अशौच (azauca)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishअशौच - azauca - - contamination
अशौच - azauca - - defilement
अशौच - azauca - - uncleanness
अशौच - azauca - - impurity
अशौच - azauca - - uncleanness
त्रिमल - trimala - - affected by 3 kinds of uncleanness
अघोदक - aghodaka - - daily bath during the period of uncleanness
Wilson
EnglishApte
Englishअशौचम् [aśaucam], 1 Impurity, dirtiness, foulness
1.195.
Legal impurity or contamination
defilement caused either by child-birth (called जननाशौच) or by the death of some relation (called मृताशौच)
it lasts for 1 days
during the मृताशौच a person defiled by it is not to touch anybody else, or to eat with others in the 'same row or to do any sacred action
अहोरात्रमुपासी- रन्नशौचं बान्धवैः सह 11.183. -अन्तः end of defilement. -संकरः blending or coming together of two or more defilements.
Apte 1890
Englishअशौचं 1 Impurity, dirtiness, foulness
Pt. 1. 195.
2 Legal impurity or contamination
defilement caused either by child-birth (called जननाशौच) or by the death of some relation (called मृताशौच)
it lasts for 10 days
during the मृताशौच a person defiled by it is not to touch any body else, or to eat with others in the same row or to do any sacred action
अहोरात्रमुपासीरन्नशौचं बांधवैः सह Ms. 11. 184.
Comp.
अंतः end of defilement.
संकरः blending or coming together of two or more defilements.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiअशौचम्
- -
"पवित्रता, मैलापन, मलिनता"
अशौचम्
- -
"सूतक, पातक"
Shabdartha Kaustubha
Kannadaअशौच
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಶುಚಿ /ಅಪವಿತ್ರತೆ
अशौच
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಶೌಚ /ಮೈಲಿಗೆ /ಸೂತಕ
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritअशौचं, (शुचेः पवित्रताया भावः शौचं ततो तञ्-तत्पुरुषः ।) शुचित्वाभावः । स्मृतौ तु । वैदिककर्म्मा-नर्हत्वप्रयोजकीभूतसंस्कारविशेषः । यथा । वैदि-ककर्म्मानर्हत्वप्रयोजकसंस्कारविशेषरूपमशौचं ।वैदिककर्म्मार्हत्वप्रयोजकसंस्काररूपं शौचं । नचाशौचाभाव एव शुद्धिर्नसंस्कारविशेष इतिवाच्यं । अघानां यौगपद्येत्विति न वर्द्धयेदघानिइत्येताभ्यामशौचे पापपर्य्यायाघपदप्रदर्शनात्अशौचपदस्य यथांभावरूपत्वं । तथा, --“देवाश्च पितरश्चैव पुत्त्रे जाते द्विजन्मनां ।आयान्ति तस्मात्तदहः पुण्यं षष्ठञ्च सर्व्वदा” ॥
इत्यादित्यपुराणीयेन शौचे पुण्यपददर्शनात्शौचस्यांपि भावरूपता प्रतीयते । इति शुद्धि-तत्त्वं ॥
* ॥
मन्त्रदगुरुमरणे अशौचं यथा, --“गृहीतो देवतामन्त्रः सावित्रीग्रहणं कृतं ।यस्मात्तस्य त्रिरात्रन्तु ब्रह्मविद्याग्रहो यतः ॥
उपनीयाध्यापको यस्तस्मिन्नपि त्रिरात्रकं ।वेदवेदाङ्गशास्त्राणां व्याख्यानं शिक्षितं यतः ॥
ज्ञानं प्रतिष्ठितं येन वेदाभ्यासो यतः कृतः ।तस्मिन्मृते चैकरात्रं गुरौ शिष्ये तथैव च ॥
”इति मत्स्यसूक्ते महातन्त्रे ३५ पटलः ॥
अपि च ।“गुरावुपरते चैव त्र्यहाणि शिष्यसन्ततौ” ।इति विज्ञानतन्त्रं ॥
* ॥
अन्यत् पूर्व्वलिखितं ।विहितकर्म्मविरोध्यदृष्टविशेषः । तदनेकविधं तत्रशुद्धितत्त्वोक्ताशौचानि संगृह्यन्ते ॥
अथ सपिण्डाद्यशौचं १ ॥
जनने मरणे च सप्तमपुरुषपर्य्यन्तं सम्पूर्णाशौचं ।तच्च विप्रस्य दशाहः क्षत्रियस्य द्वादशाहः ।वैश्यस्य पञ्चदशाहः । शूद्रस्य मासः ॥
(यथाहमनुः ।“शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति” ॥
)जनने मरणे च दशमपुरुषपर्य्यन्तं सर्व्वेषां वर्णानांत्र्यहः । चतुर्द्दशपुरुषपर्य्यन्तं पक्षिणी ॥
जनने मरणे च जन्मनामस्मृतिपर्य्यन्तं सर्व्ववर्णाना-मेकाहः ॥
जन्मनामस्मृतेरभावे स्नानमात्रं ॥
अशौचं प्रति कन्यायास्त्रिपुरुषं सापिण्डं ॥
माता-महमरणे सर्व्वेषां वर्णानां त्रिरात्रं ॥
मातृष्वस्रीय-पितृष्वस्रीय-मातुलपुत्त्र-भागिनेय-मरणे सर्व्ववर्णानां पक्षिणी ॥
पितामहभगिनीपुत्त्र -- पितामहीभगिनीपुत्त्र -- पि-तामहीभ्रातृपुत्त्ररूप-पितृबान्धवत्रयमरणे सर्व्वव-र्णानां पक्षिणी ॥
मातामहभगिनीपुत्त्र-मातामहीभगिनीपुत्त्र-मा-तामहीभ्रातृपुत्त्ररूप-मातृबान्धवत्रयमरणे सर्व्व-वर्णानामहोरात्रं ॥
एकग्रामवासिस्वगोत्रजमरणे सर्व्ववर्णानामहो-रात्रं ॥
औरसव्यतिरिक्तपुत्त्रजननमरणयोःपरपूर्व्वभार्य्या-प्रसवमरणयोश्च सर्व्ववर्णानां त्रिरात्रं ॥
आचार्य्यमरणे ब्राह्मणादिवर्णत्रयाणां त्रिरात्रं ॥
समानजातीयोत्कृष्टजातीयपुरुषान्तर-संगृहीत-स्वभार्य्यामरणे सर्व्वेषां त्रिरात्रं ॥
हीनवर्णोपभुक्ता-मरणे तु नाशौचं ॥
भगिनीपुत्त्रगृहे मातृष्वसुर्भ्रातृपुत्त्रगृहे पितृ-ष्वसुः पैतृष्वस्रीयगृहे मातुलपुत्त्रस्य जामातृगृहेश्वश्रूश्वशुरयोम्मरणे भगिनीपुत्त्रादिचतुर्णां त्रि-रात्रं ॥
श्वश्रूश्वशुरयोः सन्निधिमरणे सर्व्ववर्णानां त्रि-रात्रं ॥
श्वश्रूश्वशुरयोरेकग्रामस्थितयोर्म्मरणे स-र्व्वेषां पक्षिणी ॥
श्वश्रूश्वशुरयोर्भिन्नग्राममरणे सर्व्वेषामहोरात्रं ॥
भगिनी-मातुलानी-मातुल-पितृष्वसृ-मातृष्वसृ-गुर्व्वङ्गना-मातामही-मरणे सर्व्वेषां पक्षिणी ॥
आचार्य्यपत्नीपुत्त्रयोरुपाध्यायस्य मातृवैमात्रेयस्यश्यालकस्य सहाध्यायिनः शिष्यस्य च मरणे सर्व्व-वर्णानामहोरात्रं ॥
मातृष्वसृपुत्त्र-पितृष्वसृपुत्त्र-मातुलपुत्त्ररूपात्मबान्धवत्रयमरणे सर्व्ववर्णानांपक्षिणी ॥
(तथा च मनुः --“मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च” ।प्रथममन्येनोढा तेनैव जनितपुत्त्रा पुत्त्रसहितै-वान्यमाश्रिता पश्चात्तेनापि जनितपुत्रा तयोःपुत्त्रयोर्यथासम्भवं प्रसवमरणयोर्द्वितीयपुत्रपितु-स्त्रिरात्रं । तत्सपिण्डानामेकरात्रं । तद्द्वितीय-पितुर्म्मरणे तथाविधपुत्त्रयोरपि त्रिरात्रं । तथा-विधपुत्त्रयोः परस्परप्रसवमरणयोर्म्मातृजात्यु-क्ताशौचं ॥
दौहित्रमरणे सर्व्वेषां वर्णानां पक्षिणी ॥
पितृमातृमरणे ऊढानां कन्यानां त्रिरात्रं ॥
यदिमातुलमातृष्वसृपितृष्वसृप्रभृतीनां दहनवहनंकरोति तदा सर्व्वेषां वर्णानां त्रिरात्रं ॥
मातामहादीनां त्रिरात्राभ्यन्तरं मरणश्रवणेतच्छेषेण शुद्धिः । तत्कालोत्तरश्रवणे तु नाशौचं ।किन्त्वाचारात् स्नानमात्रं ॥
अथ बालाद्यशौचं ॥
२नवमादिमासजातबालस्याशौचकालाभ्यन्तरे मर-णे मातापित्रोरस्पृश्यत्वं युक्तं तदेव स्वजात्युक्त-जननाशौचं ॥
ज्ञातीनान्त्वशौचं नास्ति ॥
नवमादिमासमृतजातयोः कन्यापुत्त्रयोः पित्रा-दिसपिण्डानां मातुश्च जननाशौचं ॥
तच्च ब्राह्म-णानां दशाहं शूद्राणां मासः ॥
पुत्त्रजन्मनि पितुःसचेलं स्नानं । पुत्त्रमुखदर्शनात्परं पुनः सचेल-स्नानं ॥
(तथाच संवर्त्तः, --“जाते पुत्त्रे पितुः स्नानं सचेलं तु विधीयते ।माता शुध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः” ॥
