अश्वत्थः (azvatthaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishअश्वत्थः [aśvatthḥ], [न श्वश्चिरं शाल्मलीवृक्षादिवत् तिष्ठति स्था-क पृषो. नित्यस. Tv.]
The holy fig tree
ऊर्ध्वमूलो$वाक्शाख एषो$श्वत्थः सनातनः Kaṭh.
the tree of this world
ऊर्ध्वमूलमधःशाखम- श्वत्थं प्राहुरव्ययम् 15.1. (Mar. पिंपळ).
A kind of the Aśvattha tree (नन्दीवृक्ष
नांदुरखी.)
of another tree गर्दभाण्ड (Mar. लाखी पिंपरी)
The constellation Aśvinī.
The time indicated or presided over by Aśvinī अश्वत्थो मुहूर्तः Sk. on संज्ञायां श्रवणाश्वत्थाभ्याम् IV.* 2.5.
A vessel made of the अश्वत्थ tree (Ved. ).
The fruit of the sacred fig-tree
अश्वत्थस्य फलमश्वत्थः Sk.
The time at which it bears fruit
अश्वत्थफलयुक्तः कालो$प्यश्वत्थः IV.* 3.48 Sk.
An epithet of the Sun.
of a people
Bṛi. 14.3. -त्था The day of the full moon in the month of Āśvina, (in which month the fruits of the sacred fig-tree generally become ripe). -त्थी [क्षुद्रो$श्वत्थः अल्पार्थे ङीप्] A small fig-tree. -कुणः [अश्वत्थस्य पाकः पील्वादि ˚कुणप् 2.24] the fruitseason of the holy fig-tree. -फला of a tree (Mar. लघुशेरणी). -भेदः of a tree (स्थालीवृक्ष) Faicus Benjamina. (Mar. पाडळी ?)
Apte 1890
Englishअश्वत्थः [न श्व श्चिरं शाल्मलीवृक्षादिवत् तिष्ठति स्था-क पृ° नि° Tv.] 1 The holy figtree
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः Kaṭh.
the tree of this world
Bg. 15. 1.
2 A kind of the Aśvattha tree (नंटीवृक्ष).
3 N. of another tree गर्दभांड.
4 The constellation Aśvinī.
5 The time indicated or presided over by Aśvinī
अश्वत्थो मुहूर्तः Sk. on P. IV. 2. 5.
6 A vessel made of the अश्वत्थ tree (Ved.).
7 The fruit of the sacred fig-tree
अश्वत्थस्य फलमश्वत्थः Sk.
8 The time at which it bears fruit
अश्वत्थफलयुक्तः कालोप्यश्वत्थः P. IV. 3. 48 Sk.
9 An epithet of the sun.
10 N. of a people
Bṛ. S. 14. 3.
त्था The day of full moon in the month of Āśvina, (in which month the fruits of the sacred fig-tree generally become ripe).
त्थी [क्षुद्रोऽश्वत्थः अल्पार्थे ङीप्] A small fig-tree.
Comp.
कुणः [ अश्वत्थस्य पाकः पील्वा° कुणच् P. V. 2. 24] the fruit-season of the holy fig-tree.
भेदः N. of a tree (स्थालीवृक्ष).
