अशुद्धि (azuddhi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English अशुद्धि azuddhi impurity
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishअशुद्धि [aśuddhi],
Impure, foul.
Wicked. -द्धिः Impurity, foulness.
Apte Hindi
Hindiअशुद्धि
"वि*, न*ब*" - -
"अपवित्र, मलिन"
अशुद्धि
"वि*, न*ब*" - -
दुष्ट
अशुद्धिः
"स्त्री* , न* त*" - -
"अपवित्रता, मलिनता"
Shabdartha Kaustubha
Kannadaअशुद्धि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಪವಿತ್ರತೆ /ಮೈಲಿಗೆ
अशुद्धि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತಪ್ಪು /ದೋಷ
अशुद्धि
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಅಪವಿತ್ರವಾದ
Wordnet
Sanskrit मलिनता, मालिन्यम्, अपवित्रता, अशुद्धि, अस्वच्छता, अशुचिता, आशौच, अविशुद्धि, अशुचित्व
मलिनस्य अवस्था भावो वा।
"तस्य मनसः मलिनता दूरीकर्तुं न शक्यते।"
अशुद्ध, अशुचि, अपवित्र, अमेध्य, अपूत, अशुद्धि, अशौचिन्, अनिर्मल, समल, मलवान्, मलिन, अपुण्य, अपवन
यद् शुद्धं नास्ति।
"एतद् घृतम् अशुद्धम् अस्ति।"
वाचस्पत्यम्
Sanskritअशुद्धि स्त्री अभावे त० । १ शुद्ध्यभावे दोषे त० ।२ शुद्धिशून्ये दुष्टे । तत्राशुद्धिस्तत्प्रतियीगितया शुद्धिश्चनिरूपिता हेमाद्रौ श्रा० ख० । ततः सारांशः । अशुद्धिर्नामकर्त्तृद्रव्यादेः स्पर्शनाद्यनर्हतापादकोदोषविशेषः शुद्धिस्तदीयसंस्कारापादिता तन्निवृत्तिः । शुद्धिमतएव सकल-कर्म्मीपयोगयोग्यत्वम् “श्रौतं स्मार्त्तं तथा कर्म्म कर्त्तव्य-मधिकारिणा । शुचिना साधनैः शुद्धैः सम्यक् श्रद्धान्वितेनच” व्रह्मा० पुरा० उक्तेः । अतो यथाश्रद्धं शुचिना शुचि-भिरेव द्रव्यैराचरणीयम् । ते चोभे अपि शास्त्रैकगम्ये ।नन्वत्र किं शास्त्रेण लोकव्यवहारप्रसिद्धेः शुद्ध्यशुद्ध्योः, व्यवहरत्येव हि लोको जुगुप्सितमूत्रपुरीषादिसंसृष्टं द्रव्य-मशुद्धमिति प्रक्षालनाद्यपनीतगन्धञ्च शुद्धमिति, सत्यमयंलोकव्यवहारः क्वचिदेव जुगुप्सितस्पर्शोपहतएव द्रव्ये, नसर्व्वत्र । तत्रापि सामान्यतश्चासौ व्यवहारो न द्रव्यदे-शकालावस्थादिभेदकृतो, नवा शुद्ध्यशुद्धितारतम्य विशेष-कृतः । अतः सर्व्वत्र विशेषतश्च शुद्द्यशुद्ध्योः शास्त्रादेवनिश्चयः । यस्तु चण्डालादिस्पर्शादावपि विशेषतश्च लोक-व्यवहारः स तु शास्त्रमूलप्रसिद्धिमाश्रित्यैव यागदानहोमा-दिषु श्रेयःसाधनत्ववत् । कथं पुनः कार्य्यार्थपरेण धर्म्म-शास्त्रेण शुद्ध्यशुद्धिरूपस्य सिद्धार्थ स्यावगतिः? श्रुतार्था-पत्त्येति ब्रूमः । तथाहि यथा दर्शपौर्ण्णमासाभ्यां स्वर्गका-मोयजेतेत्यादौ क्षणिकानां यागानां श्रूयमाणकालान्तर-भाविस्वगेसाधनत्वान्यथानुपपत्त्या पुरुषे शुभापूर्व्वसिद्धिः, यथा च क्षणिकस्यावगोरणस्य