| YouTube Channel

अश्रान्तः (azrAntaH)

 
E Bharati Sampat
Sanskrit
(वि) १. श्रान्तः श्रान्तिरहितः, २. विरामरहितः ‘अश्रान्तसन्ततिभिराभरणप्रकाशैः’ - याद. १९/३. ३. (न) श्रान्तम् (श्रान्तम् श्रमः - भावेक्तः) श्रान्तिहीनता ४. नास्ति श्रान्तं श्रमः यत्र निरन्तरम्, सततम् ‘सततानारताश्रान्तसन्तताविरतानिशम्’ - अमरः
शब्दकल्पद्रुमः
Sanskrit
अश्रान्तः, त्रि, श्रमरहितः यथा “अश्रान्तश्रुति-पाठपूतरसनाविर्भूतभूरिस्तवा जिह्मब्रह्ममुखौघ-विघ्नितनवस्वर्गक्रियाकेलिना पूर्व्वं गाधिसुतेनसाभिघटिता मुक्तानु मन्दाकिनी यत् प्रासाददु-कूलवल्लिरनिलान्दोलैरखेलद्दिवि”
इति नैषधे१ स्वर्गः