Hindi
Hindiबरगद का वृक्ष
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiअश्वत्थः
- न श्वश्चिरं शाल्मलीबृक्षादिवत् तिष्ठति-स्था +क पृषो* तारा*
पीपल का पेड़
अश्वत्थः
- न श्वः तिष्ठति इति अश्व+ स्था+ क
पीपल का पेड़
शब्दकल्पद्रुमः
Sanskritअश्वत्थः, (अश्वत्थं जलमस्यास्ति । मूले सिक्त-त्वात् । अर्श-आद्यच् । अशृत्थवत् कामकर्म्मवाते-रितनित्यप्रचलितस्वभावत्वात् आशुविनाशित्वेनश्वोऽपि स्थास्यतीति विश्वासानर्हत्वाच्च मायामयःसंसारवृक्षः । शाल्मलिवटाद्यपेक्षया न श्वश्चिरंतिष्ठति अश्वैव तिष्ठति वा । स्था गतिनिवृत्तौ ।पृषोदरादित्वात् पूर्व्वोत्तरपदान्ताद्योः सकारयो-स्तकारौ सुपिस्थ इति कः ।) स्वनामख्यातवृक्ष-विशेषः । पिपर इति पश्चिमदेशीयभाषा । तत्-पर्य्यायः । बोधिद्रुमः २ चलदलः ३ पिप्पलः ४कुञ्जराशनः ५ । इत्यमरः ॥
अच्युतावासः ६ चल-पत्रः ७ पवित्रकः ८ शुभदः ९ बोधिवृक्षः १०याज्ञिकः ११ गजभक्षकः १२ श्रीमान् १३ क्षीर-द्रुमः १४ विप्रः १५ मङ्गल्यः १६ श्यामलः १७ गुह्य-पुष्पः १८ सेव्यः १९ सत्यः २० शुचिद्रुमः २१ धनु-वृक्षः २२ । अस्य गुणाः । सुमधुरत्वं । कषायत्वं ।शीतलत्वं । कफपित्तविनाशित्वं रक्तदाहशमन-कारित्वञ्च ॥
तत्पक्वफलस्य गुणाः । सद्यो योनि-दोषहारित्वं । शीतलत्वं । अतिहृद्यत्वं । पित्तर-क्तविषार्त्तिदाहच्छर्द्दिशोषारुचिदोषनाशित्वञ्च ।इति राजनिर्घण्टः ॥
(“अश्वत्थोडुम्बरप्लक्षन्यग्रोधानां फलानि च ।कषायमधुराम्लानि वातलानि गुरूणि च” ॥
इति चरकः ॥
अश्वत्थदेवायतनश्मशान-बल्मीकसन्ध्यासु चतुष्पथेषु ।याम्ये सपित्रे परिवर्ज्जनीयाऋक्षे नरा मर्म्मसु ये च दष्टाः” ॥
इति सुश्रुतः ॥
)अथाश्वत्थवन्दनकालमन्त्राः ।“अश्वत्थं वन्दयेन्नित्यं पूर्व्वाह्ले प्रहरद्वये ।अत ऊर्द्ध्वं न वन्देत अश्वत्थन्तु कदाचन ॥
(ओँ) चक्षुस्पन्दं भुजस्पन्दं तथा दुःस्वप्नदर्शनं ।शत्रूणाञ्च समुत्थानमश्वत्थ शमयाशु मे ॥
अश्वत्थरूपी भगवान् प्रीयतां मे जनार्दनः ।त्वां दृष्ट्वा नश्यते पापं दृष्ट्वा लक्ष्मीः प्रवर्त्तते ॥
प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोऽस्तु ते” ॥
इति स्मृत्यर्थसारे हलायुधधृतवचनं ॥
गर्द्दभाण्ड-वृक्षः । इति विश्वः ॥
“बाधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रो गजाशनः ।पिप्पलो दुर्ज्जरः शीतः पित्तश्लेष्मव्रणास्रजित् ॥
गुरुस्तुवरको रूक्षो वर्ण्यो योनिविशोधनः” ॥
* ॥
अथ पिप्पलभेदः । गजहण्डु इति हिन्दिभाषा ।“पारिशोन्यः फलीशश्च कपिचूतः कमण्डलुः ।गर्द्दभाण्डः कन्दरालकपीतनसुपार्श्वकाः ॥
फलीशो दुर्ज्जरः स्निग्धः क्रिमिशुक्रकफप्रदः ।फलेऽम्लमधुरो मूले कषायः स्वादुमज्जकः” ॥
* ॥
अथ वेलियापिप्पलः ।“नन्दीवृक्षोऽश्वत्थभेदः प्ररोही गजपादपः ।स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः ॥
नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवर उष्णकः ।कटुपाकरसो ग्राही विषपित्तकफास्रनुत्” ॥
इति भावक्रकाशः ॥
* ॥
तस्य विष्णुस्वरूपत्वं यथा, --ऋषय ऊचुः ।“कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ ।सर्व्वेभ्योऽपि तरुभ्यस्तौ कथं पूज्यतमौ कृतौ” ॥
सूत उवाच ॥
“अश्वत्थरूपो भगवान् विष्णुरेव न संशयः ।रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥
दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः ।दुःखापद्व्याधिदुष्टानां विनाशकारिणो ध्रुवं” ॥
ऋषय ऊचुः ।“कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ।एतत् कथय सर्व्वज्ञ संशयोऽत्र महान् हि नः” ॥
सूत उवाच ।“पार्ब्बतीशिवयोर्दवैः सुरतं कुर्व्वतोः किल ।अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नः कृतः पुरा ॥
ततस्तु पार्ब्बती क्रुद्धा शशाप त्रिदिवौकसः ।रेतःसेकसुखभ्रंशकम्पमाना तदा रुषा” ॥
पार्ब्बत्युवाच ।“कृमिकीटादयोऽप्येते जानन्ति सुरतेः सुखं ।तस्मान्मम सुखभ्रंशात् यूयं वृक्षत्वमाप्स्यथ” ॥
सूत उवाच ।“एवं सा षार्ब्बती देवी अशपत् क्रुद्धमानसा ।तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ॥
तस्मादिमौ विष्णुमहेश्वरावुभौबभूवतुर्बोधिवटौ मुनीश्वराः ।बोधिस्त्वयं चार्किदिनं विनैवन संस्पृशेदर्कजवारयोगात्” ॥
इति पाद्मे उत्तरखण्डे १६० अध्यायः ॥
* ॥
ऋषय ऊचुः ।“अस्पृश्यत्वं कथं जातं सूत बोधितरुः स्वयं ।स्पृश्यत्वञ्च कथं प्राप्तस्तथायं शनिवासरे” ॥
सूत उवाच ।“समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः ।श्रेष्ठञ्च कौस्तुभं तेष विष्णवे प्रददुः सुराः ॥
यावदङ्गीचकारासौ लक्ष्मीं भार्य्यार्थमात्मनः ।तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनं” ॥
लक्ष्मीरुवाच ।“असंस्कृत्य कथं च्येष्ठां कनिष्ठा परिणीयते ।तस्मान्ममाग्रजामेतामलक्ष्मीं मधुसूदन ॥
विवाह्योद्वाहमां पश्चात् एष धर्म्मः सनातनः ।तस्मात् धर्म्मव्यतिक्रामं न कुर्य्या मधुसूदन ॥
इति तद्वचनं श्रुत्वा स बिष्णुर्लोकभावनः ।उद्दालकाय मुनये सुदीर्घतपसे तदा ॥
आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ।स्थूलोष्ठीं शुक्लवदनां विरूपां बिभ्रतीं तनुं ॥
खवदारक्तनयनां रूक्षपिङ्गशिरोरुहां ।स मुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमं ॥
वेदध्वनिसमायुक्तमानयामास धर्म्मवित् ।होमधूपसुगन्धाढ्यं वेदघोषेन नादितं ॥
आश्रमं तं विलोक्याथ व्यथिता साब्रवीदिदं ।”ज्येष्ठोवाच ।“नहि वासानुरूपोऽयं वेदध्वनियुतो मम ॥
नात्रागमिस्ये भो ब्रह्मन् नयस्वान्यत्र मां ध्रवं” ।उद्दालक उवाच ।“कथं नायासि किञ्चात्र वर्त्तते स्वमतं तव ।तव योग्या च वसतिः का भवेत्तद्वदस्व मां” ॥
ज्येष्ठोवाच ।“वेदध्वनिर्भवेद्यस्मिन् अतिथीनाञ्च पूजनं ।यज्ञदानादिकं यत्र नैव तत्र वसाम्यहं ॥
परस्परानुरागेण दाम्पत्यं यत्र विद्यते ।पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहं ॥
दानशौचे न विद्येते परद्रव्यापहारिणः ।परदाररता यत्र तत्र स्थाने रतिर्म्मम ॥
वृद्धसज्जनविप्राणां यत्र स्यादवमाननं ।निष्ठुरं भाषणं यत्र तत्र सम्यग्वसाम्यहं” ॥
सूत उवाच ।“इति तद्वचनं श्रुत्वा विसन्नवदनोऽभवत् ।उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह” ॥
उद्दालक उवाच ।“अश्वत्थवृक्षमूलेऽस्मिन् अलक्ष्मीः श्रम्यतां क्षणंआश्रमस्थानमालोक्य यावदायाम्यहं पुनः” ॥
सूत उवाच ।“इति तां तत्र संस्थाप्य जगामोद्दालको मुनिः ।प्रतीक्षन्ती चिरं तत्र यदा न तं ददर्श सा ॥
तदा रुरोद करुणं भर्तुस्त्यागेन दुःखिता ।तत्तस्याः क्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत् ॥