श्रुतकालान्तरभाविशतया-तनासाधनत्वान्यथानुपपत्त्या दुरितापूर्व्वसिद्धिः । तथा मूत्र-पुरीषादिसंस्पृष्टेन न व्यवहर्त्तव्यम् प्रक्षालनप्रोक्षणादिसंस्कारवता तु व्यवहर्त्तव्यमिति श्रुतव्यवहारनिषेधतदभ्यनुज्ञानान्यथानुपपत्त्या द्रव्यादिगतशुद्ध्यशुद्धिरूपसिड्वार्थकल्पना न विरुध्यते । अथ वा शुद्ध्यशुद्धिस्मृतीनांसिद्धार्थवादपरत्वमेवास्तु तासां च तादृशमेव वेदवाक्यं मूलंकल्प्यते स्मर्य्यमाणार्थानुसारिणी हि वेदकल्पना । नास्तिनियमः कार्य्यार्थपरेणैव वेदेन भाव्यभिति “तद्भूतानांक्रियार्थेन समाम्नायः” इति न्यायेन सिद्धार्थानामपिविध्येकवाक्यतया प्रामाण्यव्यवस्थापनात् । प्रकृते चकर्म्मविधायके प्रागुक्त ब्रह्माण्डवाक्ये अधिकारिविशेष-णतया साधनविशेषणतया च शुद्धेः, अशुद्धेश्च पर्य्युदस्ततयासिद्धाया अपि विधिनैकवाक्यतया प्रामाण्यसम्भवः । किञ्चप्रक्षालितेनैव व्यवहर्त्तव्यमिति नियमविधिर्दृश्यते अतोवेदमूलत्वकल्पना । अतः शुद्ध्यशुद्धी उभे अपि शास्त्रादेवा-वगम्ये । तदुक्तं “शुद्ध्यशुद्धी ह्यदृष्टत्वाद्विज्ञायेते यथाश्रुति”तदेवं वसा शुक्रमित्यादिभिरशुद्धिवचनैरशुद्धिर्गम्यते जलेनैवविशुध्यतीत्यादिभिश्च शुद्धिर्विधीयते । अतोऽष्टकादिस्मृति-वत् वेदमूले एव शुद्धयशुद्धिस्मृती । शुद्धिवचनैश्चाशुद्धिराक्षि-प्यते शुद्धिर्हि मूत्राद्युपघातेनाशुद्धानां द्रव्याणां संस्कार-रूपा कर्त्तव्यतया विधीयते न पुनः श्रुड्वानाम्, न हिसुवर्ण्णादयः भावा स्वभावेनाशुद्धाः येन प्रयोगकालेशुद्धिमपेक्षेरन् । अथादृष्टार्थं व्रीहिप्रोक्षणवत् प्रयोगकालेसंस्कारोविधीयते इति चेत् न तथात्वे अशुड्विज्ञापकंवचनं विरुध्येत अतः सिद्धं शुद्ध्यशुद्ध्योः शास्त्रगम्यत्वम् ।तत्र शुद्धिर्नानाविधाऽपि संक्षेपात् द्विविधा बाहवाआभ्यन्तरा च । यथा “अथातः शौचाध्यायं व्याख्यास्यामस्तद्द्विविधम् बाह्यमाभ्यन्तरञ्च आन्तर शौचं नामतद्यदहङ्कारनिन्दितेभ्यो मनो निवर्त्तते, बाह्यमपिगन्धलेपस्नेहोपघातेऽद्भिरनिष्टपुरुषस्पर्शने प्रोक्षणा-च्छुचिरित्यशुचिप्रतिषेधः, हृदयशौचमनुतप्तता साधुता, कर्म्मशौचमगर्हितकर्म्मण्यता, शरीरशौचं मृद्भिरद्भिश्च, वाचाम् अप्रियानृतनिष्ठुर्य्यवर्जनम्, मनसो मिथ्यासंकल्प-प्रतिषेधः, बुद्धेर्ज्ञानम् । श्रूयते द्विविधं शौचं यच्छिष्टैःपर्य्युपासितम्” । “बाह्यं निर्लेपनिर्गन्धमन्तःशौचमहिं-सनम्” इति च उश० । “अद्भिः शुध्यन्ति गात्राणिबुद्धिर्ज्ञानेन शुध्यति । अहिंसया च भूतात्मा मनः सत्येनशुध्यति” इति “कालोऽग्निर्मनसः शुद्धिरुदकाद्यनुलेपनम्अविज्ञानञ्च भूतानां षड्विध शौचमुच्यते । देशं कालंतथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थां च परि-ज्ञाय यथाविधि । शौचज्ञः कुशलो