अष्टमभाव (aSTamabhAva)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaअष्टमभाव
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜಾತಕದಲ್ಲಿ ಜನ್ಮ ಲಗ್ನದಿಂದ ೮ನೆಯ ಸ್ಥಾನ /ತನ್ವಾದಿ ದ್ವಾದಶಭಾವಗಳಲ್ಲೊಂದಾದ ಆಯಃಸ್ಥಾನ
व्युत्पत्तिः - > अष्टमो भावः
प्रयोगाः - > "अष्टमं चायुषः स्थानमष्टमादष्टमं च यत् । तयोरपि व्ययस्थानं मारकस्थानमुच्यते"
वाचस्पत्यम्
Sanskritअष्टमभाव अष्टमोभावः । ज्योतिषोक्ते जन्मलग्नावधिके१ अष्टमस्थाने तन्वादिद्वादशभावमध्ये २ अष्टमे भावे च भावश्चइष्टकालेऽंशकलाविकलादिना स्पटीकृतलग्नादिः । तदा-नयनं यथा “पूर्व्वं न तं स्याद्दिनरात्रिखण्डं दिवानिशो-रिष्टघटीविहीनम् । दिवानिशोरिष्टघटीषु शुद्धं द्युरात्रिखण्डं त्वपरं नतं स्यात् । तत्काले सायनार्कस्थ भुक्त-भोग्यांशसंगुणात् । स्वोदयात् स्वाग्निलब्धं यत् भुक्तं भोग्यंरवेस्त्वजेत् । इष्टनाडीपलोयश्च गतगम्यान्निजोदयात् । शेषंखत्र्याहतं भक्तमशुद्धेन लवादिकम् । अशुद्धशुद्धभे हीनयुक्तनुर्व्ययनांशकम् । एवं लङ्कोदयैर्भुक्तं भोग्यं शोध्यंपलीकृतात् । पूर्व्वपश्चान्नतादन्यत् प्राग्वत्तद्दशमं भवेत् ।सषड्भे लग्नभे जाया, तुर्य्यो, लग्नोनतुर्य्यतः । षष्ठां-शयुक् तनोःसन्धिरग्रे षष्ठांशयोजनात् । त्रयः स-सन्धयोभावाः षष्ठांशेनैकयुक् सुखात् । अग्रे त्रयःषडेवं ते भार्द्ध युक्ताः परेऽपि षट्” । नील० ता० । स्वस्वदेशो-दयमानं देशान्तरयोगादिना आनेयम् लङ्कोदयमानानि तुमेषस्य २७८, वृषस्य २९९, मिथुनस्य ३२३, कर्कटस्य ३२३सिंहस्य २९९, कन्यायाः २७८, तुलायाः २७८, वृश्चि-कस्य २९९, धनुषः ३२३ मृगस्य ३२३, कुम्भस्य २९९, मीनस्य २७८, पलानि । एतदनुसारेण दशमराशेः उदय-मानं गृहीत्वा दशमभावानयनम् “खेटे भावसमे पूर्ण्णंफलं सन्धिसमे तु खम् । हीनेऽधिके द्विसन्धिभ्यां भावे पूर्व्वा-परे फलम्” नील० ता० । “भुक्तं भोग्यं स्वेष्टकालान्न श्रुध्येत्त्रिंशन्निघ्ना स्योदयाप्तं लवाठ्यम् । हीनं युक्तं भास्करे तत्तनुःस्यात् रात्रौ लग्नं भार्द्धयुक्ताद्रवेस्तु । खेटे सन्धिद्वयान्तःस्थेफलं तद्भावजं भवेत्” । नील० ता० । “अष्टमस्थाने चचिन्त्यान्याह दीपिकायाम्” “रन्ध्रायुर्मृतयोऽष्टमे” इति ।ताजके तु अन्यान्यपि चिन्त्यान्याह । “मृत्यौ चिरन्तमंद्रव्यं भृतिंर्वित्तं रणे रिपुः । दुर्गस्थानं मृतिर्नाशःपरीवादो मनोव्यथा” एतानि साधारणानि चिन्त्यानिविशेषतस्तत्र ग्रहयोगाद्रिष्टाद्युक्तं जातके यथा । “आयुःस्यानाधीश्वरः पापयुक्तः षष्ठान्त्यस्थः स्वल्पमायुस्तनोति ।लग्नेशाढ्यश्चेदतिस्वल्पमेव दीर्घायुष्यं चाष्टमस्थः करोति ।निघनतनुखभेगाः केन्द्रकोणत्रिलाभे १, ३, ४, ५, ७, ९, १०, ११, दघति हि विपुलायुर्भानुजोऽत्र प्रशस्तः ।