)पुत्त्रकन्याजनने ब्राह्मण्या दशाहानन्तरं लौकिक-कर्म्माधिकारः ।पुत्त्रजनने ब्राह्मण्या विंशतिरात्रोत्तरस्नानात्वैदिककर्म्माधिकारः ।कन्याजनने ब्राह्मण्या मासोत्तरस्नानात् वैदिक-कर्म्माधिकारः ॥
शूद्रायाः कन्यापुत्त्रजनने त्रयोदशाहोत्तरं लौकिक-कर्म्माधिकारः । वैदिककर्म्मणि तु मासोत्तर-स्नानात् शुद्धिः ॥
एतत् सर्व्वं कन्यापुत्त्रयोर्विद्यमानत्वे बोध्यं ॥
जननाशौचोत्तरं षण्मासाभ्यन्तरमजातदन्तमरणेमातापित्रोरेकाहः । सपिण्डानान्तु सद्यः शौचं ॥
षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणे माता-पित्रोस्त्र्यहः । सपिण्डानामेकाहः ॥
षण्मासो-परि द्विवर्षपर्य्यन्तं बालकमरणे मातापित्रोस्त्र्यहः ।सपिण्डानामकृतचूडे एकाहः । कृतचूडे त्र्यहः ॥
(अत्र मनुः, --“नॄणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ।निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥
ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा वहिः ।अलङ्कृत्य शुचौ भूमावस्थिसञ्चयनादृते ॥
नास्य कार्य्योऽग्निसंस्कारो न च कार्य्योदकक्रिया ।अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस्त्र्यहमेव वा ॥
”)द्विवर्षोपरि मासत्रयाधिकषड्वर्षपर्य्यन्तमनुपनीत-बालकस्य मरणे मातापित्रादिसपिण्डानां त्र्यहः ॥
तन्मध्येऽप्युपनीतस्य मरणे दशाहः । मास-त्रयाधिकषड्वर्षोपरि मरणे पित्रादिसपिण्डानांदशाहः ॥
शूद्रस्य षण्मासाभ्यन्तरे अनुत्पन्नदन्तस्य मरणेत्रिरात्रं । उत्पन्नदन्तस्य पञ्चाहः ॥
षण्मासोपरिद्विवर्षाभ्यन्तरे अकृतचूडमरणे पञ्चाहः । तत्रापिकृतचूडमरणे द्वादशाहः ॥
द्विवर्षोपरि षड्वर्षा-भ्यन्तरे मरणे द्वादशाहः । अत्रापि दैवात् कृतो-द्वाहे मासो व्यवह्रियते ॥
षड्वर्षोपरि मासः ॥
अथ स्त्र्यशौचं ॥
३कन्याया जन्मावधिद्विवर्षाभ्यन्तरे मरणे सर्व्व-वर्णानां पित्रादिसपिण्डानां सद्यः शौचं । द्विव-र्षोपरि वाग्दानपर्य्यन्तमेकाहः ॥
वाग्दानोत्तरं विवाहपर्य्यन्तं कन्यामरणे भर्तृकुलेपितृकुले च त्रिरात्रं(“स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः” ।इति मनुः ।)विवाहोत्तरं मरणे भर्तृकुलएव सम्पूर्णाशौचं ॥
दन्तजन्मपर्य्यन्तं भगिनीमरणे सोदरभ्रातुः सद्यःशौचं ॥
चूडापर्य्यन्तं भगिनीमरणे एकरात्रं । विवाह-पर्य्यन्तं त्रिरात्रं ॥
दत्तकन्यायाः पितृगृहे प्रसवमरणयोः पित्रोःशयनासनादिसंसर्गशून्ययोस्त्रिरात्रं । तथाविधब-न्धुवर्गाणां एकरात्रं । तथाविधसंसर्गिणान्तुसर्व्वेषां पूर्णाशौचं ॥
एतत्सर्व्वं सर्व्ववर्णसाधारणं ॥
अथ गर्भस्रावाशौचं ॥
४षण्मासाभ्यन्तरे गर्भस्रावे सर्व्ववर्णस्त्रीणामेवा-शौचं । तच्च लौकिकवैदिककर्म्मणोर्गर्भमाससम-सङ्ख्यदिनव्यापकं ॥
(“रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति” ॥
इति मनुः ।)द्वितीयमासावधिगर्भस्रावे माससमसङ्ख्यदिनाधि-कादेकदिनात्परं ब्राह्मण्या वैदिककर्म्माधिकारः ॥
क्षत्रियाया गर्भमाससमसङ्ख्यदिनाधिकात् दिन-द्वयात् । वैश्याया दिनत्रयात् । शूद्रायाः षड्-दिनात् ॥
सप्तमाष्टममासयोर्गर्भपतने मातुः सम्पूर्णाशौचं ।सगुणसपिण्डानां सद्यः शौचं । निर्गुणपित्रादि-सपिण्डानामहोरात्रं । यथेष्टाचरणशीलानां सपि-ण्डानां त्रिरात्रं तत्र जातस्य तद्दिनएव मरणेएवं ज्ञेयं ॥
सप्तमाष्टममासजातबालस्य जन्मद्वि-तीयदिनादौ मरणे नवमादिमासजातबालक-मरणवदशौचं । तच्च बालाद्यशौचे विवृतं ॥
अथ मृत्युविशेषाशौचं ॥
५शास्त्राननुमतबुद्धिपूर्व्वकात्मघातिनो नाशौचदा-हश्राद्धादि ॥
शास्त्रानुमत्या अनशनादिमृतस्य प्रमादादनशना-शनि-वह्नि-जलोच्चदेशप्रपतन-संग्राम-शृङ्गि-दंष्ट्रि-नखि-व्याल-विष-चण्डाल-चौर-हतस्य च त्रिरात्रं ॥
शृङ्ग्यादिभिः स्त्रिया च क्रीडां कुर्व्वतः प्रमदा-प्रमादमृतस्य नाशौचादि ॥
नागविप्रियकारित्वेनतद्धतस्य मरणोद्देशप्रवृत्तविद्युद्धतस्य चौर्य्यदो-षेण राज्ञा हतस्य कलहं कृत्वा चाण्डालाद्यै-रसमानवर्णैर्हतस्य विप्रादेर्व्याधिजनकौषधस्यविषस्य वह्नेश्च वा दातुर्म्मरणे पाषण्डाश्रितस्य नित्यपरापकारिणः क्रोधात् स्वयं प्रायविषवह्न्यादि-शस्त्रोद्बन्धन-जल-गिरि-वृक्षप्रपात-मृतस्य चर्म्मा-स्थ्यादिमयपात्रनिर्म्मातृविप्रादेर्म्मनुष्यबधस्थानाधि-कारिणः कण्ठदेशोत्पन्नभगरोगस्य पुंकर्म्माशक्त-नपुंसकस्य ब्राह्मणविषयापराधकरणान्निहतस्यबुद्धिपूर्व्वकब्राह्मणहतस्य च महापातकिनो गलत्-कुष्ठिनश्च एवंविधपतितानां मरणे च न दाहा-शौचादिकं कार्य्यं ॥
तत्कृत्वा तप्तकृच्छ्रद्वयं कुर्य्यात् ॥
(अत्र मनुः, --“वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् ।आत्मनस्त्यागिनाञ्चैव निवर्त्तेतोदकक्रिया ॥
पाषण्डमाश्रितानाञ्च चरन्तीनाञ्च कामतः ।गर्भभर्तृद्रुहाञ्चैव सुरापीनाञ्च योषितां” ॥
इति ।) म्लेच्छतस्करादिभिर्युद्धे स्वाम्यर्थहतवि-प्रादेर्दाहाशौचादिकमस्त्येव ॥
कृतप्रायश्चित्तगलत्कुष्ठिनो दाहाशौचादिकं कार्य्यं ॥
शस्त्रेणाभिमुखहतस्य तु सद्यःशौचं दाहादि च ॥
गवार्थे ब्राह्मणार्थे वा दण्डेन युद्धे हतस्याहोरात्र-मशौचं ॥
मृपतिरहितयुद्धे लगुडादिहतस्य पराङ्मुख-हतस्य च त्रिरात्राशौचं ॥
गोविप्रपालनेऽभिमुखयुद्धहतस्य सद्यः शौचंपराङ्मुखहतस्य तु त्रिरात्रं ॥
लौकिकपारिभाषिकोभयशस्त्रघातेतरक्षतमरणेसर्व्ववर्णानां सप्ताहमध्ये त्र्यहं सप्ताहादूर्द्धं सम्पूर्णा-शौचं ॥
लौकिकपारिभाषिकशस्त्रघातमरणे त्र्यहमध्येत्र्यहं त्र्यहादूर्द्ध्वं प्रकृताशौचं ॥
लौकिकशस्त्रघातः खङ्गशरादिघातः ॥
पारि-भाषिकशस्त्रघातस्तु ।“पक्षिमत्स्यमृगैर्ये तु दंष्ट्रिशृङ्गिनखैर्हताः ।पतनानशनप्रायैर्व्वज्राग्निविषबन्धनैः ॥
मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः” ॥
इति देवीपुराणोक्तः ॥
अथ विदेशस्थाशौचं ॥
६अशौचकालाभ्यन्तरे विदेशस्थजननमरणाशौच-श्रवणे शेषाहोभिः शुद्धिः ॥
(“विगतं तु विदेशस्थं शृणुयात् यो ह्यनिर्द्दशं ।यच्छेशं दशरात्रस्य तावदेवाशुचिर्भवेत्” ॥
इति मनुः ।)अशौचकालोत्तरं विदेशस्थज्ञातिजननश्रवणे-ऽशौचं नास्त्येव । पुत्त्रजननश्रवणे तु सचेलस्नानात्शुद्धिः ॥
(अत्र मनुराह ।“निर्दशं ज्ञातिमरणं श्रुत्वा पुत्त्रस्य जन्म च ।सवासा जलमाप्लुत्य शुद्धो भवति मानवः” ॥
)सम्पूर्णाशौचिमरणे वर्षाभ्यन्तरश्रवणे सपिण्डानांत्रिरात्रेण शुद्धिः । सचेलस्नानाद्गास्पृश्यत्व-निवृत्तिः । वर्षोत्तरश्रवणे तु सपिण्डानां स्नानेनशुद्धिः ॥
(अत्र मनुः ।“अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् ।संवत्सरे ब्यतीते तु स्पृष्ट्वैवापो विशुध्यति” ॥
)मातृ-पितृ-भर्तृ-मरणे वर्षोत्तरश्रवणे पुत्त्रपत्न्यो-रेकाहेन शुद्धिः ॥
द्विवर्षोत्तरश्रवणे स्नानमात्रं ॥
पूर्णाशौचातिक्रमएव विदेशस्थमरणाशौचश्रवणेत्र्यहाशौचं । न खण्डाशौचातिक्रमे ॥
यत्र मरण-मात्रं श्रुतं विशिष्य मासादिकमज्ञातं तत्र श्रवण-दिनावधिस्वजात्युक्तमशौचं । खण्डाशौचेऽपिमहागुरुनिपाते एकरात्रं ॥