तदा विज्ञापयामास विष्णुमुद्विग्नमानसा” ।लक्ष्मीरुवाच ।“स्वामिन् मद्भगिनी ज्येष्ठा स्वामित्यागेन दुःखिता ।तामाश्वासयितुं याहि कृपालो यद्यहं प्रिया” ॥
सूत उवाच ।“लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः ।आश्वासयन्नलक्ष्मीं तामिदं वाक्यमथाब्रवीत्” ॥
विष्णुरुवाच ।“अश्वत्थवृक्षमासाद्य सदालक्ष्मीः स्थिरा भव ।ममांशसम्भवो ह्येष आवासस्ते मया कृतः ॥
मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति ।अस्पृश्योऽसौ भवेत्तस्मात् मन्दवारं विना किल” ॥
इति पाद्मे उत्तरखण्डे १६१ अध्यायः ॥
२ ॥
वैशाखमासे तस्य सेचनफलं यथा, --“वैशाखे सिञ्चयेन्नित्यं विष्णुमश्वत्थरूपिणं ।चतुर्वर्गफलावाप्तिहेतवे वैष्णवो जनः ॥
गण्डूषमात्रतोयेन कूर्य्याद्योऽश्वत्थसेचनं ।सोऽपि याति परं स्थानं विमुक्तः पापकोटिभिः ॥
अश्वत्थमूलं विप्रर्षे यो बध्नाति शिलादिभिः ।अश्वत्थरूपी भगवान् किं तस्मै न हि यच्छति ॥
अश्वत्थद्रुममालोक्य प्रणामं कुरुते तु यः ।आयुर्वृद्धिर्भवेत्तस्य वर्द्धन्ते सर्वसम्पदः ॥
यथाश्वत्थतले बिप्र धर्म्मकर्म्म विधीयते ।न्यूनातिरिक्तता न स्यात्तस्मिन् कर्म्मणि जैमिने ॥
तत्र तीर्थानि सर्व्वाणि त्रिस्रोतादीनि जैमिने ।यत्राश्वत्थतरुस्तिष्ठेत् एकोऽपि शाखिनां वरः ॥
अश्वत्थपूजको यस्तु स एव हरिपूजकः ।अश्वत्थमूर्त्तिर्भगवान् स्वयमेव यतो द्विज ॥
तरुज्ञानाद्द्विजश्रेष्ठ योऽश्वत्थं हन्ति मूढधीः ।संसारे नास्ति तत्कर्म्म यत् कृत्वा स च शुध्यति ॥
अश्वत्थो वृक्षराजोऽयं हरिमूर्त्तिः प्रकीर्त्तितः ।तस्मादश्वत्थहन्तॄणां त्राता कोऽपि न विद्यते ॥
अश्वत्थं पश्यतो विप्र स्पृशतः स्मरतस्तथा ।देहस्थं पातकं तस्य हरेत् प्रणमतो हरिः ॥
विलोक्याश्वत्थहन्तारं यः शक्तो न निवारयेत् ।तन्नेत्रयुग्मं वडिशैर्यमेनोत्पाट्यते स्वयं ॥
अश्वत्थच्छेदनं मूढ मा कुर्विति वदेन्न यः ।तस्य जिह्वां छुरिकया स्वयं कृन्तति भास्करिः ॥
अश्वत्थशाखामेकां यः स्वल्पामपि निहन्ति यः ।स कोटिब्रह्यहत्यानां फलं प्राप्नोति मानवः ॥
यत्पापं ब्रह्महत्यायां गुरुस्त्रीगमने च यत् ।सुरापाने तथास्तेये न्यासापहरणे तथा ॥
यत्पापं भ्रूणहत्यायां गोहत्यायां द्विजोत्तम ।स्त्रीहत्यायाञ्च यत्पापं परस्त्रीगमने तथा ॥
शरणागतहत्यायां हत्यायां सुहृदां तथा ।विश्वासवाक्याकथने परहिंसाविधौ च यत् ॥
यत् पापं परनिन्दायां हरिवासरभोजने ।अश्वत्थच्छेदनाद्घोरं तत् पापं प्राप्यते जनैः ॥
विष्णुमूर्त्तेर्ज्जनो मोहादश्वत्थस्य निहन्ता यः ।तत्तुल्यः पातकी कोऽपि न श्रुतः क्षितिमण्डले ॥
वदाम्यश्वत्थमाहात्म्यं सर्व्वपापप्रणाशनं ।साक्षादेव स्वयं विष्णुरशत्थोऽखिलविश्वराट् ॥
तद्भक्तिं कुर्वतः पुंसो विद्यते नाशुभं क्वचित् ।अश्वत्थं सेवते यस्तु विष्णबुद्ध्या नरोत्तमः ॥
तस्य प्रसन्नो भगवान् ददाति परमं पदं” ।इति पाद्मे क्रियायोगसारे अश्वत्थसेचनं नाम११ अध्यायः ॥
(अस्थिररूपः संसारवृक्षः । यथा, गीतायाम् ।“ऊर्द्ध्वमुलमधःशाखमश्वत्थं प्राहुरव्ययम् ।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्” ॥
विस्तरस्तु गीतायाः पञ्चदशेऽध्याये द्रष्टव्यः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
