| YouTube Channel

अशोच्यं (azocyaM)

 
शब्दकल्पद्रुमः
Sanskrit
अशोच्यं, त्रि, (शुच् + कर्म्मनि ण्यत् ततो नञ्तत्पु-रुषः ।) शोकायोग्यं अशोचनीयं यथा, --“अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः”
इति श्रीभगवद्गीतायां अध्याये ११ श्लोकः
(तथा चाणक्ये, --“अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः ।अशोच्या विधवा नारी पुत्त्रपौत्त्रप्रतिष्ठिता”)