धर्म्मे धर्म्मेप्सुः शौचमाचरेत्” इति च बौधा० “अनिलानलसोमसूर्य्यका-ञ्चनरजतभस्मतोयताम्रैः, अजमुखवालधिगोमयरजआद्यैःस्पर्शगुणैरिह मेध्यतां नयन्ति” हारी० “आत्मयाजिनांशरीरस्याद्भिर्मृद्भिश्च, ज्ञानेन बुद्धेः, तपसा पापानां, सन्तानजानां मातृपैतृकाणां दोषाणां यमनियममन्त्रव्रतो-पवासादिभिः” शङ्खलि० “ज्ञानं तपोऽग्निराहारो मृण्मयोवार्य्युपाञ्जनम् वायुः कर्म्मार्ककालौ च शुद्धिकर्त्तॄणि-देहिनाम्” सर्बेषामेव शौचानामन्नशौचं परं स्मृतम् ।योऽन्ने शुचिर्हि स शुचिर्न मृद्वारि--शुचिः शुचिः ।क्षान्त्या शुध्यन्ति विद्वांसोदानेनाकार्य्यकारिणः । प्रच्छ-न्नपापाजप्येन तपसा वेदवित्तमाः । शोध्यं शध्यतिमृत्तोयैर्नदी वेगेन शुध्यति रजसा स्त्री मनोदुष्टा संन्यासेनद्विजोत्तमाः । अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।मनुः “कालोऽग्निः कर्म्म मृद्वारि मनोज्ञानं तपोजलम् । पश्चात्तापो निराहारः सर्वेषां शुद्धिहेतवः ।अकाय्यकारिणां दानम्” क्षेत्रज्ञस्येश्वरज्ञानात् विशुद्धिः प-रमा मता” या० स्मृ० “सत्यं शौचं तपः शौचं शौचमिन्द्रियसंयमः । सर्व्वभूतदया शौचमद्भिस्तु पञ्चमं मतम्” यमः“गात्रं मृदम्भसा शुध्येच्चित्तं भूतानृशंसनात् । विद्ययातपसा देही मतिर्ज्ञानेन शुध्यति । स्वाध्यायेनानुतापेनहोमेन तपसैव च । ध्यानेन क्षेत्रवासेन दानेनेहपरिक्षयः । परापवादाश्रवणं परस्त्रीणामदर्शनम् । एतच्छौच श्रोत्रदृशी र्जिह्वाशुद्धिरपैशनम । अप्राणिवधमस्तयंशुचित्वं पादहस्तयोः । असंश्लेषः परस्त्रीणां शारीरंशौचमिष्यते” वृह० । “उच्छिष्टोपघातेऽभ्युक्षणाच्छु चिर्वि-ण्मुत्रं संस्पृश्योन्मृज्याचम्य प्रयतोभवेत्” पैठी० “प्राणि-नामथ सर्वेषां मृद्भिरद्भिश्च कारयेत् । अत्यन्तोपहतानाञ्चशौचं नान्यत्” विष्णुः । “विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्य्यादेयमर्थवत् । दैहिकानां मलानाञ्च शुद्धिषु द्वादशस्वपि । वसा शुक्रमसृङ् मज्जा मूत्रविट् घ्राणकर्ण्णविट् ।श्लेष्माश्रु दूषिकामेदो द्वादशैते नृणां मलाः” मनुः “तथाशरीरस्रोतोभ्यो मल निष्यन्दविस्रवः । अन्त्रादीनां प्रदेशश्चस्यादशुचिर्विशेषतः । प्रभूताशुच्यमेध्यानां स्पर्शनाच्चाशुचिर्भवेत् । स्वप्नाद्वस्त्रविपर्य्यासात् क्षुताद्बुद्धिपरिभ्रमात् ।उक्त्वा वाचमनाच्छुद्ध्विरनृतं क्रूरमेव वा । अपविद्धं धनुर्लक्ष्यंदृष्ट्वा वा अशुचिर्भवेत् । प्रलेपस्नेहगन्धानामशुचौ चापक-र्षणम् । शौचलक्षणमित्याहुर्मृदम्भोगोमयादिभिः । लेपेस्नेहे च गन्धे च व्यपकृष्टे च दूरतः । पश्चादाचमनञ्चैवशौचार्थं वक्ष्यते विधिः” देवलः । “दुष्टाभिशस्तपतिततिर्य्यगधोवर्ण्णोपहतानां संस्पर्शाच्चास्यस्वेदतोयपूयशो-णितछर्द्दिलालानिष्ठीवितरेणुकर्द्दमोच्छिष्टजलविण्मूत्रपुरी-षादिभिर्बाह्यशरीरोपघातिभिरुपपूताभिरद्भिर्मृद्भिश्च