| YouTube Channel

अश्वमेधः (azvamedhaH)

 
Apte Hindi
Hindi
अश्वमेधः
पुं*
अश्वः-मेधः -
एक यज्ञ जिसमे घोड़ें की वली चड़ाई जाती है
E Bharati Sampat
Sanskrit
(पुं) अश्वः प्रधानतया मेध्यते हिंस्यते अत्र अश्व + मेध (मेधृ-हिंसने) + घञ् "हलश्च" (३.३.१२१) १. यज्ञभेदः ‘अश्वमेधेन शुध्यन्ति महापातकिनस्त्त्विमे’ (म.भा.अश्व.पर्व.) अश्वमेधः अस्य अस्ति अश्वमेध + अच् "अर्श आदिभ्योऽच्" (५.२.१२७) २. राजर्षिभेदः
Wordnet
Sanskrit
Synonyms:
अश्वमेधः, अश्वमेधयज्ञः
noun
प्राचीनकालीनः यज्ञविशेषः यस्मिन् अश्वस्य मस्तिष्के जयपत्रं स्थापयित्वा तं भूमण्डलस्य परिक्रमणार्थे प्रेषयन्ति स्म।
"अश्वमेधस्य अश्वः यदा भूमण्डलस्य परिक्रमां कृत्वा प्रत्यागच्छति तदा तस्य मांसं उपयुज्य यज्ञं कुर्वन्ति स्म।"
शब्दकल्पद्रुमः
Sanskrit
अश्वमेधः,
पुं,
(अश्वः मेध्यते हिंस्यते यत्र मेध-हिंसने + घञ् ।) यज्ञविशेषः इति जटाधरः
यत्र लक्षणविशेषाक्रान्तमश्वं संप्रोक्ष्य कपालेजयपत्रं बद्ध्वा त्यजेत् तद्रक्षार्थं पुरुषविशेषं नियोजयेत् संवत्सरान्ते अश्वे आगते सति अथवाकेनापि संबद्धे युद्धं कृत्वा तमानीय यथाविधिबधं कृत्वा तद्वपया होमः कर्त्तव्यः कामनानुसारेणतत्फलं मोक्षः ब्रह्महत्यापापक्षयः स्वर्गश्च ।यथा आपस्तम्बः ।“राजा सार्व्वभौमः अश्वमेधेन यजेत नाप्यसार्व्व-भौमः” इति
प्रायश्चित्तात्मकाश्वमेधो यथा ।विष्णुः ।“अनुपातकिनस्त्वेते महापातकिनो यथा ।अश्वमेधेन शुध्यन्ति तीर्थानुसरणेन वा”
अपि ।“अश्वमेधेन शुध्यन्ति महापातकिनस्त्विमे” ।इति विष्णूक्ताश्वमेधस्य प्रायश्चित्तत्वम् पापक्षय-स्वर्गोभयसाधकस्य तु तस्यापि प्रायश्चित्तत्वम् ।इति प्रायश्चित्ततत्त्वम्
कलौ तस्य निषेधोयथा वृहन्नारदीये ।“दीर्घकालं ब्रह्मचर्य्यं नरमेंधाश्वमेधकौ ।महाप्रस्थानगमनं गोमेधञ्च तथा मखं
इमान् धर्म्मान् कलियुगे वर्ज्यानाहुर्म्मनीषिणः” ।इत्युद्वाहतत्त्वम्
अन्यच्च ब्रह्मपुराणम् ।“नराश्वमेधौ मद्यञ्च कलौ वर्ज्या द्विजातिभिः” ।इति तिथ्यादितत्त्वम्
तत्फलजनककर्म्माणियथा, --“वैशाखे मासि यः कुर्य्यात् प्रपां माधवतुष्टये ।दिने दिनेऽश्वमेधस्य फलं प्राप्नोति मानवः”
इति पाद्मे क्रियायोगसारे ११ अध्यायः
अपि ब्रह्माण्डे
“स्नानन्तु भक्त्या गङ्गायां कर्तुकामस्य गच्छतः ।पदे पदेऽश्वमेधस्य फलं मर्त्त्यस्य जायते”
इति प्रायश्चित्ततत्त्वम्