अश्वमेध (azvamedha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishअश्वमेध (-धः) The actual or emblematic sacrifice of a horse.
अश्व and
मेध sacrifice
this sacrifice is one of the highest order, and performed
a hundred times, entitles the sacrificer to the dominion of Swarga
or paradise: it appears to have been originally typical
the horse,
and other animals being simply bound during the performance
of certain ceremonies
the actual sacrifice is an introduction of a
later period. See As. R. Vol. viii. p. 442, COLEBROOKE on the Vedas.
Yates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishअश्वमेध
(-धः) The actual or emblematic sacrifice of a horse.
अश्व and मेध sacrifice
this sacrifice is one of the highest
order, and performed a hundred times, entitles the sacrificer to the dominion of
Svarga or paradise: it appears to have been originally typical
the horse,
and other animals being simply bound during the performance of certain
ceremonies
the actual sacrifice is an introduction of a later period. See As.
R. Vol. viii. p. 442, COLEBROOKE on the Vedas.
Monier Williams Cologne
English1. अश्व—मेध॑ the horse-sacrifice (a celebrated ceremony, the antiquity of which reaches back to the Vedic period
the hymns, i, 162 and 163 [= xxii seqq.], referring to it, are however of comparatively late origin
in later times its efficacy was so exaggerated, that a hundred such sacrifices entitled the sacrificer to displace Indra from the dominion of Svarga
kings who engaged in it spent enormous sums in gifts to the Brāhmans
it is said that the horse was sometimes not immolated, but kept bound during the ceremony), xviii, 22
, (cf. अर्काश्वमेध॑)
Hindi
Hindiबलिदान का एक रूप है जहां एक घोड़े के आसपास करने के लिए भेजा जाता है सर्वोच्चता estiblish
Apte Hindi
Hindiअश्वमेधः
अश्वः-मेधः -
एक यज्ञ जिसमे घोड़ें की वली चड़ाई जाती है
Shabdartha Kaustubha
Kannadaअश्वमेध
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಶ್ವಮೇಧಯಾಗ
निष्पत्तिः - > मेधृ (हिंसने) - "घञ्" (३-३-१२१)
व्युत्पत्तिः - > प्रधानतया मेध्यते हिंस्यतेऽत्र
L R Vaidya
EnglishBopp
Latinअश्वमेध m. (ex अश्व et मेध m. sacrificium) equi sacrifi-
cium. (*)
(*) Wils. ad hanc vocem: „The actual or emblematic sa-
crifice of a horse. This sacrifice is one of the highest or-
der, and performed a hundred times, entitles the sacrificer
to the domination of Swerga or paradise: it appears to
have been originally typical
the horse and other animals
being simply bound during the performation of certain ce-
remonies
the actual sacrifice is an introduction of a later
period. See AS. R. Vol. 8, 442. Colebrooke, on the Védas.
Aufrecht Catalogus Catalogorum
EnglishIndian Epigraphical Glossary
Englishaśvamedha (CII 3, 4), a sacrificial ceremony centering
in a horse, generally performed by independent monarchs.
Kings celebrating the sacrifice sometimes assumed suitable
titles (cf. Aśvamedha-parākrama and Aśvamedha-Mahendra claimed
respectively by Samudragupta and Kumāragupta I on their
coins). Some kings performed two, four or more horse-sacri-
fices. For a list of the performers of aśvamedha known form
epigraphic and numismatic records, see Sundaram Pillai Com.
Vol., pp. 93 ff.
Mahabharata
EnglishAśvamedha (“the Horse-sacrifice”). § 4 (Anukram.): I, 1, 91 (ºāmṛtarasaḥ, sc. Bhāratadrumaḥ), i.e. Āśvamedhikaparvan.
पुराणम्
Englishअश्वमेध १ / AŚVAMEDHA I. A country of ancient india which was ruled by a King named Rocamān. Bhīmasena conquered him during the world-wide conquering campaign. (Śloka 8, Chapter 29, Sabhā Parva).
