| YouTube Channel

अश्विनौ (azvinau)

 
Hindi
Hindi
दो Asvinis
Apte Hindi
Hindi
अश्विनौ
पुं*
- अश्व+इन्
देवताओं के दो वैद्य जो कि सूर्य के द्वारा घोड़ी के रुप मे एक अप्सरा से जुड़वे पैदा हुए थे
E Bharati Sampat
Sanskrit
(पुं.द्वि.व) (अश्विन्) प्रशस्ताः अश्वाः सन्ति ययोः अश्व + इनिः "अत इनिठनौ" (५.२.११५) अश्विनीकुमारौ ‘स्वर्वैद्यावश्विनीसुतौ नसत्यावश्विनौ दस्नौ’ (अमरः १.१.५१) "त्वाष्ट्री तु सवितु र्भार्या वडवारूपधारिणी असूयत महाभागा सान्तरीक्षेऽश्विनावुभौ" चरकः
Wordnet
Sanskrit
Synonyms:
अश्विनौ, उस्रौ, कवी
noun
सूर्यस्य पुत्रौ ये वैद्यौ आस्ताम्।
"अश्विनौ यज्ञे छिन्नम् अश्वस्य मस्तिष्कं पुनः संनियुञ्जाताम्।"
अभिधानचिन्तामणिः
Sanskrit
--source--
स्वर्वैद्यावश्विनीपुत्रावश्विनौ वडवासुतौ १८१
नासिक्यावर्कजौ दस्रौ नासत्यावब्धिजौ यमौ
-wordlist-
स्वर्वैद्यौ (पुंद्वि), अश्विनीपुत्रौ (पुंद्वि), अश्विनौ (पुंद्वि), वडवासुतौ (पुंद्वि), नासिक्यौ (पुंद्वि), अर्कजौ (पुंद्वि), दस्रौ (पुंद्वि), नासत्यौ (पुंद्वि), अब्धिजौ (पुंद्वि), यमौ (पुंद्वि)
अभिधानरत्नमाला
Sanskrit
नासत्यौ
नासत्यौ, अश्विनौ, दस्रौ, देवचिकित्सकौ
नासत्यावश्विनौ दस्रौ प्रोक्तौ देवचिकित्सकौ ८४
verse 1.1.1.84
page 0011
शब्दकल्पद्रुमः
Sanskrit
अश्विनौ,
पुं,
(प्रशस्ता अश्वाः सन्ति ययोः इनिः ।यद्वा, अश्विन्याम् जातौ सन्धिवेलेत्यणो नक्ष-त्रेम्यो बहुलमिति लुकि लुक्तद्वितलुकीति ङीपोलुक्
) अश्विनीकुमारौ इत्यमरः
(“त्वाष्ट्री तु सवितुर्भार्य्या वडवारूपधारिणी ।असूयत महाभागा सान्तरीक्षेऽश्विनावुभौ”
इति महाभारते ।“किमश्विनौ सोमरसं पिपासू” ।इति भट्टौ ।)(“अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ ।दक्षस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितं
प्रशीर्णा दशनाःपूष्णो नेत्रे नष्टे भगस्य ।वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः
चिकित्सितस्तु शीतांशुर्गृहीतो राजयक्ष्मणा ।सोमान्निपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः ।वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा
एतैश्चान्यैश्च बहुभिः कर्म्मभिर्भिषगुत्तमौ ।बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनां
ग्रहास्तोत्राणि मन्त्राणि तथान्यानि हवींषि ।धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते ।सौत्रामण्याञ्च भगवानश्विभ्यां सह मोदते
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः ।स्तूयन्ते वेदवाक्येषु तथान्या हि देवताः
अमरैरजरैस्तावद्विबुधैः साधिपैर्ध्रुवैः ।पूज्येते प्रयतैरेवमश्विनौ भिषजाविति
”इति चरकः
“श्रूयते हि यथा रुद्रेण यज्ञस्य शिरश्छिन्नमितिततो देवा अश्विनावभिगम्योचुः भगवन्तौ नःश्रेष्ठतमौ युवां भविष्यथः भवद्भ्यां यज्ञस्य शिरःसन्धातव्यं तावूचतुरेवमस्त्विति अथ तयोरर्थेदेवा इन्द्रं यज्ञभागेन प्रासादयन् ताभ्यां यज्ञम्यशिरः संहितमिति”
इति सुश्रुतः
)