पनफरचतुरस्रेमध्यमं त्वायुरेते विदधति खलु नेष्टाः प्रान्त्य-षष्ठे बलिष्ठाः । कमलकुमुदबन्धू मृत्युरन्ध्रान्तिमाख्ये विपदमथधराजो द्विद्विवर्षेऽष्टमस्थः । धनलयमथ यच्छेच्छक्रतुल्येबुधो-ऽव्दे क्षितिगुणदशसंख्ये रोगभोगापचारौ । अरिष्टोच्छ्वासनिर्याणोच्छ्वासयोरत्र चिन्तनम् । दैवविद्भिः सदा कार्य्यमष्टमेभावचिन्तने” जातकप० वर्षप्रवेशकाले तु अन्यथा योग-विशेषात् फलमुक्तम् यथा “भौमेऽव्दपे क्रूरहते पत्या धातेऽव-लोकिते । अग्निभीरग्निभेक्रूरनष्टद्विपदभे मृतिः । विपत्ति-र्नरपालोत्था रिपुतस्करतोभयम् । तुर्य्ये मातुः पितृव्याद्वा मातुलार्त्तिस्ततोगुरुः । लग्नेन्थिहापतिसमापतयोमृतीशाश्चेदित्थशालिन इमे निधनप्रदाः स्युः । चेत् पाक-रिष्टसमये मृतिरेव तत्र सार्के कुजे नृपभयं दिवसेऽव्दशेवे ।सूर्य्ये मूशरिफे सितेन जनने वर्षेऽधिकारी तथा केन्द्रे राजगदाद्भयं च रुगसृक्स्थानेऽधिकारीन्दुजे । सौम्ये क्रूरदृशाकुजस्य रुगसृग्दोषादि नाशस्थिते दग्धेबन्धमृती विदे-शतैति प्राहुर्बुधे तादृशे । भौमस्थानेऽधिकारीन्दौ गुप्तंनृपभयं रुजः । मन्देऽधिकारी खे चोपहते पीडाकरःस्मृतः । भौमस्थानेऽधिकृद्वह्नौ प्रहारो वा नृपाद्भयम् ।आरे खस्थे चतुष्पाद्भ्यः पातोदुःखरुजोऽसृजः । वित्ताष्टगेज्यो धनहा यद्यव्देशः शुभेक्षितः । मन्दे द्यूने दुर्वचनाप-वादकलिभर्त्सनम् । पतिते ज्ञे क्रूरदृशाऽऽरेत्थशाले मृतिंवदेत् । कुजहद्दास्थिते नाशः सौम्यदृष्ट्या शुभं वदेत् ।यत्रर्क्षे जन्मनि कुजः सोऽब्दलग्नपगोयदा । नग्नाधिपोनष्ट-दग्धोयोषिद्वादाः शुभान्विते । जन्मन्यष्टमगे जीवे साधि-व्याधिकलिः पृथुः । जयः शुक्रेक्षणादुक्तप्रत्युत्तरवशेनतु । भौमेऽन्त्यगे धने सूर्य्ये वादक्लेशं विनिर्द्दिशेत् । रिपु-र्गोत्रकलिर्भीतिः संख्ये कुजहतेऽब्दपे । दग्धोजन्माङ्गपो-वर्षेऽष्टमोरोगकली दिशेत् । सूत्यव्दयोरघिकृतो भौम-स्थाने गुरुर्हतः । पापैर्वादः स्फुटोऽप्येवं तादृशीन्दौ शनेःपदे । सूत्यव्दयोरधिकृते चन्द्रे बुधपदे हते । क्रूरैर्विदेश-गमनं वादः स्याद्विमनस्कता । मेषे सिंहे धनुःस्मारेऽब्दपे-रन्ध्रे सिते भयम् । मृतौ मृतीशलग्नेशौ मृत्युदौ पाप-दृग्युतौ । यत्रर्क्षे जन्मनि कुजः सोऽब्दलग्नपगोयदा ।वुधोवर्षपतिर्नष्टबलस्तत्र न शोभनम् । सार्के शनौ भौमयुते-खाष्टस्थे वाहनाद्भयम् । सार्के भौमेऽष्टमस्थे तु पतनंवाहनाद्वदेत् । सारेऽव्दपे मृगे मृत्युश्चन्द्रेऽन्त्यारिमृतौ मृतिः ।उदिते मृतिसद्मेशे निर्बले जीविते मृतिः । पुण्यसद्मेश्वरःपुण्यसहमादष्टमोपगः । मृत्यष्टमेशपुण्येशोमृतिदः पाप-दृग्युतः । सूत्यष्टमगतो राशिः पुण्यसद्मनि नाथयुक् । अब्द-लग्नाष्टमर्क्षं तच्चेदित्थं म्यात्तदा मृतिः । पुण्यभं चाशुभाक्रा-न्तं मृतीशोऽन्त्यारिरन्ध्रगः । मुथहेशोऽब्दपोवापि मृत्युं तत्रविनिर्द्दिशेत् । सक्रूरे जन्मपे मृत्यौ मृतिश्चेदिन्धिहार्कियुक् । भौमक्षुतेक्षणे तत्र मृत्युः स्यादात्मघाततः । मन्दो-ऽष्टमोमृतीशेत्थशालान्मृत्युकरः स्मृतः । शुभेत्थशालात्सर्वेऽपि योगाः स्युः शुभदायकाः । सूतिरन्ध्रपतिर्मन्दोऽष्टमो-ऽव्दलग्नपेन चेत् । इत्थ शाली क्रूरदृशा तत्कालं मृत्युदा-यकः, नील० ता० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