अथाशौचसङ्करः ॥
७जननाशौचमध्ये जननाशौचान्तरपाते मरणा-शौचमध्ये मरणाशौचान्तरपाते च पूर्व्वाशौच-कालेन सर्व्ववर्णानां शुद्धिः ॥
(यथाह मनुः --“अन्तर्दशाहे स्याताञ्चेत् पुनर्मरणजन्मनी ।तावत्स्यादशुचिर्विप्री यावत्तत्स्यादनिर्दशं” ॥
)पूर्णजननाशौचान्तदिने पूर्णजननाशौचान्तरपातेपूर्णमरणाशौचान्तदिने पूर्णमरणाशौचान्तरपातेच पूर्णाशौचान्तिमदिनोत्तरदिनद्वयेन शुद्धिः ॥
पूर्णजननाशौचान्तिमदिवसीयोत्तरप्रभाते सूर्य्यो-दयात् पूर्व्वं तत्पाते सूर्य्योदयावधिदिनत्रयेणशुद्धिः ॥
एवं मरणाशौचेऽपि ॥
पूर्व्वाक्तवर्द्धितदिनद्वयत्रयाभ्यन्तरेऽशौचान्तरपातेपूर्व्वाशौचकालेन शुद्धिः ॥
अशौचत्रितयान्तदिनकृत्यं क्षौरादिकमेकदैवतद्द्वितीयदिनकृत्यं श्राद्धादिकं तत्परदिने ॥
अत्र च अशौचान्तिमदिनतत्प्रभातयोः स्वपुत्त्र-जनने पितृमातृभर्तृमरणे च न दिनद्वयत्रय-वृद्धिः । किन्तु स्वपुत्त्रजननावधि पितृमातृभर्तृ-मरणावधि च पूर्णाशौचं ॥
ज्ञातिजननाशौच-पूर्व्वर्द्धे स्वपुत्त्रजनने ज्ञातिजननाशौचकालेनशुद्धिः ॥
परार्द्धे चेत् स्वपुत्त्रजननाशौचकालेनशुद्धिः ॥
ज्ञातिमरणाशौचकालमध्ये पितृमातृभर्तृमरणेपूर्व्वार्द्धे पूर्व्वाशौचकालेन परार्द्धे पराशौचकालेनशुद्धिः ॥
स्वपुत्त्रजननाशौचान्तिमदिनतत्प्रभातयोर्ज्ञाति-जनने पितृमातृभर्तृमरणाशौचान्तिमदिनतत्प्रभा-तयोर्ज्ञातिमरणेऽपि न दिनद्वयत्रयवृद्धिः । कि-न्तु पूर्व्वाशौचकालेन शुद्धिः ॥
स्वपुत्त्रजननाशौचान्तिमदिनतत्प्रभातयोः स्वपुत्त्रा-न्तरजनने एवं मातृमरणाशौचान्तिमदिनतत्प्रभा-तयोः पितृमरणे पितृमरणाशौचान्तिमदिनतत्प्र-भातयोर्म्मातृमरणे च क्रमेण दिनद्वयत्रयवृद्धिः ॥
जननाशौचद्वयसन्निपाते पूर्व्वजातो यदाशौचका-लाभ्यन्तरे मृतस्तदा सपिण्डानां सद्यःशौचेनपूर्व्वाशौचनाशः ॥
तन्नाशादेव परार्द्धजातबालस्यमातृपितृव्यतिरिक्तसपिण्डानां पूर्व्वार्द्धजातबालस्यमातापित्रादिसकलसपिण्डानां परजननाशौचस्यनिवृत्तिः ॥
पूर्व्वजातबालस्य मातापित्रोस्त्वस्पृ-श्यत्वयुक्तस्वस्वजात्युक्तजननाशौचं ॥
जननाशौच-द्वयसन्निपाते प्रथमजननाशौचपूर्व्वार्द्धजातबाल-मरणे तन्मातापित्रोः पूर्व्वाशौचकालपर्य्यन्तंअङ्गास्पृश्यत्वयुक्तमशौचं ॥
परार्द्धजातबालमरणेतु तज्जननावधि तन्मातापित्रोरङ्गास्पृश्यत्वयुक्तस्व-जात्युक्तजननाशौचं । विशेषातिरिक्तसमसंख्यदि-वसीयजननमरणाशौचयोः सन्निपाते मरणाशौच-कालेन शुद्धिः । असमसंख्यदिवसीयजननमरणा-शौचयोः सन्निपाते तु दीर्घशौचकालेन शुद्धिः ॥
शूद्रेतरायाः पुत्त्रजननप्रयुक्तविंशतिरात्राशौचा-भ्यन्तरे पत्युर्म्मरणेऽपि पुत्त्रजननाशौचकालेनशुद्धिः ॥
पूर्व्वोक्तसपिण्डद्वयजननवर्द्धिताशौचमध्येपितृमातृ-भर्तृमरणेऽपि वर्द्धितसपिण्डद्वयजननाशौचकालेनशुद्धिः । एकाहे पूर्णाशौचिसपिण्डद्वयमरणे या-वदशौचं तावत् सर्व्वसपिण्डानामस्पृश्यत्वं ॥
सकुल्यपर्य्यायसमानोदकमरणे विद्युदादिमरणे-ऽपि अशौचं त्रिरात्रं । अङ्गास्पृश्यत्वमेकरात्रं ।तेनैतत् त्रिरात्रद्वयं गुरु ॥
विदेशस्थमरणे अर्थात्अशौचमध्ये अश्रुतसपिण्डमरणे त्रिरात्राशौचंअङ्गान्स्पृश्यत्वस्नानापनेयं । अतस्तल्लघु । एषां स-न्निपाते गुरुणैव शुद्धिः ॥
विदेशमृतज्ञातित्रिरात्राशौचस्य लघुनः विदेश-मृतपितृमातृभर्तृत्रिरात्राशौचेन शुद्धिः ॥
तुल्यत्रिरात्राशौचसन्निपाते पूर्व्वेणैव शुद्धिः ॥
कन्यापुत्त्रयमजोत्पत्तौ सर्ववर्णाया मातुर्म्मासेनशुद्धिः पित्रादिसपिण्डानां स्वजात्युक्ताशौचं ॥
तयोरशौचमध्ये एकतरमरणे शूद्राभिन्नमातुःकन्यामरणात् सद्यः शुद्धिः । न तु पुत्त्रमरणात् ॥
पित्रादिसपिण्डानान्तु प्रथमजातमरणात् शुद्धिः ।न तु परजातमरणात् ॥
शूद्राया यमजोत्पत्तौप्रथमजातमरणाशौचेन शुद्धिः । न तु परजात-मरणात् ॥
पित्रादिसपिण्डानान्तु प्रथमजातमर-णात् शुद्धिः न तु परजातमरणात् ॥
एवमन्य-द्भाव्यं सुधीभिः ॥
अथ शवानुगमनाद्यशौचं ॥
८ब्राह्मणशवानुगमने ब्राह्मणस्य सचेलस्नानाग्नि-स्पर्शघृतप्राशनैः शुद्धिः ॥
क्षत्त्रियशवानुगमने ब्राह्मणस्य एकाहेन शुद्धिः ॥
वैश्यशवानुगमने ब्राह्मणस्य द्व्यहेन शुद्धिः ॥
शूद्र-शवानुगमने ब्राह्मणस्य प्राणायामशतेन दिन-त्रयेण च शुद्धिः ॥
प्रमादात् शूद्रशवानुगमने ब्राह्मणस्य जलावगाह-नाग्निस्पर्शघृतप्राशनैः शुद्धिः ॥
अनाथब्राह्मणस्य धर्म्मबुद्ध्या दहनवहनयोः स्नान-घृतप्राशनाभ्यां सद्यः शौचं ॥
लोभेन सजातीयदाहे स्वस्वजात्युक्ताशौचं ॥
असजातीयशवदहनवहनस्पर्शैः शवजात्युक्ताशौचं ॥
स्नेहादसम्बन्धिदाहकविप्रादेस्तद्गृहवासे त्रिरात्रं ।अशौचिकुलान्नभोजने तत्तुल्याशौचं ॥
अशौ-चान्नभोजनं विना तद्गृहवासेऽहोरात्रं ॥
विशेषवचनाभावे सम्बन्धिनो मातुलादेरस्नेहे-नापि दाहे त्रिरात्रं ॥
चिताधूमसेवने स्नानात् शुद्धिः ॥
(यथाह मनुः ।“असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥
यदन्नमत्ति तेषां तु दशाहेनैव शुध्यति ।अनदन्नन्नमह्नैव स चेत् तस्मिन् गृहे वसेत् ॥
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा ।स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति” ॥
)शूद्रे मृतेऽस्थिसञ्चयनकालाभ्यन्तरे तद्गृहं गत्वा-श्रुनिपातेन विप्रस्य त्रिरात्रं ॥
स्थानान्तरेऽश्रुपा-तनेऽहोरात्रं ॥
शूद्रे मृतेऽस्थिसञ्चयनकालादूद्ध्वं मासाभ्यन्तरे तद्-गृहेऽश्रुपातने विप्रस्याहोरात्रं सचेस्नानञ्च ॥
अस्थिसञ्चयनात् पूर्व्वं विप्रगृहे रोदने विप्रस्यएकाहेन शुद्धिः ॥
क्षत्रवैश्ययोर्गृहे रोदने विप्रस्य द्व्यहेन शुद्धिः ॥
शूद्रस्तु सर्व्वत्र रोदने नक्तेन शुद्धः ॥
मृतशूद्रस्य बान्धवैः सह रोदनरहितविलापमात्रेब्राह्मणस्याहोरात्रं ॥
अस्थिसञ्चयनकालस्तु पूर्णाशौचे ब्राह्मणस्य चतु-र्थाहः । क्षत्रियस्य षष्ठाहः । वैश्यस्य अष्टमाहः ।शूद्रस्य दशमाहः ॥
त्र्यहाशौचे सर्व्वेषां द्विती-याहः ॥
पूर्णाशौचिमरणे ब्राह्मणस्य चतुर्थाहेऽस्पृ श्यता-निवृत्तिः ॥
क्षत्रियस्य षष्ठदिने । वैश्यस्य अष्टम-दिने । शूद्रस्य दशमदिनेऽस्पृश्यतानिवृत्तिः ॥
सर्वस्य खण्डाशौचे त्रिभागकालेनास्पृश्यतानि-वृत्तिः ।अतीतेऽशौचे सचेलस्नानेनास्पृश्यतानिवृत्तिः ॥
जननाशौचे सपिण्डानां अस्पृश्यता नास्ति ॥
पुत्त्रोत्पत्तौ स्नानात् पूर्व्वं पितुर्विमातॄणाञ्चास्पृ-श्यत्वं ॥
सूतिकास्पर्शे पितुर्विमातॄणाञ्च सूतिकातुल्य-कालास्पृश्यत्वं । अन्येषां स्नानमात्रं ॥
कन्यापुत्रयोर्ज्जनने मातुर्दशरात्रमस्पृश्यत्वं ॥
कन्यापुत्रयोर्जनने शूद्रायास्त्रयोदशरात्रमस्पृश्यत्वं ॥
अथ क्षताशौचं ॥
९नाभेरूर्द्धमधोवा रुधिरस्रवे सन्ध्यावन्दनाद्यति-रिक्त्वकर्म्मण्येकाहः ॥
दन्तरक्तस्रवे सर्वत्र कर्म्मण्येकाहः ॥
अथ रजस्वलाशौचं ॥
१०तत्र प्रथमदिनावधि त्रिरात्रमशौचं ॥
त्रिरात्रात्परं सप्तदशाहपर्य्यन्तं रजोदर्शनेऽशौचाभावः ॥
अष्टादशाहे रजोदर्शने एकाहमशौचं ॥
ऊनविंशदिने रजोदर्शने द्व्यहाशौचं ॥
ऊनविंशतिदिनात् परं रजोदर्शने त्रिरात्राशौचं ॥
