| YouTube Channel

अष्टमङ्गलं (aSTamaGgalaM)

 
शब्दकल्पद्रुमः
Sanskrit
अष्टमङ्गलं,
क्ली,
(अष्टप्रकारं मङ्गलम् ।) अष्टप्रकार-मङ्गलद्रव्यं तद्यथा, --“मृगराजो वृषो नागः कलसो व्यजनन्तथा ।वैजयन्ती तथा भेरी दीप इत्यष्टमङ्गलं”
इति वृहन्नन्दिकेश्वरपुराणोक्तदुर्गोत्सवपद्धतौ
“लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ।हिरण्यं सर्पिरादित्य आपो राजा तथा ष्टमः”
इति शुद्धितत्त्वं