अश्वमेध २ / AŚVAMEDHA II. A yāga. Kings used to conduct this in order to get absolved of all sins. Fixing a victory card on the head of a horse it is allowed to roam about freely. If anybody stops the horse and ties it, the King should go and defeat him in battle and bring back the horse. If you do a hundred such yāgas you can become indra.(* aśvamedha or horse sacrifice was performed by autocrats to establish their supreme sovereignty. For this the horse let out to roam about should go into all countries. Those who opposed the sovereignty of the King could stop the horse and tie it. Then the King had to defeat him before conducting the yāga. The vedas enjoin that the sacrificial horse should be followed by a hundred young men ready to fight those who opposed the King. indra had conducted a hundred such yāgas.)
अश्वमेध / AŚVAMEDHA. Son of King sahasrānīka (Refer under sahasrānīka).
Vedic Reference
Englishशब्दकल्पद्रुमः
Sanskritअश्वमेधः, (अश्वः मेध्यते हिंस्यते यत्र । मेध-हिंसने + घञ् ।) यज्ञविशेषः । इति जटाधरः ॥
यत्र लक्षणविशेषाक्रान्तमश्वं संप्रोक्ष्य कपालेजयपत्रं बद्ध्वा त्यजेत् तद्रक्षार्थं पुरुषविशेषं नियोजयेत् संवत्सरान्ते अश्वे आगते सति अथवाकेनापि संबद्धे युद्धं कृत्वा तमानीय यथाविधिबधं कृत्वा तद्वपया होमः कर्त्तव्यः । कामनानुसारेणतत्फलं । मोक्षः ब्रह्महत्यापापक्षयः स्वर्गश्च ।यथा । आपस्तम्बः ।“राजा सार्व्वभौमः अश्वमेधेन यजेत नाप्यसार्व्व-भौमः” । इति ॥
प्रायश्चित्तात्मकाश्वमेधो यथा ।विष्णुः ।“अनुपातकिनस्त्वेते महापातकिनो यथा ।अश्वमेधेन शुध्यन्ति तीर्थानुसरणेन वा” ॥
अपि च ।“अश्वमेधेन शुध्यन्ति महापातकिनस्त्विमे” ।इति विष्णूक्ताश्वमेधस्य प्रायश्चित्तत्वम् । पापक्षय-स्वर्गोभयसाधकस्य तु तस्यापि न प्रायश्चित्तत्वम् ।इति प्रायश्चित्ततत्त्वम् ॥
० ॥
कलौ तस्य निषेधोयथा वृहन्नारदीये ।“दीर्घकालं ब्रह्मचर्य्यं नरमेंधाश्वमेधकौ ।महाप्रस्थानगमनं गोमेधञ्च तथा मखं ॥
इमान् धर्म्मान् कलियुगे वर्ज्यानाहुर्म्मनीषिणः” ।इत्युद्वाहतत्त्वम् ॥
अन्यच्च । ब्रह्मपुराणम् ।“नराश्वमेधौ मद्यञ्च कलौ वर्ज्या द्विजातिभिः” ।इति तिथ्यादितत्त्वम् ॥
० ॥
