| YouTube Channel

अशोकषष्ठी (azokaSaSThI)

 
Monier Williams Cologne
English
अ-शोक—षष्ठी
f.
the sixth day in the first half of the month Caitra,
BhavP.
ii.
E Bharati Sampat
Sanskrit
(स्त्री) अशोका शोकरहिता षष्ठी चैत्रशुक्लषष्ठी ‘वैशाखे चान्दनीषष्ठी….. चैत्रेऽशोका प्रकीर्तिता’ - स्कन्द०
Wordnet
Sanskrit
Synonyms:
अशोकषष्ठी
noun
चैत्रमासस्य शुक्लपक्षस्य षष्ठी तिथिः।
"अशोकषष्ठी चैत्रस्य नवरात्रस्य षष्ठी अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अशोकषष्ठी,
स्त्री,
(अशोका शोकादिरहिता याषष्ठी ।) चैत्रस्य शुक्ला षष्ठी तस्यां षष्ठीपूजा यथा, “चैत्रे मास्यसिते पक्षे षष्ठ्यां षष्ठीं समर्च्चयेत् ।सुखाय पुत्त्रलाभाय शुक्लपक्षे तथैव च”
इत्युत्तरकामाख्यातन्त्रे ११ पटलः
“प्रसूत्या द्वादशे मासि सम्पूज्यापत्यवृद्धये ।सुते जाते तथा षष्ठ्यां षष्ठी द्वादशरूपिणी
वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता ।आषाढे कार्दमी ज्ञेया श्रावणे लुण्ठनी मता
भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा ।नाड्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी
पौषे मास्यन्नरूपा शीतला तपसि स्मृता
गोरूपिणी फाल्गुने चैत्रेऽशोका प्रकीर्त्तिता”
इति स्कन्दपुराणम्
वाचस्पत्यम्
Sanskrit
अशोकषष्ठी स्त्री कर्म्म० चैत्रोभयषष्ठ्याम् तत्र षष्ठीदेवीपूजनविधानात्तथात्वम्, “चैत्रे मास्यसिते पक्षे षष्ठ्यां षष्ठीं प्रपू-जयेत् सुखाय पुत्रलाभाय शुक्लपक्षे तथैव च”उत्तरकामाख्यातन्त्रम्