रजस्वला चतुर्थेऽह्नि भर्तृसेवनादिलौकिककर्म्मणिशुद्धा । पञ्चमेऽहनि दैवपैत्रकर्म्मणोः शुद्धा ॥
(“शुद्धाभर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयोः ।दैवे कर्म्मणि पैत्रे च पञ्चमेऽहनि शुध्यति” ॥
इति शुद्धितत्त्वे ।)रजस्वलाया अशौचमध्ये सूतिकास्पर्शे अन्त्यज-जातिस्पर्शे च त्रिरात्रोपवासेन शुद्धिः ॥
उप-वासस्तु अशौचात् परं करणीयः ॥
भर्तृपूरकपिण्डदानकाले यदि रजस्वला भवतितदा वस्त्रं त्यक्त्वा पुनः स्नात्वा पूरकं दद्यात्किन्तु शुद्ध्युत्तराशौचदिनासत्त्वएवायं विधिः ।तत्सत्त्वे तु शुद्धया भूत्वा देयं ॥
आब्दिकश्राद्धकालेऽपुत्त्रभार्य्या यदि रजस्वलाभवति तदा पञ्चमेऽहनि तच्छ्राद्धं कुर्य्यात् ॥
* ॥
(अभिषिक्तक्षत्रियाणां चान्द्रायणादिव्रतकारिणांगवामयनादियागप्रवृत्तानाञ्च सपिण्डमरणादाव-शौचाभावएव । उक्तञ्च मनुना ।“न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्रिणाम् ।ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा” ॥
विष्णुणाप्युक्तम् । “अशौचं न राज्ञां राजकर्म्मणि, न व्रतिनां व्रते, न सत्रिणां सत्रे” । इति ॥
)इत्यशौचव्यवस्था समाप्ता ॥
वाचस्पत्यम्
Sanskritअशौच शुचेर्भावः शौचं त० । १ शुचित्वाभावे स्मृति-प्रसिद्धे, विहि--तकर्म्मानधिकारित्वसम्पादके २ अधर्म्मविशेषेच । “जनने मरणे चैव त्र्यहाशौचस्य भागिनः” स्मृतिः ।“समानं लघु चाशौचं पूर्व्वेणैव विशुध्यति । असमानंद्वितीयेनेति” यमः । स्वार्थे ष्यञ् आशौच्यमप्यत्र “आशौ-च्याद्विप्रमुच्येत” स्मृतिः । “अशौचं द्विविधं कालकृतंवस्तुस्वभावकृतञ्च तत्र कालकृतं “सव्रणः सूतकीत्या-दिना” अशुद्धिशब्दे ४८० पृष्ठे दर्शितम् तथाच ।सपिण्डमरणजननादिकृतं कालविशेषेऽशौचम् काला-पगमे च तन्नाशः । तच्च चेतननिष्ठम् । बहुधाचास्य शुद्धितत्त्वादौ प्रपञ्चः । वस्तूनामशौचं स्वभा-वात् यथा मलमूत्रादेः, यत्संसार्गादितरवस्तूना-मप्यशौचं शुद्ध्यभावः एवं तेषां संसर्गादिकृतं चेत-नादेरशौचं यथा उच्छिष्टचण्डालादिस्पर्शे एवमशौ-चिस्वामिकद्रव्यविशेषाणामाप्यशौचम् शुद्ध्यभावः । अथसपिण्डासपिण्डादिभेदेनाशौचकालविशेषो यथा “जननेमरणे च सप्तमपुरुषपर्य्यन्तं विप्रस्य दशाहः, क्षत्रियस्यद्वादशाहः, वैश्वस्य पञ्चदशाहः, शूद्रस्य मासः । दशमपुरुषपर्य्यन्तं सर्व्ववर्ण्णेषु त्र्यहः चतुर्दशपुरुषपर्य्यन्तं पक्षिणीजन्मनामस्मृतिपर्य्यन्तमेकाहः ततः स्नानमात्रम् । क-न्यायाः सापिण्ड्यं त्रिपौरुषम् । अथ विदेशस्थाशौचम् ।अशौचकालाभ्यन्तरे विदेशस्थस्याशौचश्रवणे शेषाहैः शुद्धिः ।अशोचकालोत्तरश्रवणे तु ज्ञातिजननाशौचं नास्त्येव ।पुत्रजनने तु सचेलस्नानात् शुद्धिः । मरणाशौचे तुवर्षाभ्यन्तरश्रवणे त्र्यहात् शुद्धिः । सचेलस्नानादङ्गा-स्पृश्यत्वनिवृत्तिः । वर्षोत्तरश्रवणे स्नानेन शुद्धिःसपिण्डानाम् । पुत्रादीनान्तु मातृपितृभर्त्तृमरणेवर्षोत्तरमेकाहेन शुद्धिः, द्वितीयवर्षे श्रवणे सद्यः । संपूर्णा-शौचातिक्रमे त्र्यहाशौचं न बालाद्यशौचातिक्रमे खण्डा-शौचातिक्रमे वा । अथगर्भस्रावाशौचम् । गर्भस्रावे तुस्त्रीणामेव षण्माषाभ्यन्तरेऽशौचं तच्च लौकिके कर्म्मणिमाससमसंख्यदिनव्यापकं द्वितीयमासावधिमाससमसंख्यदि-नाधिकैकदिनात् परं व्राह्मण्या वैदिककर्म्माधिकारः क्षत्रि-याया दिनद्वयात् वैश्यायादिनत्रयात् शूद्रायास्तु दिनषट्-कादिति हारलता प्रभृतयः । सप्तमाष्टममासीयगर्भपतनेस्त्रीणां संपूर्णाशौचम् निर्गुणसपिण्डानामहोरात्रं यथेष्टाचरणपपिण्डानां त्रिरात्रम् तच्च जातस्य तद्दिनएव मरणेज्ञेयं द्वितोयदिनादौ तु मरणेनवमादिमासजातबालकवत् ।अथ स्त्र्यशौचम् । कन्यायाः जन्मप्रभृतिद्विवर्षाभ्य-न्तरमरणे सद्यः शौचं तदुपरि वाग्दानपर्य्यन्तमेकाहः ।वाग्दानोत्तरविवाहपर्य्यन्तं भर्त्तृकुले पितृकुले चकन्याया आदन्तजन्ममरणे सद्यः शौचम्, आ चूडादे-करात्रकम्, आ प्रदानात्त्रिरात्रं, स्यादिति विशेषः । दत्तक-न्यायाः पितृगृहे प्रसवमरणयोः पित्रोः शयनादिसंसर्गशू-न्ययोरपि त्रिरात्रं तथाविघबन्धुवर्गाणामेकरात्रम् सम्पर्केदशरात्रम् । अथ बालाद्यशौचम् । नवमादिमासजातबा-लकस्याशौचकालाभ्यन्तरमरणे मातापित्रोरस्पृश्यत्वयुक्तंतदेव जननाशौचं ज्ञातीनान्त्वशौचं नास्ति नवमादि-मासमृतजातयोस्तु कन्यापुत्रयोः पित्रादिसपिण्डानांजननाशौचं संपूर्ण्णम् । पुत्त्रजन्मनि मुखदर्शनात् पूर्व्वंसचेलस्नानं कृत्वा ब्राह्मणेभ्यश्च यथाशक्ति दत्त्वा बालकायकाञ्चनं दत्त्वा मुखं पश्येत । ततः पुनः सचेलस्नानम् ।अन्याशौचमध्येऽपि जातकर्म्मषष्ठीपूजे कर्त्तव्ये । पुत्रज-न्मनिमित्तकं वृद्धिश्राद्धं नाडीच्छेदात् पूर्व्वम् अशोचान्तेवा कर्त्तव्यम् । पुत्त्रकन्याजनने स्त्रीणां स्वजात्युक्तदशाहादितःपरं लोकिककर्म्माधिकारः । पुत्त्रजनने तु वैदिककर्म्माधिं-कारोविंशतिरात्रोत्तरं स्नानात्, कन्याजनने तु मासोत्तरंस्नानात् ब्राह्मण्याः । शूद्रायास्तूमयत्रैव मासोत्तरंस्नानात् शुद्धिः । एतत् सर्व्वं पुत्त्रकन्ययोर्विद्यमानत्वेबोध्यम् । जननाशौचकालोत्तरं षण्मासाभ्यन्तरमजातदन्तमरणे पित्रोरेकाहः । एवं निर्गुणसोदरस्य, सपि-ण्डानान्तु सद्यः । षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणेपित्रोस्त्र्यहः सपिण्डानामेकाहः षण्मासोपरि द्विवर्षपर्य्यन्तंपित्रोस्त्र्यहः । सपिण्डानामकृतचूडेमृते एकाहः कृतचूडेत्र्यहः । द्विवर्षोपरि सर्ब्धेषामनुपनीतस्य मरणे मासत्रयाधिकषड्वर्षं यावत् त्र्यहः । पञ्चवर्षोपनीतस्य तदानी-मपि दश । हः । मासत्रयाधिकषड्वर्षोपरि सर्वेषां दशा-हः । शूदाणां तु षण्मासोपरि द्विवर्षाभ्यन्तरे पञ्चाहः ।अत्रापि कृतचूडस्य द्वादशाहः । द्विवर्षोपरि षड्वर्षाभ्य-न्तरे द्वादशाहः । अत्रापि दैवात् कृतोद्वाहेऽपि मासः ।षड्वर्षोपरि मासः । अत्र मासवर्षपरिगणना सावनेन“सूतकादिपरिच्छेदोदिनमासाव्दपास्तथा । मध्यमग्रहभुक्ति-श्च सावनेन प्रकीर्त्तिता” इति सूर्य्यसिद्धान्तात् । अथासपि-ण्डाशौचं गुरु मातामहमरणे त्रिरात्रं भगिनीमातुलानीमातुलपितृष्वसृमातृष्वसृगुर्व्वङ्गनामातामहीमरणे पक्षिणी ।श्वश्रूश्वशुरयोर्भिन्नग्रामस्थयोर्मरणेऽहोरात्रम् । आचार्य्य-पत्नी पुत्रयोरुपाध्यायस्य मातृवैमात्रेयस्य श्यालकस्य सहा-ध्यायिनः शिष्यस्य च मरणेऽहोरात्रं मातृष्वस्रीयपितृष्व-स्रीयमातुलपुत्रभागिनेयमरणे पक्षिणी । पितामहभगिनीपु-त्रपितामहीभ्रातृतद्भगिनीपुत्ररूपपितृबान्धवत्रयमरणे पक्षिणी । मातामहभगिनीपुत्रमातामहीभगिनीपुत्रमातामही-भ्रातृपुत्त्ररूपमातृबान्धवत्रयमरणेऽहोरात्रम् । एकग्रामवा-सिगोत्रजमरणेऽहोरात्रमौरसव्यतिरिक्तपुत्त्रजननमरणयोःपरपूर्व्वभार्य्याप्रसवमरणयोश्च त्रिरात्रम् । सजातीयपुरुषान्तर-संगृहीतस्वभार्य्यामरणेत्रिरात्रम् । मातृष्वसृपितृष्वसृमातु-लभगिनीपुत्राणां गृहस्थितानामाचार्य्यस्य च मरणे त्रिरा-त्रम् । श्वश्रूश्वशुरयोःसन्निधिमरणे त्रिरात्रं श्वश्रूश्वशुरयो-रेकग्रामस्थितयोर्म्मरणे पक्षिणी । प्रथममन्येनोढा तेनैवजनितपुत्त्रा पुत्रसहितैवान्यमाश्रिता पश्चात्तेनापि जनित-पुत्रा तयोः पुत्रयोर्यथासम्भवं प्रसवमरणयोर्द्वितीयपुत्त्र-पितुश्चत्रिरात्रं तत्सपिण्डामामेकरात्रं तथाविधपुत्त्रयोःपरस्परप्रसवमरणयोर्मातृजात्युक्तमशौचम् । दौहित्रमरणेपक्षिणी । पितृमातृमरणे ऊढानां कन्यानां त्रिरात्रम् । यदिमात्रष्वसृप्रभृतीनां दहनवहने करोति तदा त्रिरात्रम् ।