| YouTube Channel

अशेषं (azeSaM)

 
शब्दकल्पद्रुमः
Sanskrit
अशेषं, त्रि, (नास्ति शेषो यस्येति ।) शेषरहितं ।निःशेषं
सर्व्वं इत्यमरः
(“स्थानं प्राप्स्याम्यशेषाणां जगतामपि पूजितम्”
“अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः”
इति विष्णुपुराणम्
अशेषेण यथा, --“अलं विवादेन यथा श्रुतस्त्वयातथाविधस्तावदशेषमस्तु सः” ।इति कुमारे ।“वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः”
इति गीतायाम्
)