तत्फलजनककर्म्माणियथा, --“वैशाखे मासि यः कुर्य्यात् प्रपां माधवतुष्टये ।दिने दिनेऽश्वमेधस्य फलं प्राप्नोति मानवः” ॥
इति पाद्मे क्रियायोगसारे ११ अध्यायः ॥
अपि च ब्रह्माण्डे ॥
“स्नानन्तु भक्त्या गङ्गायां कर्तुकामस्य गच्छतः ।पदे पदेऽश्वमेधस्य फलं मर्त्त्यस्य जायते” ॥
इति प्रायश्चित्ततत्त्वम् ॥
वाचस्पत्यम्
Sanskritअश्वमेध अश्वः प्रधानतया मेध्यते हिंस्यतेऽत्र मेध--हिंसनेघञ् । यज्ञभेदे स च शत० ब्रा० १३ काण्डे पञ्चभिर-ध्यायैरुक्तः । यजु० २४ अ० तदीययूपशुविशेषा विहितायथा । तत्राद्यमन्त्रोपोद्घाते यजु० वे० दी० उक्तम् अ-श्वमेधे एकविंशतिर्यूपा सन्ति तत्र मध्यमोयूपोऽग्नि-ष्ठसंज्ञः तत्र सप्तदश पशवोनियोजनीयाः अश्वः १तुपरः २ (शृङ्गोत्पत्तिकालेऽतीतेऽपि शृङ्गहोनः छागः)गोमृगः गवयः ३ । द्वौ चाग्नेयौ ४ एकादशावयवयुक्तौ ।अग्निममन्त्रे वक्ष्यमाणा रोहितादयः द्वादश गाव इतिसप्तदश पशवोमध्यमयूपे बन्धनीयाः । द्वयोरेकादशावयवाश्चमध्ये कृष्णग्रीवः, अश्वस्य रराटे पुरस्तात् ललाटे हन्वोरध-स्तात् मेषी, अधोभागे शुक्लौ छागौ, बाह्वोरश्वस्य पूर्व्वपादयोरेकैकः । अश्वस्य नाभ्यां श्यामश्वेतकृष्णरोमाऽजः श्वेतःछागः दक्षिणपार्श्वे, वामे कृष्णः । बहुरोमपुष्पकौछागौ पश्चात् पादयोरेकैकः । अश्वस्य पुच्छे श्वेतः, वेहत्गर्भघातिनी, वामनः खर्व्वः पशुः पुच्छे एवम् एका-दशानामश्वावयवतया कल्पयित्वा तथाविधौ एकादशिनौ द्वौ मध्ययूपे बन्धनीयौ अन्येषु एकेक इति भेदःपृषतीत्यादीनां श्वेताः सौर्य्या इत्यन्तानां शतत्रयसख्यकानांपशूनां मध्ये पञ्चदश पशवः एकैकस्मिन् अश्वादयस्त्रयःएते द्वादश च इत्येते पर्य्यङ्ग उच्यन्ते । अत्राश्वस्य शरीरंतुम्बीफलवत् रज्ज्वा गुस्फनीयम् । ततः कृष्णग्रीवइत्यादयः अश्वस्य शरीरे यथोक्तस्थाने संबद्ध्वा रज्ज्वाबन्धनीयाः ततो रोहितादयः वक्ष्यमाणा द्वादश नियोज्याःइतरेषु विंशतौ यूपेषु पञ्चदश पञ्चदश पशवः प्रत्येकमेका-दशिनः इतिषोडश इति भेदः” ।अश्वादिपशुभेदाः देवसहिताः यजु अ० २४ उक्ता यथा“अश्वस्तूपरो गोमृगस्ते प्राजापत्याः कृष्णग्रीव आग्नेयोरराटे । पुरस्तात्सारस्वती मेष्यधस्ताद्धन्वोराश्विनावधोरा-मौबाह्वोः सौमापौष्णः, श्यामोनाभ्यां, सौर्य्ययामौ श्रेतश्चकृष्णश्च, पार्श्वयोस्त्वाष्ट्रौ लोमशसक्थौ, सक्थ्योर्वायव्यःश्वेतः, पुच्छैन्द्राय स्वपस्याय, वेहद्वैष्णवोवामनः १ । रोहि-तोधूम्ररोहितः कर्कन्धुरोहितस्ते सोम्या, बभ्रुररुणबभ्रुःशुकबभ्रुस्ते वारुणाः, शितिरन्ध्रोऽन्यतः