| YouTube Channel

अशोकः (azokaH)

 
Apte Hindi
Hindi
अशोकः
पुं*
- -
लाल फुलों वाला एक प्रसिद्ध वृक्ष
अशोकः
पुं*
- -
विष्णु
अशोकः
पुं*
- -
मौर्यवंश का एक प्रसिद्ध राजा
E Bharati Sampat
Sanskrit
(पुं) नास्ति शोकः यस्मात् १. वृक्षविशेषः ‘असूत सद्यः कुसुमान्यशोकः’ - कुमारसं. ३.२६ २. विष्णुः ‘अशोकः शोकनाशनः’ - विष्णुसह० ३. वकुलवृक्षः (न) ४. पारदः (स्त्री) ५. कटुकरोहिणी ६. चैत्रशुक्लषष्ठी (वि) ७. शोकरहितः ‘त्वामाशोक… मामशोकं सदा कुरु’ - तिथ्यादितत्त्वम् ८. स्वनामख्यातः राजा ‘अशोको नाम राजाभूत् महावीर्योऽपराजितः’ महाभा. ९. मगधाधिपः अशोकचक्रवर्ती १०. दशरथमन्त्री ‘अशोको धर्मपालश्च सुमन्त्रश्चाष्टमोऽभवत्’ - रामा.
Wordnet
Sanskrit
Synonyms:
अशोकः
noun
मौर्यवंशीयः प्रसिद्धः राजा यः बिन्दुसारस्य पुत्रः आसीत्।
"कलिङ्गयुद्धात् अनन्तरं अशोकेन बौद्धधर्मः स्वीकृतः।"
Synonyms:
अशोकः, शोकनाशः, विशोकः, वञ्जुलद्रुमः, वञ्जलः, मधुपुष्पः, अपशोकः, कङ्केल्लिः, केलिकः, रक्तपल्लवः, चित्रः, विचित्रः, कर्णपूरः, सुभगः, दोहली, ताम्रपल्लवः, रोगितरुः, हेमपुष्पः, रामा, वामाङ्गिघातनः, पिण्डीपुष्पः, नटः, पल्लवद्रुः
noun
स्वनामख्यातवृक्षविशेषः यः सदा हरितः अस्ति।
"अशोकः भारते सर्वत्र दृश्यते।"
वैजयन्तीकोषः
Sanskrit
Word: अशोकः
Root: अशोक
Gender: पुं
Number: all
अर्थः
Meaning(s):
Jonesia Aśoka Roxb
Shloka(s):
3|3|40|2 स्त्रीप्रिये वञ्जुलोऽशोकः कङ्केलिः कर्णपूरकः॥ (भूमिकाण्डः/वनाध्यायः)
3|3|41|1 हेमपुष्पोऽप्यथाङ्कोले निचोलोऽङ्कोढशोधनौ। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|40|2 स्त्रीप्रियः (स्त्रीप्रिय) (पुं) Name of the Aśoka tree
3|3|40|2 वञ्जुलः (वञ्जुल) (पुं) Kind of Aśoka tree
Tamil Vañji
3|3|40|2 अशोकः (अशोक) (पुं) Jonesia Aśoka Roxb
3|3|40|2 कङ्केलिः (कङ्केलि) (पुं) Name of the Aśoka tree
3|3|40|2 कर्णपूरकः (कर्णपूरक) (पुं) Name of the Aśōka tree
Tamil Aśōkam
3|3|41|1 हेमपुष्पः (हेमपुष्प) (पुं) Name of the Aśoka tree
Related word(s):
Tamil
Tamil
அசோ’க: : அசோக மரம், விஷ்ணு, அரசன் அசோகன், சந்தோஷம்.
