| YouTube Channel

अष्टचत्वारिंशत् (aSTacatvAriMzat)

 
Monier Williams Cologne
English
अष्ट—चत्वारिंशत्
f.
=
अष्टा॑-चत्व्°, q.v.,
Pāṇ.
vi, 3, 49.
Shabdartha Kaustubha
Kannada
अष्टचत्वारिंशत्
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನಲವತ್ತೆಂಟು
व्युत्पत्तिः - > अष्टभिरधिका चत्वारिंशत्
Wordnet
Sanskrit
Synonyms:
अष्टचत्वारिंशत्
adjective
अष्टाधिकं चत्वारिंशत् अभिधेया।
"उत्सवे अष्टचत्वारिंशत् जनाः आगताः।"
Synonyms:
अष्टचत्वारिंशत्
noun
चत्वारिंशत् इत्यस्याः सङ्ख्यायाः अष्ट इत्यस्याश्च सङ्ख्यायाः योजनेन प्राप्ता सङ्ख्या।
"विंशतेः अष्टाविंशतेः योजनफलम् अष्टचत्वारिंशत् इति।"
वाचस्पत्यम्
Sanskrit
अष्ट(ष्टा)चत्वारिंशत् स्त्री अष्टाधिका चत्वारिंशत् शा० त०आत्वम् (आटचल्लिश) संख्यायां तत्संख्येये ।“अष्टचत्वारिंशत्संस्कारैः संस्कृत” इति मिताक्ष० गौत० ।तत्र गौतमेन चत्वारिंशदेव संस्काराः अष्टौ गुणाश्च ब्राह्मण्य-हेतुवो दर्शिताः चत्वारिंशत् संस्काराः गुणसहिताअष्टचत्वारिंशदित्येके ते “गर्भाधानपुंसवनसीमन्तो-न्नयनजातकर्मनामकरणान्नप्राशनचौडोपनयनम् चत्वारिवेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञाना-मनुष्ठानं देवपितृमनुष्यभूतब्रह्मणामेतेषाञ्चाष्टकान्वकापा-र्व्वंणश्राद्ध्वश्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञ-संस्था, अग्न्याधेयमग्निहोत्रदर्शपौर्णमासावग्रयणं चातुर्मा-स्यनिरूढपशुबन्धसौत्रामणीति सप्त हविर्यज्ञसंस्था अग्निष्टो-मोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्रोऽप्तो-र्य्याम इति सप्त सोमसंस्था इत्येते चत्वारिंशत् संस्काराः ।अथाष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचम-नायासोमङ्गलमकार्पण्यमस्पृहेति यस्यैते चत्वारिंशत्संस्कारा नवाष्टावात्मगुणा ब्राह्मणः सायुज्यं सालो-क्यञ्च गच्छति यस्य तु खलु संस्काराणामेकदेशोऽप्य-ष्टावात्मगुणा अथ ब्राह्मणः सायुज्यं सालोक्यञ्च गच्छतिअधिकं संस्कारशब्दे वक्ष्यते” गौ० संहितायां तु चत्वा-रिंशत्संस्कारैः संस्कृत इत्येव पाठः मिताक्षराकृद्धृतपाठस्तु उक्तरीत्या समर्थितः