शितिरन्ध्रः समन्तशितिरन्ध्रस्ते सावित्राः, शितिबाहुरन्यतःशितिबाहुःसमन्तशितिबाहुस्ते वार्हस्पत्याः, पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः २ । शुद्धबालः सर्वशुद्धबालोमणिबालस्तआश्विनाः, श्येतः श्येताक्षोऽरुणस्ते रूद्रायपशुपतये, कर्णायामा अवलिप्ता रौद्रानभोरूपाः पार्ज-न्याः ३ । पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निस्ते मारुताः, फल्गूर्लोहितोर्ण्णी पलक्षीताः सारस्वत्यः, प्लीहाकर्णः शुण्ठाकर्णोऽद्ध्यालोहकर्णस्ते त्वाष्ट्राः, कृष्णग्रीवः शितिकक्षोऽ-ञ्जिसक्थस्तऐन्द्राग्नाः” कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्तौ-षस्याः ४ । शिल्पा वैश्वदेव्यो, रोहिण्यस्त्र्यवयो वाचे, ऽवि-ज्ञाता अदित्यै, सरूपा धात्रे, वत्सतर्यो देवानां पत्नीभ्यः । ५ ।कृष्णग्रीवा आग्नेयाः, शितिभ्रवो वसूनां, रोहिता रुद्राणां, श्वेता अवरोकिण आदित्यानां, नभोरूप्राः पार्जन्याः । ६ ।उन्नत ऋषभो वामनस्त ऐन्द्रवैष्णवाः, उन्नतः शितिवाहुःशितिपृष्ठस्त ऐन्द्राबार्हस्पत्याः, शुकरूपा वाजिनाः, क-ल्माषा आग्निमारुताः, श्यामाः पौष्णाः । ७ । एता ऐन्द्रा-ग्ना, द्विरूपा अग्नीषोमीया, वामना अनड्वाह आग्ना-वैष्णवा, वशा मैत्रावरुण्यो, ऽन्यत एन्यी मैत्र्यः । ८ । कृष्ण-ग्रीवा आग्नेया, बभ्रवः सौम्याः, श्वेता वायव्या, अविज्ञाताअदित्यै, सरूपा धात्रे, वत्सतर्यो देवानां पत्नीभ्यः । ९ । कृष्णाभौमाः, धूम्रा आन्तरिक्षा, वृहन्तो दिव्याः, शवला, वैद्युताःसिध्मास्तारकाः १० । धूम्रान् वसन्तायालभते, श्वेतान् ग्रीष्माय, कृष्णान् वर्षाभ्यो, ऽरुणाञ्छरदे, पृषतो हेमन्ताय, पिशङ्गाञ्छिशिराय ११ । त्र्यवयो गायत्र्यै, पञ्चावयस्त्रिष्टुभे, दित्यवाहोजगत्यै, त्रिवत्सा अनुष्टुभे, तुर्यवाह उष्णिहे १२ । पृष्ठवाहोविराजे, उक्षाणोवृहत्या, ऋषभाः, ककुभे, ऽनड्वाहः पङ्क्त्यै, धेनवोऽतिच्छन्दसे १३ । कृष्णग्रीवा आग्नेया, बभ्रवः सौम्या, उपध्वस्ताः सावित्रा, वत्सतर्य्यः सारस्वत्याः, श्यामाःपौष्णाः, पृश्नयो भारुता, बहुरूपा वैश्वदेवा, वशा द्यावा-पृथिवीयाः १४ । उक्ताः संचरा एता ऐन्द्राग्नाः, कृष्णावारुणाः, पृश्नयो मारुताः, कायास्तूपराः १५ । अग्नयेऽनी-कवते प्रथमजानालभते, मरुद्भ्यः सान्तपनेभ्यः सवात्यान्, मरुद्भ्यो गृहमेधिभ्यो वष्किहान्, मरुद्भ्यः क्रीडिभ्यः संसृ-ष्टान्, मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् १६ । उक्ताः संचरा एताऐन्द्राग्नाः, प्राशृङ्गा माहेन्द्रा, बहुरूपा वैश्वकर्म्मणाः १७ ।