मातामहादीनां त्रिरात्राभ्यन्तरमरणश्रवणे तच्छेषेण शुद्धिः ।तत्तत्कालोत्तरश्रवणे तु नाशौचं किन्त्वाचारात् स्नानम् ।अथमृत्युविशेषाशौचम् । शास्त्राननुमतबुद्धिपूर्व्वकात्मघाति-नोनाशौचादि । शास्त्रानुमत्याऽनशनादिमृतस्य प्रमादादन-शनाशनिवह्निजलोच्चदेशप्रपतनसंग्रामशृङ्गिदंष्ट्रिनखिव्यालविषचाण्डालचौरहतस्य त्रिरात्रम् । शृङ्ग्यादिभिःस्त्रिया चक्रीडां कुर्व्वतः प्रमादहतस्यापि नाशौचादि । नागविप्रिय-कारित्वेन उद्धतस्य मरणोद्देशेन प्रवृत्तस्य विद्युद्धतस्य च चौ-र्य्यादिदोषेण राज्ञा हतस्य च कलहं कृत्वा राण्डालाद्यैर-समानैर्हतस्य च व्याधिजनकौषधस्य विषस्य वह्नेश्च दातुर्मरणेपाषण्डप्रायाश्रितस्य च नित्यं परापकारिणश्च क्रोधात् स्वयंप्रायोविषवह्निशस्त्रोद्बन्धनजलगिरिवृक्षप्रपातैर्मृतस्य चर्म्ममां-सास्थ्यादिमयपात्रनिर्म्मातुर्विप्रादेश्च मनुष्यबधस्थानाघि का-रिणश्च कण्ठदेशोत्पन्नभगरोगस्य पुंस्कर्म्माशक्तनपुंसकस्य चब्राह्मणविषयापराधकरणान्निहतस्य च बुद्धिपूर्व्वकब्राह्मण-हतस्य च महापातकिनश्च एवंविधपतितानां न दाहादिकंकार्य्यम् । तत्कृत्वा तप्तकृच्छ्रद्वयं कुर्य्यात् । म्लेच्छतस्करा-दिभिर्युद्धे स्वाम्यर्थं हतस्य विप्रादेर्दाहादिकमस्त्येव । अकृ-तप्रायश्चित्तस्य गलत्कुष्ठिनोन दाहादिकं कार्य्यं शस्त्रेणा-भिमुखहतस्य सद्यः शौचं दाहादि च । गवार्थे ब्राह्मणार्थे वादण्डेन युद्धहतस्याहोरात्रमशौचम् । नृपतिरहितयुद्धेलगुडादिहतस्य पराङ्मुखहतस्य त्रिरात्रम् । गोविप्रपालने-ऽभिमुखपराङ्मुखत्वाभ्यां हतस्य सद्यस्त्रिरात्रे । शस्त्रघाते-तरक्षते सप्ताहादूर्द्ध्वं मरणे सम्पूर्णं, शस्त्रघाते त्र्यहादूर्द्ध्वंच प्रकृताशौचम् । शुद्धि० त० । एतत्प्रमाणानि तत्रैवा नुसन्धेयानि । “मातृवद्वर्णसङ्कराः” इत्युक्तेर्मूद्धावसिक्ताम्बष्ठादीनामनुलोमजानां मातृवर्णानुसारेणाशौचम् प्रतिलोनजानांतु “शूद्रेण तु सधर्म्माणः सर्वेऽपध्वंसजाः स्मृताः” इत्युक्तेःशूद्रतुल्याशौचमिति रघुनन्दनादयः । आचारस्तु मातृ-तुल्यतया दृश्यते अतएव चण्डालादीनां दशाहाशौचाचारः ।देवतामन्त्रादिदातुर्मरणे त्रिरात्रम् । वेदाङ्गादि शास्त्रा-ध्यापकस्य तथाविधशिष्यस्य च मरणे एकाहः “गृहीतोदेवता मन्त्रः सावित्रीग्रहणं कृतम् । यस्मात्तस्य त्रिरात्रं स्यात्ब्रह्मविद्या ग्रहोयतः” इति “उपनीयाध्यापकोयस्तस्मिन्नपित्रिरात्रकम् । वेदवेदाङ्गशास्त्राणां व्याख्यानं शिक्षितं यतः ।ज्ञानं प्रतिष्ठितं येन वेदाभ्यासोयतः कृतः । तस्मिन्मृतेचैकरात्रं गुरोःशिष्ये तथैव” च मृत्स्यसूक्तोक्तेः दत्तकपुत्रस्य ग्रहीत्रादिकुले त्रिरात्रम् जनककुलेऽशौचाभावः ।तत्रायं विशेषः । सपिण्डदत्तकस्यापि त्रिरात्रं वाचनिकंतत्पुत्रादीनां तु संपूर्ण्णमिति । असपिण्डदत्तकस्य तत्पुत्रा-णाञ्च त्रिरात्रमिति बहवः सपिण्डासपण्डिदत्तकतत्पुत्राणांत्रिरात्रमिति “भिन्नगोत्राः पृथक्पिण्डाः पृथग्वंशकराःस्मृताः । जनने मरणे चैव त्र्यहाशौचस्य भागिनः” इत्युक्तेरिति दत्तकमोमांसादयः । शवानुगमनाशौचम् । ब्राह्म-णशवस्यानुगमने ब्राह्मणस्य सचेलस्नानाग्निस्पर्शघृतप्राशनैःशुद्धिः । क्षत्रियस्यैकाहेन, वैश्यस्य द्व्यहेन, शूद्रस्य प्राणा-यामशतेन दिनत्रयेण च शुद्धिः । प्रमादाच्छूद्रशवानुगमनेजलावगाहाग्निस्पर्शघृतप्राशनैः शुद्धिः । अनाथब्राह्मणस्यधर्मबुद्ध्या दहनवहनयोः स्नानघृतप्राशनाभ्यां सद्यः शौचम् ।लोभेन सजातीयदाहे स्वजात्युक्ताशौचम् । असजातीय-शवस्य दहनवहनस्पर्शैः शवजात्युक्ताशौचम् । स्नेहाद-सम्बन्धिदाहकविप्रस्य तद्गृहवासे त्रिरात्रं तत्कुलान्न-भोजने दशरात्रं तद्गृहवासे तदन्नाभोजने चाहोरात्रंविशेषवचनाभावे सम्बन्धिनोमातुलादेरस्नेहेनापि अदाहेत्रिरात्रं चिताधूनसेवने सचेलस्नानं मृते शूद्रेऽस्थिसञ्च-यनकालाभ्यन्तरे तद्गृहं गत्वाऽश्रुपातने विप्रस्य त्रिरात्रमशौचं, स्थानान्तरे विशेषवचनाभावेऽहोरात्रं तद्गृहे तदूर्द्ध्वंमासाभ्यन्तरेऽहोरात्रं सचेलस्नानञ्च । सजातेर्दिवसेनैवक्षत्त्रियवैश्ययोर्द्व्यहेन ब्राह्मणः शुध्यति शूद्रस्तु स्पर्शंविनानुगमने सर्वत्र नक्तेन । मृतस्य शूद्रस्य बान्धवैः सहरोदनरहितविलापमात्रेऽहोरात्रेण । अस्थिसञ्चयन-कालश्च ब्राह्मणस्य चतुरहः शूद्रस्य दशाहः । त्र्यहा-शौचे द्वितीयाहः । मरणाशौचे विप्रस्य चतुर्थाहेऽस्पृश्यता-निवृत्तिः । शूद्रस्य दशमदिने सर्वस्य खण्डाशौचकालेत्रिभागकालेन अतिक्रान्ताशौचे सचेलस्नानेन जनने तुसपिण्डानां स्पृश्यतैव । पुत्रोत्पत्तौ स्नानात् पितुः स्पृश्यत्वंएवं विमातॄणामपि । एवं सूतिकास्पर्शे पितुर्विमातॄणाञ्चसूतिकातुल्यकालास्पृश्यत्वम् । अन्येषां स्नानमात्रं कन्यापुत्रजनने मातुर्द्दशरात्रमङ्गास्पृश्यत्वं शूद्रायास्तु दश-रात्रमस्पृश्यत्वम् । अशौचकालादि विषये च प्रायोनिबन्ध-कर्त्तृणां मतभेदोदृश्यते बाहुल्यभयात् तन्न लिखितम् स्वस्व-देशप्रचलितनिबन्धानुसारेण तदवमेयम् । अशौचे तु वर्ण्णादिविशेषादौ दश पक्षा हारलतायां दक्षेणोक्ताः यथा“सद्यःशौचं तथैकाहस्त्र्यहश्चतुरहस्तथा । षड्दशद्वादशाहश्च पक्षोमासस्तथैव च । मरणान्तं तथाचान्यत् दश पक्षास्तु सूतके” । तत्र मरणान्तं जननमर-णभिन्ननिमित्तम् । यथा “क्रियाहीनस्य मूर्खस्य महारोगिणएव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम्” शु० त०स्मृतिः । “अस्नात्वा चाप्यहुत्वा च अदत्त्वाऽश्नंस्तथा द्विजः ।एवंविधस्य विप्रस्य सर्व्वदा सूतकं भवेत्” दक्षः “अन्यपूर्व्वा यस्य गेहे भार्य्या स्यात्तस्य नित्यशः । अशौचंसर्व्वकार्य्येषु देहे भवति सर्व्वदेति” नि० सि० स्मृतिः “मर-णान्तपक्षस्तु निन्दार्थवादपरः “नामधारकविप्रस्तु दशाहंसूतकी भवेदिति” माधवघृतवचने नामधारकविप्रस्यापिदशाहाशौचविधानात्” नि० सि० । दासाद्यशौचे विशेषःतत्र दासाः पञ्चदशधा दासशब्दे वक्ष्यमाणास्तेषु गर्भदासस्यसपिण्डान्तरजननमरणयोः स्वामिकार्य्ये सद्यः शौचं भक्त-दासस्य त्र्यहः “सद्यःस्पृश्यो गर्भदासो भक्तदासस्त्र्यहा-च्छुचिः” नि० सि० स्मृत्युक्तेः कर्म्मकरदासानां विशेषः “मूल्यैःकर्म्मकराः शूद्रा दासोदासास्तथैव च । स्नाने शरीरसंस्कारेगृहकर्मण्यदूषिताः” शाता० उक्तः । दत्तदासदास्यादीनांतु, “दासी दासश्च सर्व्वोवै यस्य वर्ण्णस्य यो भवेत् । तद्वर्ण्ण-स्य भवेच्छौचं दास्या मासन्तु सूतकम्” अङ्गि० “स्वामि-शौचेन दासाद्याः स्पृश्याः मासात्तुकर्म्मसु । योग्याः स्युर्मासतोदासी सूतके स्पृश्यतामियात्” षट्त्रि० । दत्त-दासादीनां