| YouTube Channel

अश्ववार (azvavAra)

 
शब्दसागरः
English
अश्ववार
m.
(-रः) A horseman.
E.
अश्व and वृञ् to nourish, अण्
aff.
Yates
English
अश्व-वार (रः) 1.
m.
Idem.
Spoken Sanskrit
English
अश्ववार azvavAra
m.
groom
अश्ववार azvavAra
m.
kans grass [ Saccharum Spontaneum - Bot. ]
अश्ववार azvavAra
m.
horseman
Wilson
English
अश्ववार
m.
(-रः) A horseman.
E.
अश्व and वृञ to nourish, अण्
aff.
Monier Williams Cologne
English
1. अश्व—वार
m.
(= -वाल॑, q.v.) Saccharum Spontaneum,
Pāṇ.
viii, 2, 18 Comm. (cf. आश्ववार.)
2. अश्व—वार
m.
a horseman,
R.
Śiś.
iii, 66,
&c.
a groom,
L.
Benfey
English
अश्ववार अश्ववार, i. e. अश्व-वृ + अ,
m.
A horseman, Rām. 5, 73, 11.
Apte Hindi
Hindi
अश्ववारः
पुं*
अश्वः-वारः -
"अश्वारोही, साइस "
Shabdartha Kaustubha
Kannada
अश्ववार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕುದುರೆಯ ಸವಾರ
निष्पत्तिः - > वृञ् (वरणे) + णिच् - "अण्" (३-२-१)
व्युत्पत्तिः - > अश्वं वारयति
प्रयोगाः - > "परस्परोत्पीडितजानुभागा दुःखेन निश्चक्रमुरश्ववाराः"
उल्लेखाः - > माघ० ३-६६
L R Vaidya
English
aSva-vAra {% m. %} a horseman.
Indian Epigraphical Glossary
English
Aśvavāra, cf. Asavāra (EI 2), a horseman.
अभिधानचिन्तामणिः
Sanskrit
--source--
अश्वारोहे त्वश्ववारः सादी तुरगी सः ७६१
-wordlist-
अश्वारोह (पुं), अश्ववार (पुं), सादिन् (पुं), तुरगिन् (पुं)
एकाक्षरनाममाला
Sanskrit
ध, चित्र, अश्ववार
धस्तु चित्रेऽश्ववारे धीर्बुद्धाविषुधावपि
verse 1.1.1.26
page 0121
Vedic Reference
English
Aśva-vāra, Aśva-vāla (‘hair of a horse's tail’). The former
form occurs in the Maitrāyaṇī Saṃhitā, ^1 the latter in the
Kāṭhaka^2 and Kapiṣṭhala Saṃhitās^3 and Śatapatha Brāhmaṇa, ^4
denoting a species of reed (Saccharum spontaneum).
1) iii. 7, 9.
2) xxiv. 8.
3) xxxviii. 1.
4) iii. 4, 1, 7. Cf. Von Schroeder's
edition of the Maitrāyaṇī Saṃhitā, i.,
p. xv.
