| YouTube Channel

अष्टकर्मन् (aSTakarman)

 
Apte Hindi
Hindi
अष्टकर्मन्
पुं*
अष्टन्-कर्मन् -
राजा जिसने अपने आठ कर्तव्य पूरे करने हैं
Shabdartha Kaustubha
Kannada
अष्टकर्मन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರಾಜ /ದೊರೆ
व्युत्पत्तिः - > अष्टौ कर्माण्यस्य
L R Vaidya
English
azwan-karman {% m. %} a king who has eight duties to perform (आदाने विसर्गे तथा प्रैषनिषेधयोः पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे दण्डशुद्ध्योः सदा रक्तस्तेनाष्टगतिको नृपः).
वाचस्पत्यम्
Sanskrit
अष्टकर्म्मन् अष्टौ कर्म्माण्यस्य “आदाने विसर्गे चतथा प्रैषनिषेधयोः पञ्चमे चार्थवचने व्यवहारस्यचेक्षणे दण्डशुद्ध्योः सदा रक्तस्तेनाष्टगतिकोनृपः”उशनसोक्त्राष्टविधकर्म्मयुक्ते नृपतौ “अष्टकर्म्मा दिवं यातिराजा शक्राभिपूजितः” उश० अष्टगतिकोऽप्यत्र “तत्रा-दानं करादीनाम् विसर्गो भृत्यादिभ्यो धनदानम्प्रैषोऽमात्यादीनां दृष्टादृष्टानुष्ठानेषु निषेधो दृष्टा-दृष्टविरुद्धक्रियासु अर्थवचनं कार्यसन्देहेन राजा-ज्ञयैव तत्र नियमनम् व्यबहारेक्षणं प्रजानामृ-णादिविप्रतिपत्तौ दण्डः पराजितानां शास्त्रोक्तधनग्रहणम् शुद्धिः पापे कर्मणि जाते तत्र प्राय-श्चित्तसम्पादनमिति” कुल्लूकभट्टः मेधातिथिस्तु अ-कृतारम्भः कृतानुष्ठानम् अनुष्ठितविशेषणम् ।कर्म्मफलसंग्रहः तथा सामदानभेददण्डाः एत-दष्टविधं कर्मेत्याह अथवा “कृषिः बणिक्पथः ।उदकसेतुबन्धनम् दुर्गकरणम् कृतस्य संस्कारः नि-र्णयः हस्तिबन्धनम् खनिखननम् सैन्यनिवेश-नम् दारुणवनच्छेदनञ्चेत्यप्याह” तन्मूलन्तु अष्टवर्ग-शब्दे वक्ष्यते