सपिण्डमरणादौ स्वाम्यशौचसमसंख्यकदिना-दूर्द्ध्वम् सत्यपि मासाद्यशौचे स्वामिकार्य्ये स्पृश्यतेति हरदत्तःएवमन्तेवासिनामपि । “दासान्तेवासिभृतकाः शिष्या-श्चैकत्रवासिनः । स्वामितुल्येन शौचेन शुध्यन्ति मृतसूतके”वृह० उक्तेः । दासादेः स्वामितत्सपिण्डमरणेऽशौचमाहविष्णुः “पत्नीनां दासानामानुलोम्ये स्वामितुल्यमशौचं मृतेस्वामिन्यात्मीयम्” अत्रानुलोम्येनेत्युक्तेः प्रातिलोम्येऽशौचा-भाव एव तस्य शास्त्रीयदासत्वाभावात् “वर्ण्णानामानुलोम्येनदास्यं न प्रतिलोमत” इति याज्ञ० स्मृत्या प्रातिलोम्येनदासत्वनिषेधात् । “सूतकानां परिच्छेद इत्यादि सू० सि०प्रागुक्तवचनात् सावनदिनस्यैव ग्राह्यता । मिताक्षराकृता तुरात्रिं विभागां कृत्वाद्यभागद्वये चेत् पूर्व्वदिनम्, अन्त्येचेत् परदिनमिति आरम्भकाले विशेष उक्तः । प्रागर्द्धरात्रात्प्राग्वा सूर्य्योदयात् पूर्व्वदिनमिति मतान्तरम् । एतेषुदेशाचारतो व्यवस्था । अशौच्यन्नभक्षणेऽपि तत्तुल्य-मशौचम् । “अथ ब्राह्मणादीनामशौचे यः सकृदेवा-न्नमश्नाति तस्य तावदशौचम् यावत्तेषाम्” विष्णुः एतत्ज्ञानतः, अज्ञाने तु “अन्तर्दशाहेभुक्त्वान्नं मृतके सूतकेऽपिवा तस्याशौचं भवेत्तावद्यावदन्नं व्रजत्यधः” अङ्गिरसोक्तं-ज्ञेयम् “उभयत्र दशाहानि कुलस्यान्नं न भुज्यत” इतियमः । उभयत्र जननमरणयोः दशाहानीत्यशौचकालो-पलक्षणम् । कुलस्य सूतकयुक्तस्य सम्बन्ध्यन्नमसकुल्यैर्न-भोक्तव्यम् । सकुल्यानां न पुनर्दोषः “सूतके तुकुलस्यान्नमदोषं मनुरब्रवीत्” इति तेनैवोक्तत्वात्अयञ्च निषेधोदातृभोक्त्रोरन्यतरेण जननमरणे ज्ञातेसति द्रष्टव्यः । “उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् ।एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेदिति षड्त्रिंश-न्मतदर्शनात् । तथाविवाहादिषु सूतकोत्पत्तेः प्राक्ब्राह्मणार्थं पृथक्कृतमन्नं भोक्तव्यमेव । “विवाहोत्सवयज्ञेषुत्वन्तरा मृतसूतके । पूर्वसङ्कल्पितार्थेषु न दोषः परि-कीर्त्तित” इति वृहस्पतिस्मरणात् तथाऽपरोऽपि विशेषःषड्विंशन्मते दर्शितः । “विवाहोत्सवयज्ञेषु त्वन्तरामृत-सूतके । परैरन्नं प्रदातव्यम्भोक्तव्यञ्च द्विजोत्तमैः । भुञ्जा-न्नेषु तु विप्रेषु त्वन्तरा मृतसूतके । अन्यगेहोदकाचान्ताःसर्वे ते शुचयः स्मृताः” नि० सि० इति । तथाऽशौचिपरिग्र-हत्वेऽपि केषु चित्द्रव्येषु दोषाभावः । यथाह मरीचिः ।“लवणे मधुमांसे च पुष्पमूलफलेषु च । शाककाष्ठतृणेष्वप्सुदधिसर्पिःपयःसु च । तिलौषधाजिने चैव पक्वापक्वेस्वयंग्रहः । पण्येषु चैव सर्वेषु नाशौचं मृतसूतके”इति । शाक्वम्भक्ष्य जातम् । अपक्वन्तण्डुलादि । स्वयंग्रहइति खयमेव स्वाम्यनुज्ञातो गृह्णीयात् न तद्धस्तात् ।एतदप्यामान्नविषयं सत्रप्रवृत्तविषयञ्च । “अन्नसत्रप्रवृ-त्तानामाममन्नमगर्हितम् । भुक्त्वा पक्वान्नमेतेषांत्रिरात्रन्तु पयः पिबेदिति” अङ्गिरः स्मरणात् । अत्र पक्वशब्दो-ऽभक्ष्यव्यतिरिक्तौदनादिविषयः । शवसंसर्गनिमित्ताशौ-चे त्वङ्गिरसा विशेषौक्तः । “अशौचं यस्य संसर्गादापतेद्गृ-हमेधिनः । क्रियास्तस्यैव लुप्यन्ते गृह्याणाञ्च न तद्भवे-दिति” । तदशौचङ्केवलं गृहमेधिन एव न पुनस्तद्गृहम-वानां भार्यादीनान्तद्द्रव्याणाञ्च भवेदित्यर्थः । एव-मेवातिक्रान्ताशौचेऽपि । “संसर्गाद्यस्य चाशौचं यस्या-तिक्रान्तकालता । तदीयस्य पदार्थस्य नाशौचं विद्यतेक्वचित्” षट्त्रि० नि० सि० । कर्म्मविशेषे कर्म्मारम्भेच तत्तत्कर्ण्णणि अशौचाभावः यथोक्तम् । “कारवः शि-ल्विनो वैद्या दासीदासास्तथैव च । राजानो राजभृत्याश्चसद्यःशौचाः प्रकीर्त्तिताः” प्रचेतसा, । लघुविष्णुना च “व्रतय-ज्ञविवाहेसु श्राद्धे होमार्चने जपे । आरद्धे सूतकं न स्या-दनारब्धे तु सूतकम् । प्रारम्भोवरणं यज्ञे संकल्पो व्रतबन्धयोः । नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया”वरणमिति ऋत्विक्परम् तेषाञ्च मधुपर्कग्रहणोत्तर-मशौचाभावः । “गृहीतमषुमर्कास्तु यजमानात्तु ऋत्विजः ।पश्चादशौचं पतितं न भवेदिति निश्चयः” ब्रह्मपुरा०उक्तेः एतन्मूलकमेव त्रिंशच्छ्लोक्यां तत्तत्कार्य्येषुअशौचाभाववचनम् यथा “तत्तत्कार्य्येषु सत्रिव्रति-नृपनृपवद्दीक्षितर्त्विक्स्वदेशभ्रंशापत्स्वप्यनेकश्रुतिपठनभिष-क्कारुशिल्प्यातुराणाम् । संप्रारब्धेषु दानोपनयनयजन-श्राद्धयुद्धप्रतिष्ठाचूडातीर्थाङ्गयात्राजपपरिणयनाद्युत्सवे-ष्वेतदेव” “तीर्थेति आकस्मिकतीर्थप्राप्तौ तदङ्गं श्राद्ध-मशौचे कर्त्तव्यम् “विवाहदुर्गयज्ञेषु यात्रायां तीर्थ-कर्मणि । न तत्र सूतकं तद्वत् कर्म्म यज्ञादि कारयेत्”पैठो० उक्तेः यात्रा रथयात्रादि । जपः पुरश्चरणादिसंकल्पितस्तोत्रपाठादिश्च । व्रती संकल्पेन गृहीतव्रतादिः“गृहीतनियमस्यापि न स्यादन्यस्य कस्यचिदिति” ब्राह्मोक्तेः“वरं प्राणान् परित्यक्ष्ये मुण्डनं शिरसोऽपि वानत्वनभ्यर्च्य भीञ्जयं भगवन्तं त्रिलोचनम्” इत्युक्तनियमवतोदेवपूजायामधिकारः । कृतनियमविषया “शिवविष्ण्वर्चनंदीक्षायस्य चाग्निपरिग्रहः । श्रौतकर्म्माणि कुर्व्वीत स्नातः शुद्धि-मवाप्नुयात्” यमोक्तिः “जपो देवार्चनविधिः कार्य्योदीक्षान्वि-तैर्नरैः नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम्” मुक्ता-पली च । “अथ सूतकिनः पूजां वक्ष्याम्यागमचोदिताम् ।स्नात्वा निर्वर्त्त्य नित्यञ्च मानस्या क्रियया हि वै । बाह्य-पूजाक्रमेणैव ध्यानयोगेन पूजयेत्” शारदा । मानसजपे तुअकृतनियमस्यापि अशुचेरप्यघिकारः “अशुचिर्वा शुचिर्वापिगच्छन् तिष्ठंस्तथा स्वपन् । मन्त्रैकस्मरणोविद्वान् मनसैवसमम्यसेत् “रामार्चनचन्द्रिकोक्तेः “मानसमप्युशुचिति”वचनं तु पठनपाठनाविषयम् । तारादिविषये न अकृतनि-यमस्याप्यधिकारः “तारायाश्चैव काल्याश्च त्रिपुराया विशेष-तः । जनने मरणे चैव न त्यजेयुर्जपार्चनम्” इति तन्त्रोक्तेः ।अन्याशौचे नियमाः नि० सि० याज्ञवल्क्यः “इति संप्लुत्य गच्छे-भुर्गृहं बालपुरःसराः । विदश्य निम्बपत्राणि नियता द्वारिवश्मनः । आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् ।प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः” । “प्रवेशानादिकंकर्म प्रेतसंस्पर्शिनामपि” नि० सि० । “क्रीतलब्ध्वाशनाभूमौस्वपेयुस्ते पृथक्क्षितौ या० इदञ्चाद्येऽह्नि । यथाशुद्धि-तत्त्वे वैजवापः “शमीमालभन्ते “शमी मे पापं शमयत्विति”अश्मानमालभन्ते “अश्मेव स्थिरोभूयासमिति” अग्निम्-“अग्निर्नःशर्म यच्छत्विति” ज्योगित्यन्तरा गामजमुपस्पृशन्तःक्रीत्वा लब्ध्वावान्यगेहादेकान्नमलवणमेकरात्रं दिवा-भोक्तव्यं “त्रिरात्रं च कर्म्मोपरमणम्” क्रीताद्यशनमुपवासा-शक्तस्य । आश्वलानस्तु “नैतस्यां रात्र्यामन्नं पचेरंस्त्रि-रात्रमक्षारलवणाशिनः स्युर्द्धादशरात्रं चेत्याह महागुरुषु” ।