धूम्रा बभ्रुनीकाशाः पितृणां सोमवतां, बभ्रवो धूम्रनीकाशाःपितॄणां बर्हिषदां, कृष्णा बभ्रुनीकाशाः पितॄणामग्निष्वा-त्तानां, कृष्णाः पृषन्त स्त्रैयम्बकाः १८ । उक्ताः संचराःएता शूनासीरीयाः, श्वेता वावव्याः, श्वेताः सौर्य्याः १९ ।एवं समाप्ना यूपाः इत्यश्वाद्याः सौर्य्यान्ताः सप्तविंशत्यधिक-शतत्रयमिताः ग्राम्याः पशवः सर्वे उक्ताः । आरण्यानाह ।“वसन्ताय कपिञ्जलानालभते, ग्रीष्माय कलविङ्कान्, वर्षाभ्यस्तित्तिरा, ञ्छरदे वर्त्तिका, हेमन्ताय ककरा, ञ्छिशिरायविककरान् २० । समुद्राय शिशुमारानालभते, पर्जन्यायमण्डूका, नद्भ्योमत्स्या, न्मित्राय कुलीपयान्, वरुणायनाक्रान् २१ । सोमाय हंसानालभते, वायवे बलाकाइन्द्राग्निभ्यां क्रुञ्चान्, मित्राय मद्गून्, वरुणाय चक्र-वाकान् २२ । अग्नये कुटरूनालभते, वनस्पतिभ्यउलूका, नाग्नीषोमाभ्यां चाषान्, अश्विभ्यां मयूरान्, मित्रावरुणाभ्यां कपोतान् २३ । सोमाय लबानालभते, त्वष्ट्रेकौलीकान्, गोषादीर्देवानां पत्नीभ्यः, कुलीका देवजामि भ्यो, ऽग्नये गृहपतये पारुष्णान् २४ । अह्ने पारावतानाल भते, रात्र्यै सीचापू, रहोरात्रयोः संधिभ्योः जतू, र्मासेभ्यो दा-त्यौहान्, संवत्सराय महतः सुपर्णान् २५ । भूम्या आखूनालभते, ऽन्तरिक्षाय पाङ्क्त्रान्, दिवे कशान्, दिग्भ्यो नकुलान्, बभ्रुकानवान्तरदिशाभ्यः २६ । वसुभ्य ऋश्यानालभते, रुद्रेभ्योरुरून्, आदित्येभ्योन्यङ्कून्, विश्वेभ्यो देवेभ्यः पृष-तान्, साध्येभ्यः कुलुङ्गान् २७ । ईशानाय परस्वत आलभते, मित्राय गौरान्, वरुणाय महिषान्, वृहस्पतये गवयां, स्त्वष्ट्र-उष्ट्रान् २८ । प्रजापतये पुरुषान् हस्तिन आलभते, वाचेप्लुँषी, श्चक्षुषे मशका, ञ्छोत्राय भृङ्गाः, २९ । प्रजापतयेच वायवे च गोमृगो, वरुणायारण्योमेषो, यमायकृष्णो, मनुष्यराजाय मर्कटः, शार्दूलाय रोहिद्, ऋषभायगवयी, क्षिप्रश्येनाय वर्तिका, नीलङ्गोः कृमिः, समुद्रायशिशुमारी, हिमवते हस्ती ३० । मयुः प्राजापत्य, उलोहलिक्ष्णो वृषदंशस्ते धात्रे, दिशां कङ्को, धुङ्क्षाग्नेयीकलविङ्को लोहिताहिः पुष्करसादस्ते त्वाष्ट्रा, वाचेक्रुञ्चः ३१ । सोमाय कुलुङ्ग, आरण्योऽजो नकुलः शका तेपौष्णाः, क्रोष्टा मायो, रिन्द्रस्य गौरमृगः, पिद्वोन्यङ्कुःकक्कटः, स्तेऽनुमत्यै, प्रतिश्रुत्कायै चक्रवाकः ३२ । सौरी बलाका, शार्गः सृजयः शयाण्डकस्ते