शब्दकल्पद्रुमः
Sanskrit
अश्ववारः,
पुं,
(अश्वं वारयतीति अश्व + वृ +अण् ।) सादी इति हेमचन्द्रः घोडसओयारइति भाषा
(“परस्परोत्पीडितजानुभागादुःखेन निश्चक्रमुरश्ववाराः” ।इति माघे ।)
वाचस्पत्यम्
Sanskrit
अश्ववार
पु०
अशं वारयति
चु०
वृ--अण् उप० स० ।हयनिवारके सादिनि “दुःखेन निश्चक्रमुरश्ववाराः”माघः ण्वुल् अश्ववारकः तत्रैव ल्यु अश्ववारणोऽप्यत्र ।अश्ववारलक्षणादिकमुक्तमश्वशास्त्रे यथा “ब्राह्मणान् श-क्तिदानेन साम्ना चैव तु क्षत्रियान् वैश्यं दण्डेन शब्देनशूद्रं दण्डेन वाहयेत् प्रत्यूषे वाहयेद्विप्रं क्षत्रियं प्रहरेगते वैश्यं संन्ध्यागते काले शूद्रं रात्रौ वाहयेत् ।सत्वं त्रिविधं प्रोक्तमुत्तमाधममध्यमम् उत्तमं चोपशा-मेन साम्ना दण्डेन मध्यमम् शब्दाङ्गेन दण्डेन वाहयेदधमम्बुधः सहजे निर्मले वाहे तैलदुग्धस्य रूपवान् ।शालिश्च द्विविधा प्रोक्ता बलदौर्वल्पसम्भवा बलिष्ठो दुर्बल-त्वेन दुर्बलोऽपि बलेन वा छलेनोपाधिकायांश्च सत्वंज्ञात्वा वाहयेत् सार्द्रां सुकठिनां चैव पाषाणीदक-संयुताम् तृणकाष्टसमायुक्तां रङ्गभूमि तु वर्ज्जयेत् समांच विपुलां चैव किञ्चित्पांशुसमन्विताम् एकान्ते विजनेरम्ये रङ्गभूभिं तु कारयेत् स्थूलः क्रोधी मूर्खश्चचित्तोत्सुकश्चलासनः अस्थाने दण्डपाती योवाजी तस्यन सिध्यति प्रचलति यस्य कटिरूर्द्ध्वबाहुर्दण्डपातः नतस्य वाहनं वाजी दुर्लक्ष्यं वाजिवाहितम् दृढासनोऽथतत्त्वज्ञो जितसुष्टिर्निरालसः अविरागी स्थिरश्चापि षडेतेवाजिवाहकाः चित्तं यो नैव जानाति तुरगस्य समा-सतः वहन्ति हयास्तस्य दण्डपातेन ताडिताः ह्रेषितेवलिते भीते तथा चोन्मार्गगामिनि कुपितोद्भ्रान्तचित्तेवा षट्सु दण्डं निपातयेत् ह्रेषिते ताडयेन्मूर्द्धि जानुभ्यांवलिते तथा क्रुद्धे उरसि हन्तव्यो भ्रान्तचित्ते तथोदरे ।भीतं ताडयेत्पश्चान्मुखे चोन्मार्गगामिनम् ज्ञात्वा दोषंच रूपं स्थानेष्वेतेषु ताडयेत् अस्थानताडितोवाजीयावज्जीवं सिध्यति नो जहाति तद्दोषं यावज्जीव-त्यसौ हयः धाराः पञ्च प्रवक्ष्यामि मुनिभिर्य्याः प्रकीर्त्तिताः ।प्रथमा विक्रमा धारा द्वितीया पुलका स्मृता तृतीया पूर्ण-कण्ठी तु चतुर्थी त्वरिता स्मृता पञ्चमी चैव या धारानिरालम्बा प्रकीर्त्तिता षष्ठी चैव तु या धारा श्रूयतेन तु दृश्यते विक्रमा गतिधारा चतुष्का पुलका मता ।मुखपादसमायुक्ता पूर्णकण्ठी तु सा भवेत् स्वेच्छयात्वरिता धारा ताडिता चैव पञ्चमी षष्ठी चैव तु या धारास्वर्गलोकेषु गीयते वल्गाश्च संप्रवक्ष्यामि मुनिभिः परि-कीर्त्तिताः पुष्पवन्ती गोकर्णी तूलोत्तुला तुला वृथा ।नागखण्डी पुष्पधारी दुमुष्टी रुतस्तनी द्विहस्ती चैक-हस्ती शुभगा शोभना मता इत्येता द्वादश वल्गामुनिभिः परिकीर्त्तिताः” “आरूढकर्णमध्ये तु मनोलक्षति वाजिनः” शनैस्तु वाहयेत्पूर्व्वं पशुतुल्यं समादि-शेत् वक्रो तथोत्तानो कुब्जो नाप्ययोमुखः ।