अश्वदायः (azvadAyaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“डु दाञ् दाने”@} 2 ‘दाञो दत्ते ददातीति, दाणो यच्छति, दो द्यति।
दाति दायति दाप्दैपोः, दयते रक्षणे ङितः।।’ 3 इति देवः।
4 दायकः-यिका, 5 दापकः-पिका, 6 दित्सकः-त्सिका, 7 देदीयकः-यिका
दाता-त्री, दापयिता-त्री, दित्सिता-त्री, देदीयिता-त्री
8 9 ददत्- 10 ददतौ-ददतः, 11 व्याददत्, 12 आददत्, 13 14 व्याददत्, दापयन्-न्ती, दित्सन्-न्ती
-- -- दास्यन्-न्ती-ती, दापयिष्यन्-न्ती-ती, दित्सिष्यन्-ती
-- ददानः, 15 16 आददानः, 17 18 व्याददानः, दापयमानः, दित्समानः, 19 20 आदित्समानः, देदीयमानः
दास्यमानः, आदास्यमानः, दापयिष्यमाणः, दित्सिष्यमाणः, देदीयिष्यमाणः
प्रदाः-प्रदौ-प्रदाः
-- -- 21 दत्तम्-दत्तः-दत्तवान्, 22 मनसादत्ता, 23 प्रत्तम्- 24 नीत्तम्-सूत्तम्- 25 मरुत्तः, 26 अवदत्तम्-विदत्तम्-प्रदत्तम्-सुदत्तम्-अनुदत्तम्-निदत्तम्, अवत्तम्-अनूत्तम्, दापितः, 27 दित्सितः, देदीयितः-तवान्
28 29 प्रदः, 30 ददः- 31 दायः, 32 गोदः, 33 34 दायादः, 35 कम्बल- प्रदः, 36 उपदाः, 37 सुदामा-सुदीवा-गोदावरी, 38 ग्रामदायी, 39 शापदायी, 40 साधुदायी, 41 कर्णदायी, 42 विद्यादायी, 43 ददिवान्, 44 दाता, 45 दारुः, 46 ददिः 47, 48 दायको 49, 50 अश्वदायः, 51 दानीयः 52, 53 54 दाता, 55 अवश्यंदायी-शतंदायी, 56 देवदत्तः, 57 आदिः, 58 अन्तर्दिः, दापः, दित्सुः, 59 देद्यः
दातव्यम्, दापयितव्यम्, दित्सितव्यम्, देदीयितव्यम्
दानीयम्, दापनीयम्, दित्सनीयम्, देदीयनीयम्
60 देयम्, दाप्यम्, दित्स्यम्, देदीय्यम्
61 ईषद्दानः-दुर्दानः-सुदानः
दीयमानः, दाप्यमानः, दित्स्यमानः, देदीय्यमानः
दायः, दापः, दित्सः, देदीयः
दातुम्, दापयितुम्, दित्सितुम्, देदीयितुम्
दत्तिः, 62 उपदा, दापना, 63 दित्सा, देदीया
दानम्, 64 दत्त्रिमम् 65, दापनम्, दित्सनम्, देदीयनम्
दत्त्वा, दापयित्वा, दित्सित्वा, देदीयित्वा
66 प्रणिदाय, प्रदाप्य, प्रदित्स्य, प्रदेदीय्य
67 दायम् २, दत्त्वा २, दापम् २, दापयित्वा २, दित्सम् २, दित्सित्वा २, देदीयम् २
देदीयित्या २
68 इति नुप्रत्ययः।
दानुः = दक्षिणार्थ धनम्।]] दानुः, 69 इति चेष्णकूप्रत्ययः।
ददातीति देष्णः = दानशीलः।
माधवधातुवृत्तौ तु देष्णुः इति रूपमौणादिकं साधितम्।]] देष्णः।
01 (८३०)
02 (३-जुहोत्यादिः-१०९१। सक। अनि। उभ।)
03 (श्लो। ४)
04 [[३। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञादिष्वपि ज्ञेयम्।]]
05 [[४। ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ’ (७-३-३६) इति ण्यन्ते सर्वत्र पुगागमः।]]
06 [[५। ‘दाधा ध्वदाप्’ (१-२-२०) इति घुसंज्ञायाम्, ‘सनि मीमाघु--’ (७-४-५४) इति सन्नन्ते इस्। ‘सः स्यार्धधातुके’ (७-४-४९) इति तकारे, ‘अत्र लोपो- ऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07 [[६। ‘घुमास्था--’ (६-४-६६) इत्यादिना ईत्वम्। द्वित्वादिकम्। ‘गुणो यङ्लुकोः’ (७-४-८२) इति अभ्यासे गुणो भवति। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
08 [पृष्ठम्०७३२+ ३०]