मैत्राः, सरस्वत्यै, शारिः पुरुषवाक्, श्वाविद्भौमी, शार्दूलो वृकः पृदाकुस्ते मन्यवे, सरस्वतेशुकः पुरुषवाक् ३३ । सुपर्णः पार्जन्य, आतिर्वाहसोदर्विदा ते वायवे, वृहस्पतये वाचस्पतये, पैङ्गराजो, ऽलजआन्तरिक्षः, प्लवोमद्गुर्मत्स्यस्ते नदीपतये, द्यावापृथिवीयःकूर्मः ३४ । पुरुषमृगश्चन्द्रमसो, गोधा कालका दार्वाघाटस्तेवनस्पतीनां, कृकवाकुः सावित्रो, हंसो वातस्य, नाक्रो मकरःकुलीपयस्तेऽकूपारस्य, ह्रियै शल्लकः ३५ । एण्यह्नो, मण्डूकोमूषिका तित्तिरिस्ते सर्पाणां, लोपाश आश्विनः । कृष्णोरात्र्या, ऋक्षो जतूः मुषिलीका तैतरजनानां, जहकावैष्णवी ३६ । अन्यवापोऽर्धमासानामृश्यो मयूरः सुर्पणस्तेगन्धर्वाणा, सपामुद्रो मासां, कश्यपो रोहित् कुण्डृणाचीगोलत्तिका तेऽप्सरसां, मृत्यवेऽसितः २ । ७ । वर्षाहू रृतू-ना, माखुः कशो मान्थालस्ते पितॄणां, बलायाजगरो, वसूनां कपिञ्जलः, कपोत उलूकः शशस्ते निरृत्यै, वरुणायारण्यो मेषः ३८ । श्वित्र आदित्याना, मुष्ट्रोघृणीवान् वार्ध्रीनसस्ते मत्या, अरण्याय सृमरो, रुरू रौद्रः, क्वयिः कुटरुर्दात्यौहस्ते वाजिनां, कामाय पिकः ३९ ।खड्गो वैश्वदेवः, श्वा कृष्णः कर्णो गर्दभस्तरक्षुस्तेरक्षसा, मिन्द्राय सूकरः । सिंहो मारुतः, कृकलासःपिप्पका शकुनिस्तेशरव्यायै विश्वेषां देवानां पृषतः । ४० ।एवं षष्ट्यधिकं शतद्वयमारुण्याः पशव उक्ताः । म-ध्यमयूपे द्वौ एकादशिनौ अन्येषु एकैके एकादशिनःइति एकविंशतियूपेषु द्वाविंशतिरेकादशिनः । अतः सप्तविं-शत्यधिकशतत्रयम् अश्वादि सौर्य्यान्तं द्वाविंशत्या सह मिलि-ताम् सत् ऊनपञ्चाशदधिकं शतत्रयम्! ताः ग्राम्यापशवःआरण्यास्तु २६० मिलिताः ६०९ पशवोऽश्वमेधे र्विहिताःतदुक्तं श्लोके । “षट् शतानि नियुज्यन्ते पशूनां मध्यमे-ऽहनि । अश्वमेधस्य यज्ञस्य नवमिश्चाधिकानि च” । तेषुग्राम्या आलभ्या आरण्या बन्धनान्मोच्या न तु हिंस्याइति । एवञ्चात्राश्वस्य प्रधान्यात् अश्वमेधत्वम् । अश्वलक्ष-णं तु” कालाम्भोधरसङ्काशः स्वर्णवर्णमुखोबली । यस्यपार्श्वावुभावर्द्धचन्द्राकारौ सुशोभनौ । पुच्छं विद्युत्प्रती-काशमुदरं कुन्दसन्निभम् । पादाश्चैव हरिद्वर्णाः कर्णौसिन्दूरसन्निभौ । ज्वलदग्निनिभा जिह्वा चक्षुषी भा-स्करोपमे, विराजितो रोमराज्या सानुलोमविलोमया ।