| YouTube Channel

अष्टमूर्त्तिः (aSTamUrttiH)

 
शब्दकल्पद्रुमः
Sanskrit
अष्टमूर्त्तिः,
पुं,
(अष्टौ मूर्त्तयो यस्य ।) शिवः इतिहेमचन्द्रः
तत्प्रत्येकमूर्त्तिनामानि क्षिति-मूर्त्तिः सर्व्वः जलमूर्त्तिर्भवः अग्निमूर्त्तिः रुद्रः३ वायुमूर्त्तिरुग्रः आकाशमूर्त्तिर्भीमः ५यजमानमूर्त्तिः पशुपतिः चन्द्रमूर्त्तिर्म्महादेवः७ सूर्य्यमूर्त्तिरीशानः इति तन्त्रशास्त्रं
एताः शरभरूपिशिवस्याष्टपादाः इति कालि-कापुराणं
यथा ।“अष्टमूर्त्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः” ।इति वदुकभैरवस्तोत्रं
तस्याष्टमूर्त्तयो यथा ।“अथाग्निः रविरिन्दुश्च भूमिरापः प्रभञ्जनः ।यजमानः खमष्टौ महादेवस्य मूर्त्तयः”
इति शब्दमाला
(“अवेहि मां किङ्करमष्टमूर्त्तेःकुम्भोदरं नाम निकुम्भमित्रम्”
इति रघुवंशे
तथा कुमारे ।“तत्राग्निमाधाय समित्समिद्धंस्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिः”
)