्रात् कुवेदागनागग्रहाशाशिवस्थो, १, ४, ७, ८, ९, १०, ११, ऽथ लग्नात् कुरामाङ्गदिक् शम्भु-यातः । १, ३, ६, १०, ११, कुजरेखाः ३९ । बुधोःऽर्कतःशरर्त्तुगोशिवार्कगो, ५, ६, ९, ११, १२, ऽथ चन्द्रतोद्विवे-दकालमागदिङ्महेश्वरोपगः । २, ४, ६, ८, १०, ११, भूमि-जात्कुदृक्कृतागनागगोदशेशग, १, २, ४, ७, ८, ९, १०, ११, स्त-तः स्वतः कुवह्निपञ्चषड्नवादिकेषुगः, १, ३, ५, ६, ९, १०, ११, १२, वाक्पतेरसाष्ठशम्भुसूर्य्यगो, ६, ८, ११, १२, ऽथशुक्रतः कुवाहुवह्निवेदपञ्चनागगोशिवेषुगः १, २, ३, ४, ५, ८, ९, ११, पङ्गुतःकुदृक्कृतागनागादिपञ्चकस्थितोऽथ, १, २, ४, ७, ८, ९, १०, ११, १२, लग्नतः क्षितिद्विवेदकालनागदिक्शिवे-षुगः” । १, २, ४, ६, ८, १०, ११, बुधरेखाः । ५५ । “सुरराजगुरुःशुभदोरवितः कुयमानलवेदनगादिकपञ्चगतो १, २, ३, ४, ७, ८, ९, १०, ११, ऽथ विधोर्द्विशराचलगोशिवगो, २, ५, ७, ९, ११, वसुधातनयात् कुयमाब्धिनगाष्टदशेशगतो, १, २, ४, ७, ८, १०, ११, ऽथ बुधात् क्षितियुग्मकृतेषुरसग्रहदिग्गि-रिशोपग । १, २, ४, ५, ६, ८, १०, ११, स्तदनु स्वएकयमानल-वारिधिपर्व्वतनागदशेशगतो, १, २, ३, ४, ७, ८, १०, ११, ऽथ सिताद्यमपञ्चरसग्रहदिक्शिवगो २, ५, ६, ९, १० ११, रविनन्दनतोदहनेषुरसार्कगत, ३, ५, ६, १२, स्त्वथ लग्नगृहात् कुयमाव्धिशरर्त्तुनगग्रहदिग्गिरिशोप-गतः” । १, २, ४, ५, ६, ७९, १०, ११, गुरुरेखाः, ५६, “भृगुः शुभोरवेर्गजेशसूर्य्यगो ८, ११, १२, ऽथ चन्द्र-तः, क्ष्मादिपञ्चकाष्टगोशिवार्कगः, १, २, ३, ४, ५, ८, ९’ ११, १२, कुजात्त्रिवेदकालगोशिवार्कगो, ३, ४, ६, ९, ११, १२, ऽथ बुधात्त्रिकालरन्ध्ररुद्रसंस्थितः, ३, ६, ९, ११, गुरोः शराष्टरन्ध्रदिङ्महेशग, स्ततः ५, ८९, १०, ११, स्वतः कुपञ्चकाष्टरन्ध्रदिक्शिवोपगः । १, २, ३, ४, ५८, ९, १०, ११, शनेर्गुणाब्धिपञ्चनाग-गोदशेशगो, ३, ४, ५, ८९, १०, ११, ऽथ लग्नतः कुप-ञ्चकाष्टगोशिवस्थितः शुभः । १, २, ३, ४, ५, ८, ९, ११, शुक्ररेस्वाः, ५१, “शुभः पङ्गुरर्कात् यमाम्भोधिशैलाष्ट-दिक्शम्भुग, १, २ ४, ७, ८, १०, ११, इन्दुतोरामका-लेशगतः, ३, ६, १२, क्ष्मासुताद्वह्निवाणर्त्तुकाष्ठाशिवार्को-पगो, ३, ५, ६, १०, ११, १२, ऽथ ज्ञतः कालदन्ताव-लादिस्थितः ६, ८, ९, १०, ११, १२, जीवतोवाणकाले-शमार्त्तण्डयात, ५, ६, ११, २२, स्ततोदैत्यपूज्यादनेहः-शिवार्कोपयातः । ६, ११, १२, स्ततोवीतिहोत्रेषुकालेशया-त, ३, ५, ६, ११, स्ततोलग्नतः क्ष्मागुणाम्भोधिषड्दि-ङ्महेशस्थितः । १, ३, ४, ६ १०, ११, शनिरेखाः, ३९, । “राहुःशुभोऽर्काद्भुजवह्निवेदर्त्तुरन्ध्रगो, २, ३, ४, ६, ९, ऽथ चन्द्रात् कुरामवेदाङ्गग १, ३, ४, ६, स्ततःकुजाद्वह्निवाणाङ्गरन्ध्रगतो, ३, ५, ६, ९, ऽथ बुधाच्छ-शिपक्षवह्निवाणरन्ध्रग, १, २, ३, ५, ९, स्ततोजीवाद्धव्य-वाहवेदाङ्गरन्ध्रग, ३, ४, ६, ९, स्ततः शुक्रात् पक्षवह्नि-वाणरन्ध्रगत, २, ३, ५, ९, स्ततः सौरात् पक्षवाणर्त्तुग, २, ५, ६, स्ततः स्वतः शशिवेदवाणरिपुरन्ध्रगो, १, ४, ५, ६, ९, ऽथ लग्नाद्वेदरन्ध्रदिग्रुद्रसूर्य्यगतः, ४, ९, १०, ११, १२ ।राहुरेखाः, ३९ । सूर्य्यादेकद्विचतुःसप्ताष्टदशैकादशेषु, १, २, ४, ७, ८, १० ११, सोमात्त्रिषड्दशैक्वादशेषु, ३, ६, १०, ११, भौमात्त्रिपञ्चषडेकादशेषु, ३, ५, ६, ११, बुधात् षडष्टनवदशैकादशेषु, ६, ८, ९, १०, ११, गुरोःपञ्चषडेकादशद्वादशेषु, ५, ६, ११, १२, शुक्रात्षडेकादश-द्वादशेषु, ६, ११, १२, शनेस्त्रिपञ्चाष्टदशैकादशेषु ३, ५, ८, १०, ११, लग्नादेकत्रिचतुःषडदशैकादशेषु, १, ३, ४, ६, १०, ११, लग्नरेखाः ३८ । इति निगदितमिष्टं नेष्टमन्यद्विशे-षादधिकफलविपाकं जन्मना तत्र दद्युः । उपचयगृह-मित्रस्वोच्चगाः पुष्टमिष्टं त्वपचयगृहनीचारातिभे नेष्टसम्पत् ।यावती यावती रेखा ग्रहाणामष्टवर्गके । तावतीं द्विगुणी-कृत्य अष्टाभिः परिशोधयेत् । अष्टोपरि भवेद्रेखा अष्टा-भ्यन्तरविन्द्रवः । अष्टाभिस्तु समं यत्र तत्समं परिकीर्त्ति-तम् । रेखा ग्रहाच्छुभे देया विन्दवस्त्वितरत्रतु । रेखाविन्दुसमानौ चेत् समस्तत्र निगद्यते । रेखाधिक्ये शुभं ज्ञेयंतद्वद्विन्दोरथाशुभम् । श्रीरानन्दस्तथा श्रेयोभोगो राज्यंभवेत्तथा । मलिनोऽथ विपच्चैव हानिर्मृत्युर्भवेत्तथा ।द्व्यादिरेखा द्व्यादिविद्वोः फलान्येतान्यनुक्रमात् । रेखायांवत्सरोज्ञेयः सार्द्धसप्तदिनं समे । अष्टवर्गदशायुः स्यात्दिनं चतुर्षु विन्दुषु” । इत्यष्टवर्गः । “अष्टवर्ग-शुभैः श्रीमान् कर्म्म कुर्य्यान्नभश्चरैः । गोचरस्थैस्तद-प्राप्तौ तदप्राप्तौ च वेधगैः । व्रतारम्भे विवाहे च यात्रायांक्षुरकर्म्मणि । अविशुद्ध्याष्टबर्गस्य समस्ता निष्फलाः क्रियाः ।