विचित्रैर्विविधैर्वर्णैश्चित्रोरजतविन्दुभिः । यो वेगे वायुतुल्यः स्यादुच्चैरुच्चैःश्रवायथा । यस्य गात्रोद्भवोगन्धोगन्धर्व्वमपि मोहयेत् । एवं लक्षणसंयुक्तो यज्ञियः पशुरु-च्यते” वाशि० रा० । “गोक्षीरसमवर्णञ्च कुन्देन्दुहिमसन्निभ-म् । पीतपुच्छं श्यामकर्णं सर्वतोगतिमत्तमम् । श्यामं वापिमहीपाल । यज्ञेऽस्मिंस्तुरगं विदुरिति” पुरा० । शत० ब्राह्मणेतु “द्विरूपएवैषोऽश्वः स्यात् कृष्णसारङ्गः प्रजापतेर्वाएषो-ऽक्ष्णः सममवत् द्विरूपं वा इदं चक्षुः शुक्लं चैव कृष्णंच तदेनंस्वेन रूपेण समर्धयतीति । अथ होवाच सात्ययज्ञिःत्रिरूप एवैषोऽश्वः स्यात्तस्य कृष्णः पूर्वार्धः शुक्लोऽपरार्धःकृत्तिकाञ्जिः पुरस्तात्तद्यत् कृष्णः पूर्वार्धो भवति यदेवेदंकृष्णमक्ष्णस्तदस्य तदथ यच्छुक्लोऽपरार्धो भवति यदेवेदं शुक्ल-मक्ष्ण स्तदस्य तदथ यत्कृत्तिकाञ्जिः पुरस्तात्सा कनीनिकास एवं रूपसमृद्ध्वोऽती यतमोऽस्योपकल्पेत बहुरूपो वाद्विरूपो वा त्रिरूपो वा कृत्तिकाञ्जिस्तमालभेत जवेन त्वेवसमृद्धः स्यात्” । “कृत्तिकाकारं कृत्तिकान्तिकरोहिणीशकटाकारमञ्जिं पुण्म्रं ललाठे यस्य भा० । ललामम्” । कात्या० २० । १ । ३३ । “नीलपौण्ड्रकयुक्तमिति” कर्क० ।तस्योत्सर्ज्जनं चोत्तरपूर्व्वदिशि । “पशुवदुत्सर्ज्जनं निरष्टेऽश्वशते” कात्या० २० । २ । १ । “पशुवदित्युत्तरपूर्व्वा दिग्लक्ष्यते निरष्टे निरमणे वृद्धतया । अध्वर्युयजमानौ अ-श्वशते शतानामप्यश्वानां मध्ये पशुवदुत्सर्ज्जनं कुरुतःकीदृशे निरष्टे अश्वस्य वयोव्यञ्जनानि एकैकं त्रीणित्रीणि वर्षाणि अनुवर्त्तन्ते तानि निर्गतान्यस्मादितिनिरष्टम् अतीतचतुर्विंशतिवर्षमित्यर्थः” कर्कः । तेन वृद्धतयास्कन्दनसामर्थ्यराहित्यं सूचितम् तथा हि तस्याश्वस्य “बड-वाभ्यो वारणम्” “प्रस्नेयाच्चोदकात्” कात्या० २० । २ । १ ।२ । ३ । वाक्येन वडवाभ्यो निवारणं, प्रस्नेयात् यथेच्छस्ना-नार्हादुदकाच्च मिवारणम् विहितम् । अतएव “प्रजातेवायव्यम्” कात्या० २० । ३ । २० । बडवायां रेतःस्कन्दनेप्रजातैत्युच्यते तस्मिन् वायव्यपयोनिर्वापोविहितः ।तस्य रक्षकाश्च यथारूपाः कर्त्तव्यास्तथाह शत० ब्रा० ।“तस्यैते पुरस्ताद्रक्षितार उपकॢप्ता भवन्ति । राजपुत्राःकवचिनः शतं राजन्या निषङ्गिणः शतं सूतग्रामण्याःपुत्त्रा इषुपर्षिणः शतं क्षात्रसंगृहीतॄणां पुत्त्रा दण्डिनःशतमश्वशतं निरष्टं निरमणं यस्मिन्नेनमपिसृज्य रक्षन्ति”अवधिकालमाह “तस्मात् पारिप्लवं षट्त्रिंशतं दशाहानाचष्टे” इति शत० ब्रा० सावनगणनया संवत्सरे गतेदीक्षा । “अश्वापदीज्या चरुभिः सावित्रम्” इत्यादिना“मृतेचादर्शने च” इत्यन्तेन कात्या० २०, ३, २० । प्रायत्तवि-शेषानुक्त्वा “अन्यस्य रशनादानादि करोत्यश्वयुक्तम्” मृतेअश्वस्यादर्शने च” का० २०, ४, १ । अपुनरागमसम्भवे च अ-न्यस्याश्वस्य रशनादानादि अश्वयुक्तमश्वसंबन्धि अश्वोपकारकंसर्व्वं कर्म्म पुनः करोति” कर्कः । अश्वमेधारम्भकालश्च ।