| YouTube Channel

अशून्यशयनव्रत (azUnyazayanavrata)

 
Monier Williams Cologne
English
अ-शून्य—शयन—व्रत
n.
N.
of ceremonies on that occasion,
MatsyaP.
BhavP.
ii.
शब्दकल्पद्रुमः
Sanskrit
अशून्यशयनव्रतं,
क्ली,
(न शून्यं शयनं यस्मात्, तत्व्रतम् ।) श्रावणकृष्णद्वितीयाकर्त्तव्यव्रतविशेषः ।यथा, --“ब्रह्मोवाच ।भगवन् ! पुरुषस्येह स्त्रियाश्च विरहादिकं ।शोक-व्याधि-भयं दुःखं भवेद्येन तद्वद
भगवानुवाच ।श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः ।क्षीरार्णवे सलक्ष्मीकः सदा वसति केशवः
तस्यां संपूज्य गोविन्दं सर्व्वान् कामान् समश्नुते ।गो-भू-हिरण्य-दानादि सप्तकल्पशतानुगं
अशून्यशयना नाम द्वितीया या प्रकीर्त्तिता ।तस्यां सम्पूजयेद्विष्णुमेभिर्म्मन्त्रैर्व्विधानतः
श्रीवत्सधारिन् श्रीकान्त श्रीधाम श्रीपतेऽव्यय ।गार्हस्थं मा प्रणाशं मे यातु धर्म्मार्थकामद
अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम ।पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः
लक्ष्म्या वियुज्यते देवो कदाचित् यथा भवान् ।तथा कलत्रसम्बन्धो देव मा मे वियुज्यतु
लक्ष्म्या शून्यं वरद यथा ते शयनं सदा ।शय्या ममाप्यशून्यास्तु तथैव मधुसूदन
गीतवादित्रनिर्घोषं देवस्याग्रे तु कारयेत् ।घण्टा भवेदशक्तस्य सर्व्ववाद्यमयी यतः
एवं सम्पूज्य गोविन्दमश्नीयात्तैलवर्ज्जितं ।नक्तमक्षारलवणं यावत्तत्स्याच्चतुष्टयं
ततः प्रभाते संजाते लक्ष्मीपतिसमन्वितां ।दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणां
पादुकोपानहच्छत्रचामरासनसंयुतां ।अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृतां
सोपधानकविश्रामां फलैर्नानाविधैर्युतां ।तथाभरणधान्यैश्च यथाशक्त्या समन्वितां
अव्यङ्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने ।दातव्या वेदविदुषे वकव्रतिने क्वचित्
तत्रोपवेश्य दाम्पत्यमलंकृत्य विधानतः ।पत्न्यास्तु भाजनं दद्यात् भक्ष्यभोज्यसमन्वितं ।ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्वितां ।प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत्
एवं यस्तु पुमान् कुर्य्यादशून्यशयनं हरेः ।वित्तशाठ्येन रहितो नारायणपरायणः
तस्य पत्न्या विरहः कदाचिदपि जायते ।नारी चाविधवा ब्रह्मन् यावच्चन्द्रार्कतारकं
विरूपं शोकार्त्तं दाम्पत्यं जायते क्वचित् ।न पुत्त्रपशुरत्नानि क्षयं यान्ति पितामह
सप्तकल्पसहस्राणि सप्तकल्पशतानि ।कुर्व्वन्नशून्यशयनं विष्णुलोके महीयते”
इति मत्स्यपुराणे अशून्यशयनव्रतं ६७ अध्यायः