भस्म-गोमयौषधिमङ्गलाचारविधिप्रयुक्तैर्बाह्यशरीरोपघातात् पू-तोभवति” हारीतः । “चिताधूमसेवने सर्व्वे वर्ण्णाःस्नानमाचरेयुः । मैथुने दुःस्वप्ने रुधिरोपगतकण्ठेवमनविरेकयोश्च । श्मश्रुकर्म्मणि कृते च । शवं शव-स्पृशञ्च स्पृष्ट्वा रजस्वलाचाण्डालयूपांश्च । भक्ष्यवर्ज्जंपञ्चनखशवं तदस्थि सस्नेहञ्च । सर्व्वेष्वेतेषु पूर्व्वं वस्त्रंनाप्रक्षालितं बिभृयात् । रजस्वला, चतुर्थेऽह्नि स्नानाच्छु-ड्व्यति । रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावद-श्नीयाद्यावन्न शुद्धा । सवर्णामधिकवर्णां वा स्पृष्ट्वा स्नात्वा-ऽश्नीयात् । क्षुत्वा सुप्त्वा भोजनाध्ययने पीत्वा स्नात्वानिष्ठीव्यं वासः परिधाय रथ्यामाक्रम्य मूत्रपुरीषे कृत्वापञ्चनखस्य सस्नेहास्थि स्पृष्ट्वा चाचामेत् । चाण्डाल-म्लेच्छसम्भाषणे च । नाभेरधस्तात् प्रबाहुषु च कायिकै-र्मलैः सुराभिर्वोपहतोमृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्यति ।अन्यत्रोपहतोमृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन । वक्त्रोपहत-स्तूपोष्य स्नात्वा पञ्चगव्येन । दशनच्छदोपहतश्च । वसाशुक्रमसृङ्मज्जामूत्रविट्कर्णविङ्नखाः । श्लेष्माश्रु दूषिकामेदोद्वादशैते नृणां मलाः । गौडी माध्वी च पैष्टी चविज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्व्वा न पातव्याद्विजातिभिः । माधूकमैक्षवं टाङ्कं कौलं खार्ज्जूरपानसे ।मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् । अमेध्यानिदशैतानि मद्यानि ब्राह्मणस्य च । राजन्यश्चैव वैश्यश्चस्पृष्ट्वैतानिन दुष्यतः “ज्ञानं तपोग्निराहारोमृद्मनोवार्य्युपाञ्जनम् ।वायुःकर्म्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम्” विष्णुः ।“ऊर्द्ध्वं नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते । तत्रस्नानमधस्तात्तु क्षालनेनैव शुध्यति । इन्द्रियेऽनुप्रविष्टंस्यादमेध्यं यदि कर्हिचित् । मुखेऽपि संस्पृश्यमानं तत्रस्नान विशोधनम्” अङ्गि० । “रथ्या कर्द्दमतोयेन ष्ठीव-नाद्येन वा तथा । नाभेरूर्द्ध्वं नरः स्पृष्ट्वा सद्यः स्नानेनशुध्यति” “शङ्खः “सकर्द्दमेषु वर्षासु प्रविश्य ग्रामसङ्करम् ।जङ्घाभ्यां मृत्तिकास्तिस्रः पद्भ्यां च द्विगुणाः स्मृताः”यमः । “दिवाकीर्त्तिमुदक्यां च सूतिकां पतितं तथा ।शवं तत्स्पृष्टिनञ्चैव स्पृष्ट्वा स्नानेन शुध्यति । आचम्यप्रयतोनित्यं जपेदशुचिदर्शनात् । सौर्य्यान्मन्त्रान्यथोत्साहं पावमानीश्च शक्तितः । नारं स्पृष्ट्वास्थिसस्नेहं स्नात्वा विप्रोविशुध्यति । आचम्यैव तु निःस्नेहं गांस्पृष्ट्वा वीक्ष्य वा रविम् । वान्तोविरेकी क्षुत्वा च घृतप्राश-नमाचरेत् आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम्”मनुः । मैथुनिनः स्नाममृतौ गर्भशङ्कायामेव “अनृतौतु यदा गच्छेच्छौचं मूत्रपुरीषवत्” शातातपोक्तेः ।