सततं दिशति नराणां राशौ मध्येऽष्टवर्गफलं निखिलम् ।भावफलं प्रथमार्द्धे दृष्टिफलान्यर्द्धभुक्तेषु” ज्यो० त० ।अष्टानामकचटतपयशानां वर्गः । ज्योतिषादौ शुभाशुभ-ज्ञापनाय विशेषरूपेण अष्टधा विभक्तेषु २ वर्ण्णसमूहभेदेषुयथा स्वरवर्ण्णाः १६ । अवर्गः, कादयोमावसानाः पञ्चपञ्चा-त्मकाः कवर्गादयः ५ । यरलवाः ४ यवर्गः । शषसहा ४ शवर्गःइत्येवमष्टौ कल्पिताः । तेषां विभागक्रमेण संख्याभेदः ।“वर्गवर्णप्रमाणञ्च सस्वरैस्ताडितं मिथः । पिण्डसंख्या भवे-त्तस्य गथा भागैस्तु कल्पना” केरलम् । “स्वं वर्गं द्विगुणं विधायपरवर्गेणान्वितं सप्ततट्” इति ज्योति० । तन्त्रोक्तेमन्त्रस्य शुभाशुभज्ञानार्थं अवर्गाद्यनुसारेण ३ पक्षिमार्ज्जा-राद्यष्टवर्गे च । यथा आगमकल्पद्रुमे “इदानीं वर्ग-चक्रस्य विधानममिधीयते । मन्त्रग्रामविशोधार्थं नामा-द्यक्षरपूर्व्वकम् । अष्टौ कोष्ठान् समालिख्य वर्गानष्टौलिखेत्ततः । पक्षिमार्ज्जारपञ्चास्यश्वानः सर्पाखुदन्तिनः ।मेषः क्रमादकारादि वसुवर्गाश्रिता इमे । साध्यसाधकयोःप्रीतिर्ज्ञातव्या जातितः सदा” । वृहच्छ्रीक्रमे “वर्णशुद्धिं समा-साद्य मन्त्रं दद्याद्गुरूत्तमः । अवर्गः पक्षिणोज्ञोयोमार्ज्जारश्च कवर्गकः । चवर्गश्च तथा सिंहष्टवर्गश्चैव कुक्कुरः ।तवर्गो नाग इत्युक्तो मूषिकश्च पवर्गकः । यवर्गश्च गजोज्ञेयःशवर्गश्चैव मेषकः । पक्षिभुजगयोर्व्वैरं तथा च गज-सिंहयोः । मार्ज्जारमूषिकयोश्चैव तथा कक्कुरमेषयोः ।भुजङ्गसिंहयो र्मैत्री मेषमूषिकयोस्तथा । लोकादन्यच्च विज्ञेयंत्यवहारप्रयोगतः” इति तन्त्रसा० । “जीवकर्षभकौ मेदेकाकल्यावृद्धिवृद्धिके । अष्टवर्गोऽष्टभिर्द्रव्यैरिति” वैद्यकोक्ते४ जीविका द्यष्टद्रव्ये । “राज्ञामप्यष्टर्गस्तु यतोऽयमतिदुर्ल्लभः ।तस्मादस्य प्रतिनिधिं गृहणीयान्तद्गुणं भिषक् । मेदाजीव-ककाकोलीवृद्धिद्वन्द्वेऽपि चासति । वरीविदार्य्यश्वगन्धावारणीश्च क्रमात् क्षिपेत्” वैद्य० । नीतिवेदिनां वर्द्धनीये५ वर्गभेदे च । “कृषिर्बणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् ।खन्याकरवलादानं सैन्यानाञ्च निवेशनम् । अष्टवर्गमिमंसाधु ऋद्धये परिवर्द्धयेत्” नीतिः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
