| YouTube Channel

अश्ववित् (azvavit)

 
E Bharati Sampat
Sanskrit
(पुं) (अश्वविद्) अश्वम् अश्वविद्यां वेत्ति अश्व + विद (ज्ञाने) + क्विप् "सत्सूद्विषद्रुहदुहयुजविद…" (३.२.६१) १. नलराजः "नलोऽश्वविन्नैषधश्च" (त्रिकाण्ड०) (वि) अश्व + विद् (विदृ-लाभे) + क्विप् २. अश्वलब्धा
शब्दकल्पद्रुमः
Sanskrit
अश्ववित्, [द्]
पुं,
(अश्वं अश्वविद्यां वेत्तीति ।अश्व + विद् + क्विप् ।) नलराजः इति त्रि-काण्डशेषः
(नलस्य राज्ञोऽश्वविद्याज्ञता वर्णिताभारते यथा ।“बाहुकस्तमुवाचाथ देहि विद्यामिमां मम ।मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ !
ऋतुपर्णं ततो राजा बाहुकं कार्य्यगौरवात् ।हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः
यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परं ।निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक”
बाहुको बाहुकवेशधारी नलः ।)