| YouTube Channel

अशू (azU)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अश्
मूलधातुः:
अशू
धात्वर्थः:
व्याप्तौ, सङ्घाते
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
अश्नुते
धातुप्रदीपः
Sanskrit
अशूँ अशू व्याप्तौ, संघाते
- अश्नुते व्यानशे अशिता अष्टा आशिष्ट आष्ट अष्टम् अशाश्यते इति धातुपारायणे अस्यैव यङुदाहृतः न्यासकारस्तु अश भोजन इत्यस्य यङ्विधौ ग्रहणमिच्छति 19
क्षीरतरङ्गिणी
Sanskrit
अशूँ अशू व्याप्तौ
- अश्नुते अष्टा, अशिता अश्नोतेश्च (7472) इति नुट्-व्यानशे स्मिपूङ्रन्ज्वशां सनि (तु0 7274) इतीट्-अशिशिषते अट्यर्त्यशूर्णोतीनां (3122 वा0) यङ्-अशाश्यते कृवापाजि (उ0 11) इत्याशु शावशेराप्तौ (उ0 144) उरन्-श्वशुरः अशूप्रुषि (उ0 1151) इति क्वन्-अश्वः अशे रश (उ0275) इति युच्-रशना अशे रश् (दश0 उ0 115 ङपाठः) इति मिः-रश्मिः अशिपणाय्यो रुडालुकौ (उ0 4133) -राशिः अर्तिसृधृधमि (उ0 2102) इत्यनिः-अशनिः मनिन् (दश0 उ0 673) अश्मा अशेर्देवने (उ0 365) सः-अक्षः अशेः सरन् (उ0 370) अक्षरम् अशेर्निद् (उ0 3156) इति सिः-अक्षि अशेर्देवने युट् (दश0 उ0 951ङपाठः) यशः क्र्य्यादौ अश भोजने (952) अश्नाति 18
धातुवृत्तिः
Sanskrit
अशूँ अशू (अर्थः) व्याप्तौ, संघाते
( अश्नुते अश्नुवाते अश्नुवते अश्नुषे अश्नुध्वेअश्नुवे अश्नुवहे ) "शात्'' इति तवर्गस्य श्चुत्वनिषेधः ( आनशे आनशाते आनशिषे आनक्षे आनशिध्वे आनड्ढ्वे आनशिवहे आनश्वहे आनशिमहे आनश्महे ) ऊदित्त्वादिड्विकल्पः झलि व्रश्चादिना षत्वं, "षढोः सि'', "ष्टुनाष्टः'' इति कत्वषत्वे यथायोगम् "अत आदेः'' इत्यभ्यासस्य दीर्घत्वे ततः परस्य "अश्नोतेश्च'' इति नुडागमः ( अष्टा अशिता अक्ष्यते अशिष्यते अश्नुताम् अश्नुष्व आश्नुत आश्नुथाः आश्नुवि आश्नुवीत अश्नुवीथाः अश्नुवीयात् ) आशिषि ( अशिषीष्ट अक्षीष्ट आशिष्ट आष्ट आशिषाताम् आक्षाताम् ) "झलो झलि'' इति सिज्लोपे षत्वष्टुत्वे अन्यत्र षत्वे कत्वम् ( अशिशिषते ) "स्मिपूङ्रञ्ज्वशां सनि'' इति नित्यमिट् ( आशाश्यते ) "सूचिसूत्रि'' इत्यादिना यङ् तत्र ह्यश्नोतेरश्नातेश्च ग्रहणमुक्तं पदमञ्जर्यादौ एवं पारायणादौ आत्रेया ( 1 ) ( 1 ) आत्रेयमैत्रेयादाविति पाठान्तरम् दावपि यङ्लुकि (आष्टि) इत्यादि, अटतिवत् प्रक्रिया ( अष्ट्वा अशित्वा अष्टः अष्टवान् ) "यस्य विभाषा'' इत्यनिट्त्वम् ( रशना ) "अशेरश च'' इति युचि रशादेशः ( आशुः ) व्रीहिविशेषः "कृवापाजि'' इत्यादिनोण्प्रत्ययः शीघ्रपर्यायस्त्वयमव्ययम् ( श्वशुरः ) "शावशेराप्तौ'' इति शुशब्दे उपपदे उरन् प्रत्ययः आशुपर्यायः शुशब्दः ( श्वशुर्यंः ) "राजश्वशुराद्यत्'' इति अपत्ये यत् ( श्वश्रूः ) [ श्वशुरस्योकाराकारयोर्लोपश्च ) इत्युकाराकारयोर्लोप ऊङ्प्रत्ययश्च श्वश्रूश्च