| YouTube Channel

अश्वचेष्टित (azvaceSTita)

 
वाचस्पत्यम्
Sanskrit
अश्वचेष्टित
न०
त० वाजिचेष्टिते शुभाशुभसूचके शकुनभेदेच तद्विवृतिः वृ० स० यथा” उत्सर्गान्न शुभदमासनोपरिस्थंवामे ज्वलनमतोऽपरं प्रशस्तम् सर्वाङ्गज्वलनमवृष्टिटंहयानां द्वे वर्षे, दहनकणाश्च धूपनं वा अन्तःपुरं नाश-मुपैति मेढ्रे कोशः क्षयं यात्युदरे प्रदीप्ते पायौ पुच्छेच पराजयः स्याद् वक्त्रोत्तमाङ्गज्वलने जयश्च स्कन्धासनांसज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम् ललाट-वक्षोऽक्षिभुजेषु धूमः पराभवाय ज्वलनं जयाय नासापुट-प्रोथशिरोऽश्रुपातनेत्रेषु रात्रौ ज्वलनं जयाय पालाश-ताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम् ।प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना कम्पोवा वदनाच्च रक्तपतनं धूमस्य वा सम्भवः अस्वप्नश्च विरो-धिता निशि दिवा निद्रालसध्यानता सादोऽधोमुखताविचेष्टितमिदं नेष्टं स्मृतं वाजिनाम् आरोहणम-न्यवाजिनां पर्य्याणादियुतस्य वाजिनः उपवाह्यतुरङ्गमस्यवा ऽविकलस्यैव विपन्न शोभना क्रौञ्चवद्रिपुबधायहेषितं ग्रीवया त्वचलया सोन्मुखम् स्निग्धमुच्चमनु-नादि हृष्टवद् ग्रासरुद्धवदनैश्च वाजिभिः पूर्णपात्रदधि-विप्रदेवता गन्धपुष्पफलकाञ्चनादि वा द्रव्यमिष्टमथ वापरंभवेद्धेषतां यदि समीपतो जयः भक्ष्यपानसलिलाभि-नन्दिनः पत्युरौपयिकनन्दिनोऽथवा सव्यपार्श्वगतदृष्टयोऽथवा वाञ्छितार्थफलदास्तुरङ्गमाः वामैश्च पादैरभि-ताडयन्तो महीं प्रवासाय भवन्ति भर्तुः सन्ध्यासुदीप्तामवलोकयन्तो हेषन्ति चेद्बन्धपराजयाय अ-तीव हेषन्ति किरन्ति बालान् निद्रारताश्च प्रवदन्तियात्राम् रोमत्यजो दीनखरस्वराश्च पांशून् ग्रसन्तश्चभयाय दृष्टाः समुद्गवद्दक्षिणपार्श्वशायिनः पदं समुत्-क्षिप्य दक्षिणं स्थिताः जयाय शेषेष्वपि वाहनेष्विदंफलं यथासम्भवमादिशेद्बुधः आरोहति क्षितिपतौविनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रति हेषते वक्त्रेणवा स्पृशति दक्षिणमात्मपार्श्वं योऽश्वः भर्त्तुरचिरात्-प्रचिनोति लक्ष्मीम् मुहुर्मुहुर्मूत्रशकृत् करोति नताड्यमानोऽप्यनुलोमयायी अकार्य्यभीतोऽश्रुविलोचनश्चशुभं भर्त्तुस्तुरगोऽभिधत्ते”