न भवेत्स्तब्धगात्रस्तु भवेदश्ववाहकः स्थिरोरुःस्थिरपादश्च त्रिकोन्नतस्थिरासनः दक्षिणादितुरङ्गस्यचासने तु दृढः सदा अश्ववाराः समाख्याताः शेषास्तुभयदायकाः ग्रीष्मादिषु वर्त्तव्यमृतुषु त्रिषु वाह-नम् हेमन्तादिषु वर्त्तव्यं सादिभिः शास्त्रवेदिभिः ।प्रतिपत्सु त्रयोदश्यां पञ्चम्यां वा सिते दले धृतिसिद्धा-तियोगेषु वासरे चन्द्रसूर्य्ययोः मूलरोहिणीहस्तेषु पुष्पेचैवोत्तरासु एवंविधे दिने सादी वाहान् संवाहयेत्शुभे रङ्गभूमौ रेवन्तं स्थापयेत् पूजयेत्ततः पुष्पैर्धूर्पःप्रदीपैस्तु चन्दनैः पायसैस्यथा पक्कानैः पज्ञ्चशब्दैश्चप्रातःशुचिसुवाससा रक्ताम्बरधरोभूत्वा रक्तपुष्पधरस्तथा” ।“एकविंशतिवारांश्च ततः पर्य्याणयेद्धयम् क्रोशमेकं तमारुह्यनयेच्छिक्षां शनैःशनैः वल्गाग्रहश्च कर्त्तव्यः सव्यापसव्यमेवच विक्रमा पुलका पूर्णकण्ठी त्वरिता तथा ।खलीनादौ प्रयोक्तव्या सादिना वाजिनां क्रमात् ।नातिस्थूलं नातिकृशं स्तब्धं नातिकर्कशम् सप्ताङ्गुल-प्रमाणन्तु खलीनं कारयेद्बुधः खलीनादिवु लोहेषुधारयेद्विक्रमादिषु क्रमेणैव तुरङ्गाणां कटानि संप्रयो-जयेत् खलीनादौ तु धारासु यदा सुशिक्षितो हयः ।तदा कटेषु तं सादी भ्रामयेद्विक्रमादिभिः शत-हस्तादिकां भूमिं सप्तहस्तावसानिकाम् भ्रामयेद्वाजिनं सा-दी सव्यं चैवापसव्यकम् मण्डलं चतुरस्रं गोमूत्रं चार्द्ध-चन्द्रकम् नागपाशं क्रमेणैव भ्रामयेत्कटपञ्चचकम् ।एवमन्येषु लोहेषु त्रिष्वेव म्रामयेत्कटे यएवं वाहयेद्-वाहं तस्य कष्टं जायते दद्याद्भयमभीतस्य भीतस्यापिहरेद्भयम् रहस्यं सादिनामेतद्वाहनेऽस्मिन्निवेदितम् ।पूर्वोक्तेषु देशेषु षट्सु दोषेषु ताडयेत् जातुसादिनान्यस्मिन् काले दोषशतैरपि दम्यमानस्यअश्वश्य यो दोषः सादिदोषतः जायते ऽसौ निरा-कर्त्तुं सादिना नैव शक्यते एवं शास्त्रविधानेन यःसादी वाहयेद्धयान् हरयस्तस्य सिव्यन्ति भवन्ति फल-दायकाः वाहनं यच्च दुष्टं धूपलेपनमन्त्रकैः तदहंसंप्रवक्ष्यामि मुनिभिः कीर्त्तितं यथा अस्थिभिर्दशनैश्चैववृकाणां यथा बुधैः विषमक्षिकादंष्ट्राभिः धूमसंबद्धसर्पिषा एलागुरुमदोसीरनागकेसरचन्दनैः सर्ज्जिका-तैलसंयुक्तो धूपयेद्दुष्टवाजिनम् विषलोहगदैलाभिस्तैला-ज्यदधिचन्दनैः निःशेषदोषनाशाय धूप उक्तो हि वाजि-नाम् विलिप्य गोमयैः प्रातर्न्निशीथे सर्वसन्धिषु अष्टम्यांच विशेमेण दुष्टाः सिध्यन्ति घूपिताः काशीशं चन्दत्रंकौतीसिद्धार्थमरिचानि सैन्धवं बडवामूत्रं गोमूत्रंकर्णजं मलम् सुनिगुप्तानि िष्टानि कणायाः सव-चानि अञ्जनं सर्वदुष्टानां देयं पर्वणि पर्वणि ।अनेनाभ्यञ्जितो वाजी निर्वाणमधिगच्छति कोपमोहंभयं त्यक्त्वा वश्यः स्यात्सादिनोभृशम्”
Burnouf
French
अश्ववार अश्ववार
m.
(वृ) éleveur de chevaux.
Cavalier.
अश्ववारण
m.
bos gavæus, variété du bœuf.