“अष्टम्यां नवम्यां चा फाल्गुनीशुक्लस्य” कात्या० २०, १, २, फाल्गुनशुक्लपक्षेऽष्टम्यां नवम्यां वा प्रारम्भः । “याऽसौफाल्गुनी पौर्ण्णमासी भवतीति” प्रकृत्य “तस्यै पुरस्तात्षडहे वा सप्ताहे वा ऋत्विज उपसमायन्तीति” शत०ब्रा० ग्रीष्मेत्वेके” कात्या० २०, १, ३, “ज्यैष्ठाषाड-योः शुक्लाष्टम्यां नवम्यां वेत्येके” कर्कः । एकविंशतिपूपसन्नि-वेशमानादि यथा “एकविंशतिर्यूपाः सर्व्व एकविंशत्यरत्नयोराज्जुद्दालोऽग्निष्ठो भवति पैततुदारवावभितः, षड्बैल्वास्त्रय इत्थात्त्रय इत्थात्, षट् खादिरास्त्रयएवेत्थात्त्रय इत्थात्, षट् पालाशास्त्रय एवेत्थात्त्रय इत्थात्, शत० ब्रा० । एतेषां नामनिर्व्वचनं तत्रैव दृश्यम् ।अश्वमेधस्य यौगिकानि द्वादश नामानि दर्शितानि श-त० ब्रा० १३ काण्डे । “एष वै प्रभूर्नाम यज्ञः १ । यत्रैतेनयज्ञेन यजन्ते सर्व्वमेव प्रभूतं भवति । एष वै विभूर्नामयज्ञः २ । यत्रैतेन यज्ञेन यजन्ते सर्व्व मेव विभूतं मवति ।एष वै व्यष्टिर्नाम यज्ञः ३ । यत्रैतेन यज्ञेन यजन्ते सर्व्व-मेव व्यष्टं भवति । एष वै विधृतिर्नाम यज्ञः ४ । यत्रै-तेन यज्ञेन यजन्ते सर्व्वमेव विधृतं भवति । एष र्व व्यावृ-त्तिर्नाम यज्ञः ५ । यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यावृत्तंभवति । एष वा ऊर्जस्वन्नाम यज्ञः ६ । यत्रैतेन यज्ञेन यजन्तेसर्व्वमेवोर्जस्वद्भवति । एष वै पयस्वान्नाम यज्ञः ६ । यत्रैतेन यज्ञेन यजन्ते सर्व्वमेव पयस्वद्भवति । एष वै ब्रह्मवर्चसी नाम यज्ञः ८ । यत्रैतेन यज्ञेन यजन्त आब्राह्मणोवर्चसी जायते । एष वाअतिव्याघिर्नाम यज्ञः ९ । यत्रैतेनयज्ञेन यजन्त आराजन्योऽतिव्याधिर्जायते । एष वैदीर्घो नाम यज्ञः १० । यत्रैतेन यज्ञेन यजन्तऽआदीर्घा-रण्यं जायते । एष वै कॢप्तिर्नाम यज्ञः ११ । यत्रैतेनयज्ञेन यजन्ते सर्व्वमेव कॢप्तं भवति । एष वै प्रतिष्ठा नामयज्ञः १२ । यत्रैतेन यज्ञेन यजन्ते सर्व्वमेव प्रतिष्ठितंभवति” । “तरति ब्रह्महत्यां योऽश्वमेधेन यजते” शत० ब्रा०“अश्वमेधे न शुध्यन्ति महापातकिनस्त्विमे” भा० अश्व० प० ।
Grassman
GermanNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
