| YouTube Channel

अश्वमेधीयः (azvamedhIyaH)

 
Apte Hindi
Hindi
अश्वमेधीयः
पुं*
अश्वः-मेधीयः -
अश्वमेध के उपयुक्त घोड़ा
E Bharati Sampat
Sanskrit
(पुं) अश्वमेधाय हितः अश्वमेध + छः "तस्मै हितम्" (५.१.५) अश्वमेधयोग्यः पशुः, अश्वमेधयज्ञीयाश्वः, ययुः "ययुरश्वोऽश्वमेधीयः" (अमरः)
शब्दकल्पद्रुमः
Sanskrit
अश्वमेधीयः,
पुं,
(अश्वमेधाय हितः अश्वमेध +छ ।) अश्वमेधयज्ञीयाश्वः तत्पर्य्यायः ययुः ।इत्यमरः
तस्य लक्षणम् ।“कालाम्भोधरसङ्काशः स्वर्णवर्णमुखो बली ।यस्य पार्श्वावुभावर्द्धचन्द्राकारौ सुशोभनौ
पुच्छं विद्युत्प्रतीकाशमुदरं कुन्दसन्निभं ।पादाश्चैव हरिद्वर्णाः कर्णौ सिन्दूरसन्निभौ
ज्वलदग्निनिभा जिह्वा चक्षुषी भास्करोपमे ।विराजितो रोमराज्या सानुलोमविलोमया
विचित्रैर्विविधैर्वर्णैश्चित्रो रजतविन्दुभिः ।यो वेगे वायुतुल्यः स्यादुच्चैरुच्चैःश्रवा यथा
यस्य गात्रोद्भवो गन्धो गन्धर्ब्बमपि मोहयेत् ।एवं लक्षणसंयुक्तो यज्ञीयः पशुरुच्यते
अश्वस्य पालकश्चातिबलवान् पुत्त्र उच्यते ।पुत्त्रतुल्यः सुहृद्वापि बहुविघ्नः क्रतूत्तमः”
इति वाशिष्ठरामायणम्