अशक्तौ रत्नाकरे आपस्तम्बः “भार्याः परमगुरुसंस्थायां चा-कालभोजनानि कूवींरन्” यदा मृतिः परदिने तावत्कालमि-त्यर्थः । वृहस्पतिः “अधःशय्यासना दीना मलिना भोगव-र्जिताः । अक्षारलवणान्नाः स्युःर्लब्धक्रीताशनास्तथा” अक्षा-रलवणशब्देऽक्षारलवणशब्दार्थ उक्तः । भोगोऽभ्यङ्गताम्बूलादिः“तैलाभ्यङ्गो बान्धवानामङ्गसंवाहनञ्च यत् । तेन चाप्या-यते जन्तुर्यच्चाश्नन्ति स्वबान्धवाः मार्क० पुरा० वाक्यन्तु अ-न्त्यदिनविषयम् “अशौचान्ते तिलकल्कैः स्नाता गृहं प्रविशे-युरिति विष्णूक्तेः सपिण्डानामस्थिसञ्चयनादूर्द्धंभोगोऽप्युक्तःविष्णु० । “शय्यासनोपमोगस्तु सपिण्डानामपीष्यतेअस्थिसञ्चयनादूर्द्धं संयोगस्तु न योषिताम्” तिलान् ददतपानीयं दीपं ददत जाग्रतः । ज्ञातिभिः सह भोक्तव्यमेतत् प्रेतेषु दुर्लभम्” भारतम्! भोजनं च दिवैव । दिवाचैव च भोक्तव्यममांसं मनुजर्षभेत्यक्तेः प्रागुक्तवैजवापोक्तेश्च ।“क्रीत्वा लब्ध्वा वा दिवान्नमश्नीयुः” पारस्करोक्तेश्च अशौचमध्येयत्नेन भोजयेच्च स्वगोत्रजान्” आदि पुरा० ज्ञातिभिःसह भोजनञ्च तृतीयादिदिनपरम् । प्रथमेऽह्नि तृतीयेच सप्तमे दशमे तथा । ज्ञातिभिः सह भोक्तव्यमिति” मरी-च्युक्तेः । “मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ”मनुः । लवणक्षीरमांषान्नापूपमांसानि पायसम् । वर्ज्जये-दाहतान्नेषुबालवृद्धातुरैर्विना” देवजानीयकारि० “मत्स्यमासानि न भक्षयेयुरा प्रदानात्” गौत० “अघस्रस्तरे त्र्य-हमनश्नन्त आसीरन्” वसिष्ठः अशौचे पीठादिनिषेधात्अवकाले उपवेशार्थं कटम्रस्तरः कार्य्यः “पाणिषु मृण्मयेषुपर्ण्णपुटेषु वा ऽश्नीरन्” हारीतः । “उपवासो गुरौ प्रेतेपत्न्याः पुत्रस्य चैवहि” मरीचिः । अन्त्यदिने विशेषः “यस्ययस्य तु वर्ण्णस्य यद्यत् स्यात् पश्चिमं त्वहः । स तत्र गृह-शुद्धिं च वस्त्रशुद्धिं करोत्यपि । ग्रामाद्बहिस्ततोगत्वाप्रेतस्पृष्टे तु वाससी । अन्त्यानामाश्रितानाञ्च त्यक्त्वा स्नानंकरोत्यथ” ब्राह्मम् अत्र तिलकल्कादिस्नानं प्रागुक्तम्अशोचाहेषु सर्व्वदिनेषु वर्ज्जनीयधर्म्मकृत्यमाह शङ्खः “दानंग्रहोहोमः स्वाध्यायः पितृकर्म च । प्रेतपिण्डक्रियावर्ज्जमशौचे विनिवर्त्तते” अत्र विशेषोमिताक्षरायाम्“अशुचित्वेन सकलश्रौतस्मार्त्तकर्म्माधिकारनिवृत्तौ प्रस-क्तायां केषुचिदभ्यनुज्ञानार्य माह । “वैतानौपासनाः का-र्याः क्रियाश्च श्रुतिचोदनात्” या० । वितानोऽग्नीनां विस्ता-रः तत्र भवावैताना स्तेनाग्निसाध्याः अग्निहोत्रदर्शपूर्णमास्याद्याः क्रिया उच्यन्ते । प्रतिदिनमुपास्यत इत्युपासनोगृह्योऽग्निस्तत्रभवाः औपासनाः सायम्प्रातर्होमक्रिया उ-च्यन्ते । ता वैतानोपासना वैदिक्यः क्रियाः कार्याः कथंवैदिकत्वमिति चेत् श्रुतिचोदनात् । तथाहि । “यावज्जीवमग्निहोत्रञ्जहुयात्” इत्यादि श्रुतिभिरग्निहोत्रादीनां चो-दना स्पष्टैव । तथा “अहरहः स्वाहां कुर्यादन्नाऽभावे केन-चिदा काष्टादिति” श्रुत्यौपासनहोमोऽपि चोद्यते । अत्रच श्रौतत्वविशेषणोपादानात् स्मार्त्तक्रियाणां दानादीनामननुष्ठानङ्गम्यते । अतएव वैयाघ्रपादेनोक्तम् । “स्मार्त्तकर्म्मपरित्यागो राहोरन्यत्र सूतके । श्रौते कर्म्मणि त-त्कालं स्नातः शुड्विमवाप्नुयादिति” । श्रोतानाञ्च कार्यत्वा-भिधानान्नित्यनैमित्तिकानां करणम् । ययाह पैठीनसिः ।“नित्यानि निवर्त्तेरन्वैतानवर्ज्जं शालाग्नौ चैक” इति ।नित्यानि निवर्त्तेरन् इत्यविशेषेणाबश्यकानां नित्यनैमि-त्तिकानान्निवृत्तौ प्रसक्तायां वैतानवर्जमित्यग्नित्रयसा-ध्यावश्यकानाम्पर्युदासः । शालाग्नौ चैक इति गृह्याग्नौभवानामप्यावश्यकानां पाक्षिकः पर्य्युदास उक्तः । अतस्ते-ष्वशौचं नास्त्येव । काम्यानां पुनःशौचाभावादननुष्ठानम् ।मनुनाप्यनेनैवाभिप्रायेणोक्तम् । “प्रत्यूहेन्नाग्निषु क्रिया” इ-ति । अग्निषु क्रिया न प्रत्यूहेदित्यनग्निसाध्यार्नाम्पञ्चम-हायज्ञादीनान्निवृत्तिः । अत एव संवर्त्तः । “होमन्तत्रप्रकुर्व्वीत शुष्कान्नेन फलेन वा । पञ्चयज्ञविधानन्तु नकुर्य्यान् मृत्युजन्मनोरिति” । वैश्वदेवस्य अग्निसाध्यत्वेऽपिवचनान्निवृत्तिः “विप्रोदशाहमासीत वैश्वदेवविवर्ज्जित” इतितेनैवोक्तत्वात् । “सूतके कर्मणान्त्यागः सन्ध्यादीनां विधी-यत “इतियद्यपि सन्ध्यायानिवृत्तिः श्रूयते तथाप्यञ्जलिप्रक्षेपादिकङ्कार्य्यम् । “सूतके सावित्र्या चाञ्जलिम्प्रक्षिप्य प्रदक्षिणंकृत्वा सूर्य्यं ध्यायन्नमस्कुर्यादिति” पैठिनसिस्मरणात् । यद्य-पि वैतानौपासनाःकार्य्या इति सामान्येनोक्तं तथाप्यन्ये-न कारयितव्यम् । “अन्य एतानि कुर्युरिति” पैठीनसिस्मर-णात् । वृहस्पतिनाप्युक्तम् । “सूतके मृतके चैव अशक्तौ श्रा-द्धभोजने । प्रवासादिनिनित्तेषु हावयेन्न तु हापयेत्” इति ।तथा स्मार्त्तत्वेऽपि पिण्डपितृयज्ञश्रावणीकर्म्माश्वयुज्यादिकश्चनित्योहोमःकार्य्य एव । “सूतके तु समुत्पन्ने स्मार्त्तङ्कर्म्म-कथम्भवेत्! । पिण्डयज्ञं चरुं होममसगोत्रेण कारये-दिति” जातूकर्ण्यस्मरणात् । यद्यपि साङ्गे कर्मण्यकर्त्तृत्व-न्तथापि स्वद्रव्यत्यागात्मकम्प्रधानं स्वयङ्कुर्य्यात् तस्या-नन्यनिष्पाद्यत्वात् । अतएवोक्तम् । “श्रौते कर्मणि तत्कालंस्नातः शुद्धिमवाप्नुयादिति” । यत्पुनः “दानम्प्रतिग्रहोहोमःस्वाध्यायश्च निवर्त्तत” इति होमप्रतिषेधः । स काम्याभि-प्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः” इत्यर्न्तन ।संध्यादी नामप्यपवादमाहापरार्केपुलस्त्यः “संध्यामिष्टिं चरुंहोमं यावज्जीवं समाचरेत् । न त्यजेत् सूतके वापि त्यजन्गच्छेदधोद्विजः । सूतके मृतके चैव संध्याकर्म्मसमाचरेत् ।मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः” १ यत्तुचन्द्रिका-यां जावालः “सन्ध्यां पञ्च महायज्ञान्नैत्यिकं स्मृतिकर्म्म च ।तन्मध्ये हापयेत्तेषां दशाहान्ते पुनः क्रियेति” यच्च संवर्तः“सूतके कर्म्मणां त्यागः सन्ध्यादीनां विधीयतेः” यच्च विष्णु०पुरा० “सर्वकालमुपासा तु सन्ध्ययोः पार्थिवेष्यते । अन्यत्रसूतकाशौचविभ्रमातुरभीतितः” इति तत् संपूर्णसन्ध्यापरम्“अर्घ्यान्ता मानसी सन्ध्या कुशवारिविवर्जितेति” शुद्धिदीपेच्यवनोक्तेः पैठीनसिस्त्वत्र मन्त्रोच्चारणमप्याह “सूतके सावि-त्र्याञ्जलिंप्रक्षिप्य सूर्य्यंध्यायन्नमस्कुर्य्यात्” प्रयोगपरिजातेभरद्वाजोपि “सूतके मृतके कुर्य्यात् प्राणायामममन्त्रकम् । त-था मार्जनमन्त्रांस्तु मनसोच्चार्य्यमार्जयेत् । गायत्रीं सम्यगु-च्चार्य्यसूर्यायार्घ्यं निवेदयेत् । मार्जनं तु न वा कार्य्यमुपस्थानंन चैवहि” एवं मिताक्षरापरिजातादौ अशौचे सन्ध्या-करणभेदस्योक्तेः गौडानां तदनाचरणमनाचार एव तस्यश्रौतत्वेन स्मृत्या बाधानुचितत्वादिति द्रष्टव्यम् ।“ग्रहणादावप्यशौचापवादमाह व्याघ्रः “स्मार्तकर्मपरि-त्यागो राहोरन्यत्र सूतके इति” लैङ्गे “सूतके मृतकेचैव न दोषो राहुदर्शने । तावदेव भवेच्छुद्ध्विर्यावन्मुक्ति र्नदृश्यते” प्रयोगपारिजाते “वृहस्पतिः “कन्याविवाहसंक्रान्तौसूतकं न कदाचन” । महागुरुनिपातवर्षमध्ये कर्म्मविशेषेऽ-शौचम् । “स्नानं चैव महादानं स्वाध्यायं चाग्नितर्पणम् ।प्रथमाव्दे न कुर्व्वीत महागुरुनिपातने” हेमा० स्मृतिः ।