| YouTube Channel

अशौचसङ्कर (azaucasaGkara)

 
Shabdartha Kaustubha
Kannada
अशौचसङ्कर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜನನ ಮತ್ತು ಮರಣಶೌಚಗಳ ಮಧ್ಯೆ ಮತ್ತೊಂದು ಅಶೌಚವು ಬರುವುದು
वाचस्पत्यम्
Sanskrit
अशौचसङ्कर अशौचयीः सङ्करः जननमरणाशौचयोर्मध्ये पुनर्जननामरणाशौचयोः पातेन जनिते अशौच-विशेषे तत्कालभेदो यथा जननाशौचमध्ये जनना-शौचान्तरपाते पूर्व्वाशौचकालेन शुद्धिः पूर्णाशौ-चान्त्यदिने पूर्णाशौचान्तरपाते अन्तिमदिनोत्तरदिनद्वयेनशुद्धिः अन्तिमदिवसोत्तरप्रभाते सूर्य्योदयात् पूर्व्वं तत्-पाते सूर्य्योदयावधिदिनत्रयेण शुद्धिः एवं मरणाशौचेऽपि ।वर्द्धितदिनद्वयत्नयाभ्यन्तरे अशौचान्तरपाते पूर्व्वैणैवशुद्धिः अशौचत्रितयान्तकृत्यमेकदैव तद्द्वितीयदिनकृत्यंतत्परदिने अत्र दशमदिनतत्प्रभातयोः पितृमातृभर्त्तृमरणे तु दिनद्वयत्रयाच्छुद्धिः किन्तु स्वावध्येव सम्पूर्णा-शौचमिति ज्ञातिजननाशौचमध्ये स्वपुत्रजनने पूर्व्वार्द्धेपूर्व्वेण, परार्द्धे परेण शुद्धिः एवं ज्ञातिमरणमध्ये पितृमा-तृभर्त्रृमरणे पूर्व्वार्द्धे पूर्व्वाशौचकालेन, परार्द्धेपित्राद्यशौच-कालेन शुद्धिः स्वपुत्त्रजननाशौचान्तिमदिनतत्प्रभातयोर्ज्ञाति-जनने, पितृमातृभर्त्तृमरणाशौचान्तिमदिनतत् प्रभातयोर्ज्ञा-तिमरणेऽपि दिनद्वयत्रयवृद्धिः स्वपुत्त्रयोस्तु तथा जननेमातापित्त्रोस्तुतथा मरणे द्विनद्वयत्रयवृद्धिः जनना-शौचयोस्तु सन्निपाते पूर्व्वार्द्धे जातोयदाऽशौचाभ्यन्तरेमृतस्तदा सपिण्डानां सद्यः शौचेन पूर्व्वाशौचस्य नाशः तन्ना-शादेव परार्द्धजातमातापितृव्यतिरिक्तानां परजननाशौचस्यनिवृत्तिः परजातमरणे तु तथा तस्य पूर्वजननावधि-स्थायित्वादिति गुरुचरणाः एवं द्वितीयजातस्य पित्रोस्तुपूर्व्वार्द्धजातमरणे पूर्व्वाशौचकालावधि अङ्गास्पृश्यत्वयुक्त-मशौचं, परार्द्ध जातमरणे तु स्वावधिजननाशौचमङ्गास्पृ-श्यत्वयुक्तमिति औत्सर्गिकसमसंख्यदिवसीयजननमरणा-शौचयोः सन्निपाते मरणाशौचकालेन शुद्धिः तदन्यकालयोस्तु दीर्घकालाशौचकालेन शुद्धिः ततश्च पुत्त्रवत्याविं-शतिरात्राशौचान्त्यदिने पत्युर्मरणे बहुकालेन जननाशौ-चकालेन शुद्धिः तथा सपिण्डद्वयजननजातद्वादशा-हान्त्यदिने पितृमातृभर्त्तृमरणेऽपि बहुकालीनाशौचकालेनशुद्धिः प्रथमदिने सपिण्डमरणद्वये यावदशौचं सर्वगो-त्रास्पृश्यत्वयुक्तम् एवं प्रथमाहे सकुल्यद्वयरणेऽङ्गास्पृ-श्यत्वयुक्तं त्रिरात्रम् तेनैतत् त्रिरात्रं गुरु विदेशम-रणादौ त्रिरात्रंतु लघु स्नानेनैवाङ्गास्पृश्यत्वनिवृत्तेः ।ततश्चोभयोः सन्निपाते गुरुणैव शुद्धिः एवं विदेशस्थमृत-ज्ञातित्रिरात्राद्विदेशस्थमृतपितृमातृभर्त्तृत्रिरात्रं गुरु ।संपूर्णाशौचे तु अशक्तानामपि यावदशौचमक्षारलवणा-शित्वदर्शनात् अत्रापि तावत्कालं तथासिद्धत्वा-त्तत्रापि गुरुणैव शुद्धिः तुल्यत्रिरात्रयोस्तु सन्निपातेपूर्व्वेणैव शुद्धिः तथा कन्यापुत्त्रयमजोत्पत्तौ मातु-र्मासेन शुद्धिः तयोरशौचमध्ये मातुः कन्यामरणे सद्यःशुद्धिर्न पुत्त्रमरणात्, अन्येषान्तु प्रथमजातमरणात् शुद्धिः ।न परजातमरणात् एवमन्यद्भाव्यं सुधीमिः” शुद्धितत्त्वम्