श्वशुरश्च ( श्वशुरौ ) "श्वशुरः श्वश्र्वा'' इति पक्षे श्वशुरस्य शेषः ( अक्षरम् ) "अशेः सरन्'' इति सरन् प्रत्ययः ( अष्टन् ) "सप्यशूभ्यां तुट् च'' इति कनिन्, तस्य तुडागमः (अष्टौ अष्टाभिः अष्टाभ्यः अष्टानाम् अष्टासु) "अष्टन विभक्तौ'' इति पक्षे आकारः "अष्टाभ्य औश्'' इति जश्शसोरौभावः अत्र लघ्वर्थमष्टन इति वक्तव्ये अष्टाभ्य इति निर्द्देशादष्टन आत्वपक्षे एवौश्भावः अयमेव निर्द्देश आत्वविकल्पे लिङ्गं, तेनाभावे जश्ससोः "षड्भ्यो लुक्''इति लुक्यष्टेति भवति "अङ्गाधिकारे तस्य तदुत्तरपदस्य च' इतिवचनात् परमाष्टौ इत्यादाव्यश्त्वं भवति अत्रापि पूर्ववदात्वपक्षे एवौश्त्वं तेनानात्वे परमाष्टेति भवति आत्वमप्याङ्गमिति तत्रापि पूर्ववत्तदन्तविधिर्द्रष्टव्यः ( अष्टावक्रः ) "अष्टनः संज्ञायाम्'' इत्युत्तरपदे दीर्घः अष्टाभिर्गोभिर्युक्तं शकटम् (अष्टागवम् ) "गवि युक्ते'' भाषायामष्टनो दीर्घ इति दीर्घः (अष्टाविंशतिः ) "द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः'' इत्यशीतिवर्जिते संख्यायामुत्तरपदे दीर्घः अबहुव्रीहीतिवचनादष्टनवा इत्यत्र भवति "प्राक् शतादू'' इति वचनादष्टशतमित्यादावपि भवति अष्टमो भागः ( आष्टमः, अष्टमः ) "षष्टाष्टमाभ्यां च'' इति भागे विवक्षिते ञप्रत्ययश्चकारादंश्च ( अश्वः ) "अशुप्रुषि'' इति क्वन् अश्वानां समूहो ( अश्वीयम् ) "केशाश्वाभ्यां यञ्छावन्यतरस्याम्'' इति छः अन्यतरस्यांग्रहणात्पक्षेऽण् ( आश्वम् ) अश्वस्य निमित्तं संयोग उत्पातो वा ( आश्विकः ) "आर्हाद्'' इति ठक् गोद्व्यचलक्षणो यत्तत्रैवं संख्यापरिमाणाश्वादीनां पर्युदासान्न भवति अश्वेनैकाहेनगम्यते ( आश्वीनः ) "अश्वस्यैकाहगम'' इति खञ् अश्वस्यापत्यम्'' ( आश्वायनः ) "अश्वादिभ्यः फञ् ( गवाश्वम् ) "गवाश्वप्रभृतीनि च'' इति नित्यमेकवद्भावः, पूर्वपदस्यावङ् ( अश्वस्यति वडवा ) मैथुनमिव्छतीत्यर्थः क्यचि परतो "अश्वक्षीर'' इत्यसुक् अत्र हि [ अश्ववृषयोर्मैथुनेच्छायाम् ] इति पठ्यते अन्यत्राश्वीयति ( अश्वतरः ) गर्दभादश्वायामुत्पन्न उच्यते यस्य वेसर इति नाम "वत्सोक्षाश्वर्यभेभ्यश्च तनुत्व'' इति ष्टरच् अश्वशब्दार्थस्य व्यक्तेस्तनुत्वं प्रवृत्तिनिमित्तजातिद्वारकं, प्रवृत्तिनिमित्तं चेहाश्वादन्यस्मिंस्तत्सदृशे जात्यन्तरयोगिनि आरोप्यत इति गौणत्वं तनुत्वम् ष्ठरचः षित्त्वात्स्त्रियाम् ( अश्वतरी अक्षः) "अशेर्द्देवन'' इति सप्रत्ययः ( अक्षपरि ) अक्षेण तथा पतितं यथा जय इत्यर्थः "अक्षशलाकासंख्याः परिणा'' इति तृतीयान्तस्याव्ययीभावः "कितव्वयवहारे चायं समास इष्यते' ( अक्षि अक्षिणी ) "अशेर्निद्'' इति क्सिप्रत्ययः अयमक्षतौ व्युत्पादितः वक्तव्यं चान्यत्तत्रैवोक्तम् 18
कृदन्तरूपमाला
Sanskrit
