| YouTube Channel

अश्लेषाशान्ति (azleSAzAnti)

 
वाचस्पत्यम्
Sanskrit
अश्लेषाशान्ति स्त्री अश्लेषाजनननिमित्ता शान्तिः शाक० त० ।अश्लेषाजनननिमित्तशान्तौ तत्र अश्लेषाजनने दोष-माह” ज्यो० त० “अश्विनीमघमूलानां गण्डाआद्यास्त्रिनाडिकाः अन्त्याः पौष्णोरगेन्द्राणां पञ्चैव यवनाः जगुः”मूलेन्द्रयोर्दिवा गण्डोनिशा पितृसर्पयोः सन्ध्याद्वयेतथा ज्ञेये रेवतीतुरगर्क्षयोः” सन्ध्यारात्रिदिवाभागेगण्डयोगोद्भवः शिशुः आत्मानं मातरं तातंवित्तं हन्ति यथाक्रमम् सर्वेषां गण्डजातानां परित्यागीविधीयते तातेनादर्शनं वापि यावत् षाण्मासिकोभवेत्” ज्यो० त० त्यागासामर्थ्ये षण्मासपर्य्यन्तं मुखं नपश्येत् शान्त्या सर्वत्र शुभम् त्रिपञ्चादिघटिकेत्युक्तिर्दोषबाहुल्यार्था वस्तुतः सर्वचरणेष्वेव दोषविशेषःयथाह नारदः “आद्ये पिता नाशमुपैति मूलपादेद्वितीये जननी तृतीये धनं चतुर्थेऽस्य शुभोऽस्य शान्त्यासर्वत्र तत्स्यादहिभे विलोमम्” सन्ध्यादिविशेषोक्ति-रधिकदोषार्था यथाह ज्योतिर्निबन्धः “मूलाश्विपित्र्यचरणे प्रथमे नूनं पौष्णोन्द्रयोश्च फणिनश्च तुरीयपादे ।मातुः पितुः स्ववपुषोश्च करोति नाशं जातो यदा निशि-दिनेऽप्यथ सन्ध्ययोर्वा” कन्यायां विशेषः विधानपारि-जाते “न बाला हन्ति मूलर्क्षे पितरं मातरं तथा ।मूलजा श्वशुरं हन्ति व्यालजा तदङ्गनाम् महेन्द्र-जाऽग्रजं हन्ति देवरन्तु द्विदेवजा शान्तिर्वा पुष्कला-स्याच्चेत्तर्हि दोषो कश्चन” द्विदेवजा अश्विनीजातातस्याः अश्विनीसुतदेवताकत्वेन तयोश्च द्वित्वात् तथात्वम् ।तच्छान्तिश्च “अश्लेषायान्तु जातानां शान्तिं वक्ष्याम्यतः परम्जातस्य द्वादशाहे शान्तिहोमं समाचरेत् विभवे पञ्चकुम्भांस्तु द्वयं वा तदश क्तितः” इत्यादिना मानवसंहितोक्ता ।सा विधानपारिजाते अश्लेषाशान्तिविधानप्रकरणेदृश्या तत्फलं मन्त्रलिङ्गात् ज्ञेयम् मन्त्रो यथा ।“अश्लेषाऋक्षजातस्य मातापित्रोर्धनस्य भ्रातृज्ञाति-कूलस्थानां दोषं सर्वं व्यपोहतु योऽसौ वागीश्वरो देवोह्यधिदेवो वृहस्पतिः मात्रापित्रोः शिशोश्चैव गण्डदोषंव्यपोहतु पितरं सर्वभूतानां रक्षन्तु पितरः सदा ।सर्पनक्षत्रजातस्य वित्तं ज्ञातिं बान्धवान्” वि० पा०पुरा०