09 [[१। शतरि, ‘जुहोत्यादिभ्यः श्लुः’ (२-४-७५) इति शपः श्लौ, ‘श्लौ’ (६-१-१०) इति द्वित्वे, उत्तरखण्डे, ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे, ‘नाभ्यस्ता- च्छतुः’ (७-१-७८) इति नुम्निषेधः। ‘अनास्यविहरणे’ (१-३-२०) इति पर्युदासात् ‘आस्यं, व्याददत्’ इत्यत्र शतैव। एवं आङो ङिद्विशिष्टस्य ग्रहणात् भिक्षामाददत् इत्यत्रापि शतैव।]]
10 [[आ। ‘अमेयधामा स जहेऽघहानिं ददज्जनेभ्यो मुदमादधानः।।’ धा। का। २-५४।]]
11 [आस्यं]
12 [भिक्षां]
13 [विपादिकां]
14 [[२। ‘आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः’ (काशिका। १-३-२०) इति वचनात् विपादिकां व्याददत् इत्यत्र शतैव।]]
15 [विद्यां]
16 [[३। ‘आङो दोऽनास्यविहरणे’ (१-३-२०) इति परगामिनि क्रियाफलेऽपि शानच्।]]
17 [पिपीलिका पतङ्गस्य मुखं]
18 [[४। ‘स्वाङ्गकर्मकाच्चेति वक्तव्यम्’ (वा। १-३-२०) इति शानच्।]]
19 [विद्यां]
20 [[५। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तादाङ्पूर्वकात् शानच्।]]
21 [[६। ‘दो दद्घोः’ (७-४-४६) इति तादौ किति प्रत्यये परतः ‘दथ्’ इत्यादेशः। थकारस्य चर्त्वेन तकारः। तथा चोक्तम्-- ‘तान्ते दोषो दीर्घत्वं स्यात्, दान्ते दोषो निष्ठानत्वम्। धान्ते दोषो धत्वप्राप्तिः, निर्दोषत्वात् थान्तो ग्राह्यः।।’ (भाष्यम्--७-४-४६) इति। एवं क्तिन्प्रभृतिष्वपि ज्ञेयम्।]]
22 [[७। ‘मनसः संज्ञायाम्’ (६-३-४) तृतीयाया अलुक्।]]
23 [[८। निष्ठायाम् ‘अच उपसर्गात् तः’ (७-४-४७) इति धातोस्तकारे रूपमेवम्।]]
24 [[९। ‘दस्ति’ (६-३-१२४) इत्यनेनात्र निष्ठायां तकारादेशे इगन्तस्योपसर्गस्य दीर्घः।]]
25 [[१०। ‘मरुत उपसंख्यानम्’ (वा। १-४-५९) इति मरुच्छब्दस्योपसर्गसंज्ञायाः विधा- नसामर्थ्यात्, अनजन्तत्वेऽपि ‘अच उपसर्गात् तः’ (७-४-४७) इति तकारादेशः।]]
26 [[११। ‘अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि। सुदत्तमनुदत्तं च निदत्तमिति चेष्यते।।’ (भाष्यम् ७-४-४६) इति भाष्येष्ट्या न धातोस्तकारादेशः। अत्र चकारस्य समुच्चयार्थकत्वात् अवत्तम् इत्यादयोऽपि यथासम्भवं साधवः।]]
27 [[B। ‘अन्वेषयन् दित्सितदक्षिणोऽहमाचार्यसान्दीपिनिसूनुवृत्तम्।’ या। अ। १८। १०९।]]
28 [पृष्ठम्०७३३+ ३३]
29 [[१। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्यकारलोपः।]]
30 [[२। ‘ददातिदधात्योर्विभाषा’ (३-१-१३९) इति कर्तरि शप्रत्ययः। ‘कर्तरि शप्’ (३-१-६८) इति शपि, तस्य, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लौ, ‘श्लौ’ (६-१-१०) इति द्विर्वचने, ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे च ददः इति रूपम्। अस्य शप्रत्ययस्य वैकल्पिकत्वात् पक्षे, ‘श्याऽऽद्व्यध--’ (३-१-१४१) इति कर्तरि णप्रत्यये, युगागमे च दायः इति रूपम्।]]
31 [[आ। ‘ददैः दुःखस्य मातृभ्यो धायैरामोदमुत्तमम्।’ भ। का। ६। ८०।]]
32 [[३। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मण्युपपदेऽणोऽपवादः कप्रत्ययः। आकारलोपः।]]
33 [गवां गोंषु वा]
34 [[४। दायमादत्ते इति दायादः। ‘मूलविभुजादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति सोपसर्गात् धातोः कर्मण्युपपदे कप्रत्ययः। ‘स्वामीश्वराधिपतिदायाद--’ (२-३-३९) इति षष्ठीसप्तम्यौ।]]
35 [[५। ‘प्रे दाज्ञः’ (३-२-६) इति प्रोपसृष्टादस्मात् कर्मण्युपपदे कप्रत्ययः।]]