1 {@“अशू व्याप्तौ सङ्घाते च”@} 2 ‘व्याप्तावश्नुत इत्याहुरश्नातीति तु भोजने।’ इति देवः 3 आशकः-शिका, आशकः-शिका, 4 अशिशिषकः-षिका, 5 अशाशकः-शिका
6 अष्टा-ष्ट्री, अशिता-त्री, आशयिता-त्री, अशिशिषिता-त्री, अशाशिता-त्री
-- आशयन्-न्ती, आशयिष्यन्-न्ती-ती
7 अश्नुवानः, 8 आशयमानः, 9 अशिशिषमाणः, अशाश्यमानः
अशिष्यमाणः आशयिष्यमाणः, अशिशिषिष्यमाणः, अशाशिष्यमाणः अक्ष्यमाणः आशयिष्यमाणः, अशिशिषिष्यमाणः, अशाशिष्यमाणः अट्-अशौ-अशः
-- -- -- 10 अष्टम्-ष्टः-ष्टवान् 11 आशितम्-तः, अशिशिषितः, अशाशितः-तवान्
अशः, आशः, अशिशिषुः, आशिशयिषुः, अशाशः 12
13 अशितव्यम्, आशयितव्यम्, अशिशिषितव्यम्, अशाशितव्यम्
अष्टव्यम्, आशयितव्यम्, अशिशिषितव्यम्, अशाशितव्यम्
अशनीयम्, आशनीयम्, अशिशिषणीयम्, अशाशनीयम्
आश्यम्, आश्यम्, अशिशिष्यम्, अशाश्यम्
ईषदशः-दुरशः-स्वशः, -- -- अश्यमानः, आश्यमानः, अशिशिष्यमाणः, अशाश्यमानः
आशः, आशः, अशिशिषः, अशाशः
अशितुम्, आशयितुम्, अशिशिषितुम्, अशाशितुम्
अष्टुम्, आशयितुम्, अशिशिषितुम्, अशाशितुम्
अष्टिः, आशना, अशिशिषा, आशिशयिषा, अशाशा 14
अशनम्, आशनम्, अशिशिषणम्, अशाशनम्
अशित्वा, आशयित्वा, अशिशिषित्वा, अशाशित्वा
अष्ट्वा, आशयित्वा, अशिशिषित्वा, अशाशित्वा
समश्य, प्राश्य, प्राशिशिष्य, समशाश्य, आशम् २, अशित्वा २, अष्ट्वा २, आशम् २, आशयित्वा २, अशिशिषम् २, अशिशिषित्वा २, अशाशम् २, अशाशित्वा २, 15 अश्वः, 16 अशनिः, 17 अश्मा, 18 अक्षः, 19 अक्षरम्, -- इमे औणादिकाः।
प्रासङ्गिक्यः
01
=>
(४९)
02
=>
(५-स्वादिः-१२६४-सक-वेट्-आ)
03
=>
(१६६)
04
=>
[[४। ‘स्मिपूङ्रञ्ज्वशां--’ (७-२-७४) इति नित्यमिट्।]]
05
=>
[[५। ‘सूचिसूत्रि--’ (वा। ३-१-२२।) इति यङ्। ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घः।]]
06
=>
[[६। ‘स्वरतिसूति--’ (७-२-४४) इति वा इट्।]]
07
=>
[[७। ‘स्वादिभ्यः--’ ३। इति श्नुविक- रणप्रत्ययः। ‘अचि श्नुधातु--’ (६-४-७७) इत्युवङ्।]]
08
=>
[[आ। “शक्त्यृष्टिपरिघप्रासगदामुद्गरपाणयः। व्यश्नुवाना दिशः प्रायुः वनं दृष्टि- विषोपमाः” भ। का। (९। ४।)]]
09
=>
[[८। ‘पूर्ववत् सनः’ (१-३-६२) इति शानच्।]]
10
=>
[[९। ऊदित्त्वात् इड्विकल्पः ‘यस्य विभाषा’ (७-२-१५) इति इण्णिषेधः।]]
11
=>
[[७। ‘स्वादिभ्यः--’ ३। इति श्नुविक- रणप्रत्ययः। ‘अचि श्नुधातु--’ (६-४-७७) इत्युवङ्।]]
12
=>
[[१०। पचाद्यच् (३-१-१३४।) ‘यङोऽचि च’ (२-४-७४।) इति यङो लुक्।]]
13
=>
[पृष्ठम्००४८+ २४]
14
=>
[[१। ‘अ प्रत्ययात्’ (३-३-१०२)। इति यङन्तात् अकारप्रत्ययः।]]
15
=>
[[२। क्वन्प्रत्ययः (द। उ। ८-१२५)।]]
16
=>
[[३। अनिप्रत्ययः (द। उ। १-१।)।]]
17
=>
[[४। मनिन् (द। उ। ६-७५) प्रत्ययः।]]
18
=>
[[५। सः प्रत्ययः (द। उ। ९। २४।)।]]
19
=>
[[६। ‘अशेः सरन्’ (द। उ। ८। ५०) इति सरन्प्रत्ययः।]]