अमरकोशः
Sanskrit
Word: अशोकः
Root: अशोक
Gender: पुं
Number: all
Meaning(s):
without heat
not feeling sorrow
not causing sorrow
tree having red flowers
ashoka tree [Saraca Indica]
Ashoka tree [ Jonesia Asoka - Bot. ] Roxb
Shloka(s):
2|4|64|2 बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥ (वनौषधिवर्गः)
Synonym(s):
2|4|64|2 वञ्जुलः (वञ्जुल) (पुं)
2|4|64|2 अशोकः (अशोक) (पुं) without heat, not feeling sorrow, not causing sorrow, tree having red flowers, ashoka tree [Saraca Indica], Ashoka tree [ Jonesia Asoka - Bot. ] Roxb
Related word(s):
परा_अपरासंबन्धः वृक्षः
जातिः वृक्षः
शब्दकल्पद्रुमः
Sanskrit
अशोकः,
पुं,
(नास्ति शोको यस्मात् ।) स्वनाम-ख्यातपुष्पवृक्षविशेषः तत्पर्य्यायः शोकनाशः २विशोकः वञ्जुलद्रुमः वञ्जलः मधुपुष्पः ६अपशोकः कङ्केल्लिः केलिकः रक्तपल्लवः१० चित्रः ११ विचित्रः १२ कर्णपूरः १३ सुभगः१४ दोहली १५ ताम्रपल्लवः १६ रोगितरुः १७हेमपुष्पः १८ रामा १९ वामाङ्घ्रिघातनः २०पिण्डीपुष्पः २१ नटः २२ पल्लवद्रुः २३ अस्य-गुणाः शीतलत्वं हृद्यत्वं पित्तदाहश्रमापहत्वं ।गुल्मशूलोदराध्माननाशित्वं कृमिकारकत्वञ्च ।इति राजनिर्घण्टः
अस्य पर्य्यायगुणाः ।“अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपप्लवः ।कङ्केल्लिः पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा
अशोकः शीतलस्तिक्तो ग्राही वर्य्यः कषायकः ।दोषापचीतृषादाहकृमिशोषविषास्रजित्”
इति भावप्रकाशः
अस्य कलिकाभक्षणविधिरशीकाष्टमीशब्दे द्र-ष्टव्यः
(योषितां सनूपुरचरणप्रहारेण अशो-कानां पुष्पोद्गमो भवतीति कविसमयप्रसिद्धिः ।यदुक्तम् ।“पादाघातादशोकं विकसति वकुलं योषिता-मास्यमद्यैः” इति साहित्यदर्पणे अपरञ्च ।“पादाहतः प्रमदया विकसत्यशोकःशोकं जहाति वकुलो मुखशीधुसिक्तः” ।अपरञ्च ।“सनूपुररवेण स्त्रीचरणेनाभिताडनम् ।दोहदं यदशोकस्य ततः पुष्पोद्गमो भवेत्”
कुमारसम्भवे ऽपि ।“असूत सद्यः कुसुमान्यशोकः” इति
“कुसुमं कृतदोहदस्त्वयायदशोकोऽयमुदीरयिष्यति” ।इति रघुवंशे ।“अशोकवल्कलक्वाथं शृतं दुग्धं सुशीतलं ।यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनं’
”इति वैद्यकचक्रपाणिसंग्रहः
“अशोकवल्कलप्रस्थं तोयाढके विपाचितं ।तेन पादावशेषेण जीरकेण तथैव
घृतप्रस्थं पचेदेतत्प्रक्षिप्य तथापरं ।तण्डुलाम्बून्यजाक्षीरं प्रस्थं प्रस्थं पृथक् पृथक्
केशराजरसस्यापि प्रस्थमेकं भिषग्वरः ।जीवनीयैः पियालैश्च परूषसरलाञ्जनैः
यष्ट्याह्वाशोकमूलञ्च मृद्वीका शतावरी ।तण्डुलीयकमूलञ्च कल्कैरेतैः पलार्द्धकैः
शर्करायाः पलान्यष्टौ गर्भदन्त्वाशुचूर्णितं ।पुष्यायोगेन तत्पीतं निहन्यात् सर्व्वदोषजं
श्वेतं कृष्णं तथा नीलं प्रदरं हन्ति दुस्तरं ।कुक्षिशूलं योनिशूलं पृष्ठशूलञ्च दारुणं
मन्दाग्निमरुचिं पाण्डुं कृशतां श्वासकासिनां ।अशोकघृतमेतत्तु विख्यातं स्त्रीगदेषु च”
*
अशोकघृतं
*
इति वैद्यकस्नेहमालिकायां
)
अशोकः, त्रि, (नास्ति शोको यस्येति वाच्यलिङ्गः ।)शोकरहितः यथा, “त्वामशोक हराभीष्ट मधुमाससमुद्भव ।पिबामि शोकसन्तप्तो मामशोकं सदा कुरु”
इति तिथ्यादितत्त्वं
(स्वनामख्यातो दशरथस्यमन्त्री उक्तं रामायणे ।“धृष्टिर्जयन्तो विजयः सिद्धार्थोऽप्यर्थसाधकः ।अशोको धर्म्मपालश्च सुमन्त्रश्चाष्टमोऽभवत्”
स्वनामख्यातो नृपतिश्च, यथा भारते ।“अशोको नाम राजाभून्महावीर्य्योऽपराजितः ।तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः”