| YouTube Channel

अश्वीयः (azvIyaH)

 
E Bharati Sampat
Sanskrit
(वि) अश्वाय हितः अश्व + छः "तस्मै हितम्" (५.१.५) १. अश्वहितकारी २. अश्वसम्बन्धीयः (न) अश्वानां समूहः अश्व + छः ‘केशाश्वाभ्यां यञ् छावन्यतरस्याम्’ (४.२.४८) अश्ववृन्दम् अश्वसमूहः ‘वृन्दे त्वाश्वीयमाश्ववत्’ (अमरः) "वर्ध्राबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्चलन्तः - माघः. १८.५
शब्दकल्पद्रुमः
Sanskrit
अश्वीयः, त्रि, (अश्वाय हितः अश्व + ।) अश्व-हितकारी
इति मेदिनी
अश्वसम्बन्धीयः