महागुरवश्च माता पिता भर्त्ता च अतिगुरुशब्देउक्ताः । “प्रमी-तौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् । नापि दैवं न वा पैत्रं या-वत् पूर्ण्णो न वत्सरः” देवी अग्नितर्पणं लक्षहोमादि, नत्वाधानं तस्य प्रथमाब्देऽपि विधानात् यथा “पितुः सपिण्डीकरणं वार्षिकं मृतवासरे । आधानाद्युपसंप्राप्तावेतत्प्रागपि वत्सरात्” हेमा० उश० । अग्नितर्पणमित्यत्र अ-न्यतर्पणमिति शुद्धितत्त्वे पाठः । आधानादीत्यादिपदेन आ-वश्यक वृद्धिनिमित्तनित्यकर्म्मणोर्ग्रहणम् । श्राद्धकौमुद्यां देवीपु० “महातीर्थस्य गमनमुपवासव्रतानि च । संसत्सरे न कुव्वींतमहागुरुनिपातने” एतदेकवाक्यतया प्रागुक्तवचने स्नानपदंकाम्यतीर्थादिस्नानपरम् महादानसाहचर्य्यात् स्नाध्यायपदमपि काम्यवेदपारायणपरम् “तथैव काम्यं यत् कर्म्म वत्-सरात् प्रथमादृते” लघुहा० वचनैकवाक्यत्वात् “महागुरुनिपाते तु काम्यं किञ्चित् न चाचरेत् । आर्त्त्विज्यंब्रह्मचर्य्यं च श्राद्धं दैवयुतञ्च यत्” कालि० “सपिण्डीकारणादूर्द्धं प्रेतः पार्वणभुग्भवेत् । वृद्धीष्टापूर्त्तयोग्यश्च गृ-हस्थश्च सदा भवेत्” मत्स्य । वृद्धीत्यनेन वृद्धिनिमित्तकसपिण्डनाभावे नाधिकारीत्यर्थः गृहस्थश्च सदा भवेदित्यनेनगृहस्थोचितनित्यपञ्चयज्ञेष्वधिकारः । अतएव पितृमरणा-शौचोत्तरमेव वैश्वदेवश्राद्धं विहितम् । एवं वृद्धिश्राद्धाभावेवर्षपर्य्यन्तं तत्तत्कर्म्मण्यशौचमिति स्थिते “प्रेत कर्म्माण्य-निवर्त्त्य चरेन्नाभ्युदयक्रियाम् । आचतुर्थं ततः पुंसि पञ्चमेशुभदं भवेदिति” ज्योतिषवाक्यं शुभदमित्युक्त्या शुद्ध्यर्थच-तुर्थाब्दकर्त्तव्यश्राद्धोत्तरं प्राशस्त्यमात्रपरमेव । एतच्चाशौचंवर्षमध्ये आवश्यकवृद्ध्यर्थसपिण्डनाभावएव । “अर्वाक् संवत्-सरात् वृद्धौ पूर्ण्णे संवत्सरेऽपि वा” इत्यादि स्मृत्यनुसारेणआवश्यकवृद्धिनिमित्तसपिण्डापकर्षे तु काम्यादिकर्मकरण-योग्यता । अत्र विशेषमाह लौगाक्षिः । “अन्येषां प्रेतकर्म्माणिमहागुरुनिपातने । कुर्य्यात् संवत्सरादर्वाक् श्राद्धमेकं तु व-र्जयेत्” प्रेतकर्म्म दाहाद्येकादशाहान्तं तत्राशौचान्तरस्याप्रतिबन्धकत्वात् “आद्यं श्राद्धमशुद्धोऽपि कुर्य्यादेकादशेऽहनीति निर्ण्ण० सि० धृतस्मृतेः । तेन एकं सपिण्डनं वार्षि-कादि च । एवं देवी० वचनेऽपि बैत्रपदं पार्वणसपिण्डन-वार्षिकपरम् । अत्रापवादः माधवीये ऋष्य० “पत्न्याः पुत्रस्यतत्पुत्रभ्रात्रोस्तत्तनयेषु च । स्नुषास्वस्रोश्च पित्रोश्च संघातमरणंयदि । अर्वागव्दान्मातृपितृपूर्व्वं सपिण्डमाचरेत्” लौगा०“पत्नीपुत्रस्तथा पौत्रो भ्राता तत्पुत्रकाअपि । पितरौ चयदेकस्मिन् म्रियेरन् वासरे तदा । आद्यमेकादशे कुर्य्यात्त्रिपक्षे तु सपिण्डनम्” इदम् एकदिनमरणविषयमेव“महागुरुनिपाते तु प्रेतकार्य्यं यथाविधि । कुर्य्यात् संवत्सरादर्व्वागेकोद्दिष्टं न पार्वणम्” इति धवलनिबन्ध-वाक्यात् । “माता चैव तथा भ्राता भार्य्या पुत्रस्तथा स्नुषा ।एषां मृतौ चरेच्छ्राद्धमन्यस्य न पुनः पितुः” इति भृगुवचनंभिन्नदिनमरणेऽपि पितुर्मृतावन्यस्य सपिण्डनं न कार्य्यमेषा-मेव कार्य्यमित्येतत्परमिति नि० सि० । “पितर्य्युपरते पुत्रो-मातुः श्राद्धान्निर्वत्तते । मातर्य्यपि च वृत्तायां पितृश्राद्धा-दृते समाम्” माध० वृह० वचनन्तु वार्षिकश्राद्धपरम्मातुः ऋते इत्याकर्षः मातरं पितरं च विना अन्यस्य-श्राद्धात् वार्षिकश्राद्धात् समां व्याप्य निवर्त्तते इत्यर्थः ।“अन्यश्राद्धं परान्नञ्च गन्धमाल्यञ्च मैथुनम् । वर्ज्जयेद्गुरु-पाते तु यावत् पूर्ण्णो न वत्सरः” देवलवचने अन्यपदंभृगुवचनोक्तमात्रादिभिन्नपरम् । अन्नपदञ्च स्विन्नान्नपरं “भि-प्सोऽस्त्री भक्तमन्धोऽन्नमित्यमरोक्तेः “स्विन्नमन्नमुदाहृतम्”इत्युक्तेश्च न तु परस्वामिकामान्नमात्रपरमन्नशब्देन रूद्यापरिभाषया च सिद्धान्नस्यैव झटित्युपस्थापकत्वात्आमान्नस्य लक्ष्यार्थतया विलम्बेनोपस्थितेश्च । एवमे-वाचारः “विशेषतः शिवापूजां प्रमीतपितृकोनरः । यावत् वत्सरपर्य्यन्तं मनसाऽपि न चिन्तयेत्”कालिकापु० वाक्यं वार्षिकदुर्गापूजाविषयं नित्यपूजायाःकर्त्तव्यतायाः दशाहमध्येऽपि प्रागुक्तेः । “द्वयोरेवमहागुर्व्वोरव्दमेकमशौचकम् । नान्येषामधिकाशौचं स्व-जातिविहितात् किलेति” श्राद्धकौ० धृतजातू० वचनं तु पुरु-षविषयम् । स्त्रीणां भर्त्तुर्महागुरुतायाः सर्व्वसम्मतत्वेनतन्मरणे अधिकाशौचस्योचितत्वात् अतएव “महागुरुविप-त्तिषु इत्यादिना सामान्यतो बहुवचनमुपात्तम् । “गयाश्राद्धंमृतानां तु पूर्ण्णे त्वव्दे प्रशस्यते” हेमा० भवि० । तीर्थ-श्राद्धं गयाश्राद्धम् श्राद्धमन्यच्च पैतृकम् । अव्दमध्येन कुर्वीत महागुरुविपत्तिषु त्रिस्थ० गरु० ।इदं वृद्ध्यर्थसपिण्डनाभावे । वृद्धौ सपिण्डनापकर्षे तुवर्षमध्येऽपि दर्शादिकं कार्य्यमेव “पितुः सपिण्डनं कृत्वाकुर्य्यान्मासानुमासिकम्” छन्दोगप० वचनात् “सपिण्डी-करणादूर्द्ध्वं नरः पार्व्वणभुग्भवेत्” मात्स्यात् “ततःप्रभृति वै प्रेतः पितृसामान्यमश्नुते । विन्दते पितृलोकंच ततः श्राद्धं प्रवर्त्तते” इति हारीतवचनाच्चेति शूलपाणिः । “उद्वाहश्चोपनयनं प्रथमेऽव्दे महीपते! ।कृते सपिण्डनेऽप्यूर्द्ध्वमस्थ्नां चोद्धरणं त्यजेत् । तथापिकर्त्तुमिच्छन्ति त्रीणिं चैतानि वै सुताः । मासिकान्यवशिष्टानि चापकृष्य चरेत् पुनः” ब्रह्म वै० । अत्रेदंबोध्यं वृद्धिं विना कुलधर्म्मैकपुत्रत्वादिवशतः वर्षमध्येसपिण्डनापकर्षेऽपि पितृत्वप्राप्तिर्वर्षान्तएव “कृतेसपिण्डीकरणे नरः संवत्सरात् परम् । प्रेतदेहं परि-त्यज्य भोगदेहं प्रपद्यते” विष्णु ध० उक्तेः “अर्वाक् संवत्-साद्यस्य सपिण्डीकरणं भवेत् । प्रेतत्वमपि तस्यापि विज्ञेयंवत्सरं नृप!” इत्यग्निपु० उक्तेश्च । तेन एतद्विषये महागुरूणांप्रेतत्वसत्त्वेन विवाहोपनयनादौ दैवपैत्रेषु च नाधिकारःवृद्धिनिमित्ते सपिण्डने संवत्रमप्राप्यापि प्रेतत्वविमु-क्तिस्तेन सर्व्वत्राधिकारः । “अर्वाक् संवत्सराद्वृद्धौ पूर्ण्णेसंवत्सरेऽपिवा । ये सपिण्डीकृताः प्रेता न तेषां चपृथक्क्रिया” शाता० वाक्ये पूर्ण्णवत्सरस्येव वृद्ध्यारम्भकालस्यापि प्रेतत्वविमोचनहेतुत्वोक्तेः तथात्वम् । यतःसपिण्डीकता अतो न प्रेताः प्रेतपदप्रतिपाद्या विमुक्तप्रेतभावा इत्यर्थः । तत्र विशेषः । “अस्थिक्षेपं गयाश्राद्धं श्राद्धंचापरपाक्षिकम् । प्रथमेऽव्देऽपि कुर्वीत यदि स्याद्भक्तिमान्सुतः” मदनपारिजातधृतवचनम् । “भक्तिमान् भक्त्याख्य-श्राद्धकारीति मदनपारिजातादयः । “भक्तिश्राद्धं तु त्रिस्थली-सेतौ उक्तम् तच्च गयाश्राद्धादिपद्धतौ अस्माभिर्दर्शितं तत-एवावगम्यम् । एवं क्षताशौचमपि कर्म्म विशेषानर्हत्वप्रयो-जकम् । विवरणं क्षताशौचशब्दे” ग्रहणेऽशौचं ग्रहण-शब्दे वक्ष्यते । रजस्वलाशौचन्तु अशुद्धिशब्दे उक्तप्रायम् ।“अपाटवाद्यशौचाद्यैर्यदि विघ्नं प्रजायते । तदशौचे व्य-तीते तु तेषां श्राद्धं विधीयते” तिथि० त० स्मृतिः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
