| YouTube Channel

अष्टकर्म्मन् (aSTakarmman)

 
वाचस्पत्यम्
Sanskrit
अष्टकर्म्मन् अष्टौ कर्म्माण्यस्य “आदाने विसर्गे चतथा प्रैषनिषेधयोः पञ्चमे चार्थवचने व्यवहारस्यचेक्षणे दण्डशुद्ध्योः सदा रक्तस्तेनाष्टगतिकोनृपः”उशनसोक्त्राष्टविधकर्म्मयुक्ते नृपतौ “अष्टकर्म्मा दिवं यातिराजा शक्राभिपूजितः” उश० अष्टगतिकोऽप्यत्र “तत्रा-दानं करादीनाम् विसर्गो भृत्यादिभ्यो धनदानम्प्रैषोऽमात्यादीनां दृष्टादृष्टानुष्ठानेषु निषेधो दृष्टा-दृष्टविरुद्धक्रियासु अर्थवचनं कार्यसन्देहेन राजा-ज्ञयैव तत्र नियमनम् व्यबहारेक्षणं प्रजानामृ-णादिविप्रतिपत्तौ दण्डः पराजितानां शास्त्रोक्तधनग्रहणम् शुद्धिः पापे कर्मणि जाते तत्र प्राय-श्चित्तसम्पादनमिति” कुल्लूकभट्टः मेधातिथिस्तु अ-कृतारम्भः कृतानुष्ठानम् अनुष्ठितविशेषणम् ।कर्म्मफलसंग्रहः तथा सामदानभेददण्डाः एत-दष्टविधं कर्मेत्याह अथवा “कृषिः बणिक्पथः ।उदकसेतुबन्धनम् दुर्गकरणम् कृतस्य संस्कारः नि-र्णयः हस्तिबन्धनम् खनिखननम् सैन्यनिवेश-नम् दारुणवनच्छेदनञ्चेत्यप्याह” तन्मूलन्तु अष्टवर्ग-शब्दे वक्ष्यते