| YouTube Channel

अश्वतरः (azvataraH)

 
Apte Hindi
Hindi
अश्वतरः
पुं*
- अश्व+ष्टरच्
खच्चर
E Bharati Sampat
Sanskrit
(पुं.) तनुः न्यूनः अश्वः अश्व + ष्टरच् ‘वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे’ (५.३.९१) १. अश्वगर्दभमेलनात् जातः जातिविशेषः ‘हयानश्वतरानुष्ट्रास्तथैव सुरभेः सुतान्’ - रामा० २. नागविशेषः ‘ऎरावतो महापद्मः कम्बलाश्वतरावुभौ - महा.भा. ३. गन्धर्वविशेषः (स्त्री) अश्वतरी
Wordnet
Sanskrit
Synonyms:
अश्वतरः
noun
एकः गन्धर्वः।
"अश्वतरस्य वर्णनं हिन्दूनां धर्मग्रन्थेषु प्राप्यते।"
Synonyms:
अश्वतरः
noun
सर्पविशेषः।
"मार्गेः मृतः अश्वतरः आसीत्।"
Synonyms:
अश्वतरः, अश्वतरी, वेशरः, वेसरः, वेगसरः, खेसरः, प्रखरः, अतिभारगः, मयः, निघृश्वः
noun
गर्दभात् अश्वायां जातः शावकः पशुः।
"अश्वतरः भारवहनार्थे उपयुक्तः। "
शब्दकल्पद्रुमः
Sanskrit
अश्वतरः,
पुं,
स्त्री,
(तनुरश्वः वत्सोक्षाश्वर्षभेभ्यश्चतनुत्व इति ष्टरच् अश्वेनाश्वायामुत्कन्नोऽश्वः ।अश्वत्वं जातिः तत्सहचरितस्योक्तधर्म्मस्यतनुत्वं अन्यपितृकत्वात् ।) अश्वायां गर्द्दभेनजातः पशुविशेषः इति स्मृतिः खचर इतिभाषा
(“हयानश्वतरानुष्ट्रांस्तथैव सुरभेः सुतान्” ।इति रामायणे
“सकृद्दुष्टं हि यो मित्रं पुनः सन्धातुमिच्छति ।स मृत्युमुपगृह्णाति गर्भादश्वतरो यथा”
इति पञ्चतन्त्रे
)
अश्वतरः,
पुं,
वेगसरः नागराजविशेषः इतिमेदिनीं
(“कम्बलाश्वतरौ चापि नागकालीयकस्तथा” ।“ऐरावतो महापद्मः कम्बलाश्वतरावुभौ”
इति महाभारते
) गन्धर्व्वविशेषः पुंवत्सः ।इति धरणिः