| YouTube Channel

अशोकाष्टमी (azokASTamI)

 
Monier Williams Cologne
English
अशोकाष्टमी
f.
the eighth day in the first half of the month Caitra.
Apte Hindi
Hindi
अशोकाष्टमी
स्त्री*
अशोक-अष्टमी -
चैत कृष्णपक्ष की अष्टमी
L R Vaidya
English
aSoka-azwamI {% f. %} the eighth day in the first half of Chaitra.
E Bharati Sampat
Sanskrit
(स्त्री) अशोका शोकरहिता अष्टमी चैत्रमासीय शुक्लाष्टमी ‘मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीम् पिबेदशोककलिकाः स्नायाल्लौहित्यवारिणि’ - स्कान्द०
Wordnet
Sanskrit
Synonyms:
अशोकाष्टमी
noun
चैत्रमासस्य शुक्लपक्षीया अष्टमी।
"अशोकाष्टम्याम् अशोकवृक्षस्य अष्टाभिः पल्लवैः युक्तं जलं पातव्यम् इति विधीयते।"
शब्दकल्पद्रुमः
Sanskrit
अशोकाष्टमी,
स्त्री,
(न विद्यते शोको यस्यां सा ।एवम्भूता अष्टमी ।) चैत्रमासीयशुक्लाष्टमी त-त्राष्टसङ्ख्यकाशोककलिकायुक्तजलपानं कर्त्तव्यम् ।यथा, अथाशोकाष्टमी स्कान्दे ।“मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीं ।पिबेदशोककलिकाः स्नायाल्लौहित्यवारिणि”
अशोकाख्येत्युपादानात्तिथिमात्रेऽपि तत्पानं ।फलन्तु मन्त्रलिङ्गात् शोकराहित्यमवगन्तव्यं ।लौहित्यवारिणि ब्रह्मपुत्त्राख्यनदजले पुनर्वसु-योगे तु फलाधिक्यं आह लिङ्गगरुडपुराणयोः ।“अशोककलिकाश्चाष्टौ ये पिबन्ति पुनर्वसौ ।चैत्रे मासि सिताष्टम्यां ते शोकमवाप्नुयुः”
पानमन्त्रस्तु ।“त्वामशोक हराभीष्ट मधुमाससमुद्भव ।पिबामि शोकसन्तप्तो मामशोकं सदा कुरु”
स्त्रीशूद्रकर्त्तृकपानेऽपि प्रागुक्तयुक्तेः स्वयं मन्त्रःपठनीयः स्त्रीपक्षे ऊहोऽपि नास्ति विवृतमेका-दशीतत्त्वे अशोकपानन्तु पञ्चमार्द्धप्रहरव्यापि-न्यामष्टम्यां भ्रातृद्वितीयोक्तवत् इति तिथ्यादि-तत्त्वं
*
अपि अत्र स्रोतोजले बुधवारेपुनर्व्वसुनक्षत्रयुक्तशुक्लाष्टम्यां वाजपेययज्ञजन्यफल-समफलप्राप्तिकामः स्नायात् ब्रह्मपुत्रे तु सर्व्व-पापक्षयपूर्व्वकतीर्थस्नानजन्यफलप्राप्तिकामः स्ना-यात् स्नानेतिकर्त्तव्यतां विधाय ।“ओँ, ब्रह्मपुत्त्र महाभाग शान्तनोः कुलनन्दन ।अमोघागर्भसंभूत पापं लौहित्य मे हर”
इति पठित्वा स्नायात् ।केवलशुक्लाष्टम्यां ब्रह्मपदगमनफलं पञ्चमार्द्ध-प्रहरव्यापिन्यां पुनर्व्वसुयुक्तायां केवलायां वा शुक्ला-ष्टम्यां शोकरहितत्वकामः अष्टावशोककलिकाअहं पिबामि इति सङ्कल्प्य, --“त्वामशोक हराभीष्ट मधुमाससमुद्भव ।पिबामि शोकसन्तप्तो मामशोकं सदा कुरु”
इति पठित्वा विष्णुपदजलमिश्रिता अशोक-कलिका अष्टौ पिबेत् स्त्रीशूद्रानुपनीतैरपिमन्त्रः पठनीयः पौराणिकत्वात् स्त्रीपक्षेलिङ्गोहोनान्ति प्रकृतेः समवेतार्थत्वात् इति कृत्यतत्त्वं
वाचस्पत्यम्
Sanskrit
अशोकाष्टमी स्त्री नास्ति शोकोयस्याः कर्म्म० चैत्रशुक्ला-ष्टम्यां, सा हि अशोककलिकापानादशोकदायिका ।यथोक्तं हेमा० व्र० ख० लिङ्गपुरा० “अशोककलिका-श्चाष्टौ ये पिबन्ति पुनर्वसौ चैत्रेमासि सिताष्टम्यां तेशोकमवाप्नुयुः ।” कूर्म्मपुरा० चैत्रेमासि सिता-ष्टम्यां बुधवारे पुनर्वसौ अशोककुसुमैरुद्रमर्चयित्वाविधानतः अशोकस्याष्ट कलिका मन्त्रेणीक्तेन भक्षयेत् ।”शोकं नैवाप्लुयान्मर्त्यः” अत्र बुधपुनर्वसुयोगः प्राशस्त्यर्थःहेमा० “अशोककलिकापानमशोकतरुपूजनम्” शुक्ला-ष्टम्यां तु चैत्रस्य कृत्वा प्राप्नोति निर्वृतिमिति” लैङ्के चैत्र-शुक्लाष्टमीमात्रस्य निमित्ततोक्तेः मन्त्रस्तु तत्रैव दृश्यः