“अजीर्ण्णेऽभ्यादिते वान्ते श्मश्रुकर्म्मणि मैथुने । दुःस्वप्नेदुर्जनस्पर्शे स्नानमात्रं विधीयते । शुना चैव शूमाकेनमृतनिर्हारकेण वा । स्पृष्टमात्रस्तु कुर्व्वीत सेचनं प्लावनंजलैः” मनुः “दुःस्वप्नदर्शने चैव वान्ते वा क्षुरकर्म्मणि ।मेथुने कटधूमे च सद्यः स्नानं विधीयते । पतितं सूतिका-मन्त्यं शवं स्पृष्ट्वा तु कामतः । स्नात्वा सचेलं हुत्वाग्निंघृतं प्राश्य विशुध्यति । शवस्पृशं दिवाकीर्त्तिं चितायूपंरजस्वलाम् । स्पृष्ट्वा प्रमादतोविप्रः स्नानं कृत्वा विशुध्यति”वृह० । उदक्याशुचिभिः स्नायात्” या० स्मृ० उदक्या-दिस्पृष्टैः स्पृष्टः स्नायात् हेमा० । “चण्डालं पतितं व्यङ्गमुन्मत्तं शवमन्त्यजम् । सूतकं सूतिकां नारीं रजसाच परिप्लुताम् । श्वकुक्कुटवराहांश्च ग्राम्यान् संस्पृश्यमानवः । सचेलं सशिरः स्नातः तदानीमेव शुध्यति ।वृद्धशाता० । “श्वपाकं पतितं व्यङ्गमुन्मत्तं शवहारकम् ।सूतकमित्यादिशातातपवत्” परा० “अशुद्धान् स्वयमेवैतानशुद्धश्च यदा स्पृशेत् । विशुध्यत्युपवासेन” “उपस्पृश्या-शुचिस्पृष्टं तृतीयमपि मानवः । हस्तौ पादौ च तोयेनप्रक्षल्याचम्य श्रुध्यति” इति च देवलः । “मानुषास्थिबसाविष्ठामार्त्तवं मूत्ररेतसी । मज्जानं शोणितं वापिपरस्य यदि संस्पृशेत् । स्नात्वा प्रमृज्य लेपादीनाचम्य सशुचिर्भवेत् । तान्येव स्वानि संस्पृश्य पूतःस्यात् परिमार्ज्जनात्” देव० । “चैत्यवृक्षश्चितिर्यूपश्चण्डालः सोमविक्रयी ।एतांस्तु व्राह्मणः स्पृष्ट्वा सचेलोजलमाविशेत्” । परा० ।“श्वपचमूषिकप्रेतहारकशवानि संस्पृश्य देवीराप इत्यभि-मन्त्रितैर्जलैः स्नातः पूतोभवत्यजीर्ण्णवान्ते श्मश्रु-कर्म्मणि पशुदिवामैथुने च” हारोतः “अथ सांस्प-र्शिकं व्याख्यास्यामः “चण्डालश्मशानमृतहारकरज-स्वलासूतिकाः संस्पृश्याऽनुदितेऽस्तमिते स्कन्दित्वा चाप्सु-स्कन्दित्वाक्षिस्यन्दने कर्ण्णक्रोशने चित्याहरणे यूपसंस्पर्शने”इत्युपक्रम्य “सचेलं स्नात्वा पुनर्मानो जपेत्” कश्य० । “श्वानंश्वपाकं प्रेतधूमं देवद्रव्योपजीविनं ग्रामयाजकं यूपंचितिं चितिकाष्ठं समद्यभाण्डं सस्नेहं मानुषास्थिशवस्पृशं रजस्वलां महापातकिनं शवं स्पृष्ट्वा सचेल-वासा अम्भोऽवगाह्यीत्तीर्य्याग्निमुपस्पृशेन्” च्यव०“शुना घ्रातावलीढस्य नखैर्विदलितस्य वा । अद्भिः प्रक्षालनंप्रोक्तमग्निना चोपधूननम्” शाता० । अशुचिं संस्पृशेद्यस्तुएकएव स दुष्यति । तं स्पृष्ट्वान्यो न दुष्येत्तु सर्व्वद्रव्येष्ययंविधिः” वृद्धशा० । “यस्य स्पर्शे आचमनमात्रं सोऽत्राशुचिः”हेमा० । “श्ववराहखरानुष्ट्रान् वृकगोमायुवानरान् ।