36 [[६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति विचि रूपमेवम्।]]
37 [[७। ‘आतो मनिन्क्वनिब्वनिपश्च’ (३-२-७४) इत्यनेन क्रमेण मनिनि, क्वनिपि, वनिपि च सुदामा-सुदीवा-गोदावरी इति रूपाणि। तत्र सुदीवा इत्यत्र प्रत्ययस्य कित्त्वादीकारः प्रकृतेः। गोदावरी इत्यत्र ‘वनो र च’ (४-१-७) इत्यनेन स्त्रियां ङीब्-रेफादेशौ भवतः, इति विशेषः।]]
38 [[८। ‘क्विप् च’ (३-२-७६) इत्यनेन कर्मोपपदादस्मात् क्विप्प्रत्ययः।]]
39 [[९। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिप्रत्ययः। युगागमः।]]
40 [[१०। ‘साधुकारिण्युपसंख्यानम्’ (वा। ३-२-७८) इति णिनिः।]]
41 [[११। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः। कर्ण इव ददातीत्यर्थः।]]
42 [[१२। ‘व्रते’ (३-२-८०) इति णिनिः। यो विद्यादानं त्रतत्वोनचरति, स एवमुच्यते।]]
43 [[१३। क्वसौ, द्विर्वचने, आकारलोपे, ‘वस्वेकाजाद्घसाम्’ (७-२-७६) इतीडागमे रूपम्।]]
44 [[१४। ‘तृन्’ (३-२-१३५) इति तच्छीलादिषु कर्तृषु तृन्। दानशील एवमुच्यते।]]
45 [[१५। ‘दाधेट्सिशदसदो रुः’ (३-२-१५९) इति तच्छीलतद्धर्मतत्साधुकारिषु रुः।]]
46 [[१६। ‘आदृगम--’ (३-२-१७१) इति किः, किन् वा प्रत्ययः। तस्य लिड्वद्भावाति- देशात् द्वित्वादिकार्यम्।]]
47 [गाः]
48 [[१७। क्रियार्थायां क्रियायाम्, ‘तुमुन्ण्वुलौ--’ (३-३-१०) इति ण्वुलि युगागमः।]]
49 [व्रजति]
50 [[१८। ‘अण् कर्मणि च’ (३-३-१२) इति क्रियार्थायां क्रियायां कप्रत्ययापवादोऽण् प्रत्ययः।]]
51 [[१९। दीयतेऽस्मै, इति दानीयो विप्रः। सम्प्रदाने, ‘कृत्यल्युटो बहुलम्। (३-३-११३) इति अनीयर्।]]
52 [ब्राह्मणः]
53 [पृष्ठम्०७३४+ २६]
54 [[१। ‘अर्हे कृत्यतृचश्च’ (३-३-१६९) इति अर्हार्थे तृच्। दातुमर्हो दाता।]]
55 [[२। ‘आवश्यकाधमर्ण्ययोर्णिनिः’ (३-३-१७०) इति क्रमेणार्थद्वये णिनिप्रत्ययः।]]
56 [[३। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति क्तप्रत्ययः।]]
57 [[४। ‘उपसर्गे घोः किः’ (३-३-९२) इति किप्रत्ययः। आ-दीयते इत्यादिः कारणम्।]]
58 [[५। ‘अन्तश्शब्दस्य अङ्किविधिणत्वेषूपसर्गत्वं वाच्यम्’ (वा। १-४-६५) इति वचना- दुपसर्गत्वात् किप्रत्ययः।]]
59 [[६। यङन्तात् पचाद्यचि, यङो लुकि, ‘एरनेकाचः--’ (६-४-८२) इति यण्।]]
60 [[७। ‘ईद् यति’ (६-४-६५) इति धातोरीकारे गुणे च रूपमेवम्।]]
61 [[८। ईषदाद्युपपदेषु, ‘आतो युच्’ (३-३-१२८) इति युचि, अनादेशः।]]
62 [[९। ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्प्रत्ययः।]]
63 [[आ। ‘नंनम्यमानाः फलदित्सयेव चकाशिरे तत्र लता विलोलाः।।’ भ। का। २। २५।]]
64 [[१०। ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, ‘त्रेर्मप्नित्यम्’ (४-४-२०) इति मप् नित्यम्। दद्भावश्च भवति।]]
65 [[B। ‘निष्ठां गते दत्त्रिमसभ्यतोषे विहित्रिमे कर्मणि राजपत्न्यः।’ भ। का। १। १३।]]
66 [[११। ‘न ल्यपि’ (६-४-६९) इतीत्वनिषेधः। ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इति प्रोत्तरस्य नेर्णत्वम्।]]
67 [पृष्ठम्०७३५+ २७]
68 [[१। ‘दाभाभ्यां नुः’ [द। उ। १-१४३]
69 [[२। ‘गादाभ्यां चेष्णक्’ [द। उ। ५-४८]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