काककुक्कुटगृध्रांश्च स्पृष्टा स्नानं समाचरेत्” संव० ।“भासवानरमार्जारखरोष्ट्राणां शुनां तथा । शूकराणाम-मेध्यस्य स्पर्शे स्नानं सचेलकम्” व्यासः “पण्ड्रकं कुक्कुटंकाकं श्वशृगालशिवावृकान् । चितियूपश्मशानानि विड्-वराहखराशुचीन् । अवकीर्ण्णिनमन्त्यं च स्पृष्ट्वा स्नानंविधीयते” हारी० “अभोज्यसूतिकाषण्डमार्जाराखुश्व-कुक्कुटान् । पतिताविद्धचाण्डालं मृतहारांश्च धर्म्मवित् ।संस्पृशन् शुध्यति स्नानात्” मार्क० । “बौद्धान् पाशुपतान्जैनान् लौकायतिककापिलान् । विकर्म्मस्थान् द्विजः स्पृष्ट्वासचेलोजलमाविशेत् । कापालिकांस्तु संस्पृश्य प्राणायामी-ऽधिको मतः” षट्त्रि० । “शैवान् पाशुपतान्स्पृष्ट्वा लौकायतिकनास्तिकान् । विकर्म्मस्थान् द्विजान्शूद्रान् सवासा जलमाविशेत्” ब्रह्मा० पुरा०“शूद्रोच्छिष्टं द्विजः स्पृष्ट्वा उच्छिष्टं शूद्रमेव च ।शुचिरप्यवगाह्यैव सचलं स्नानमाचरेत्” छाग० “स्पृष्ट्वादेवलकं चैव सवासा जलमाविशेत्” संव० “रजकश्चर्म्मकृच्चैव ब्रात्यध्वजोपजीविनौ । निर्णेजकः शोण्डिकश्चनटः शैलूषकस्तथा । मुखेभगस्तथा श्वा च वनिता सर्व्व-वर्णगा! चक्री ध्वजी व्याधयाजी” इत्युपक्रम्य “एभिर्यदङ्गंसंस्पृष्टं शिरोवर्जं द्विजातिषु । तोयेन क्षालनं कृत्वाआचान्ताः प्रयता मताः” शाता० । “उर्द्ध्वं नाभेः करौ-मुक्त्वा यदङ्गं स्पृशते खगः । स्नानं तत्र प्रकर्वीत शेषंप्रक्षाल्य शुध्यति” जातू० । “नीलीं नीलीविकारं च मा-नुषास्थीन्यपि द्विजः । चण्डालपतितच्छायां स्पृष्ट्वा स्नानंसमाचरेत्” संव० “स्पृष्ट्वा रुद्रस्य निर्म्माल्पं सवासा आप्लुतःशुचिः” स्कन्द० “अष्टम्यां च चतुर्द्दश्यां दिवा पर्व्वणिमैथुनम् । कृत्वा सचेलं स्नात्वा च वारुणीभिश्च मार्जयेत्”शाट्यायनिः । “रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला”अङ्गि० “रजस्वला चतुर्थेऽह्नि स्नानाच्छुड्विमवाप्नुयात्”शङ्खः “शुद्धा भर्त्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला । दैवेकर्म्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति” अङ्गि० । “रोगेणयद्रजः स्त्रीणामत्यर्थं तु प्रवर्त्तते । अशुच्योनैव तास्तेनयेन वैकारिकं हि तत्” शङ्ख० “अकाले यद्भवेत् स्त्रीणाम्रक्तमाहुर्मनीषिणः । काले तु तद्रजः प्रोक्तं तस्मात्तत्रैवसाऽशुचिः” छाग० । एवमन्यान्यपि तद्बोधकान्यनुसन्धेया-नि । शुचितत्कालजीविनः कर्म्माधिकारित्वेन शुद्धेः कर्त्तृ-विशेषणतया कर्म्माङ्गत्वमशुद्धेश्च तदधिकारित्वाभावः एवंतयोः कर्त्तृविशेषणतया कर्म्माधिकाराङ्गानङ्गत्वे निरू-पिते । इदानीं द्रव्याणामपि कर्म्माङ्गतया द्रव्य-गतशुद्ध्यशुद्धी निरूप्येते तत्र कालरूपद्रव्यस्याशुद्धिः३९ पृष्ठे अकालशब्दे उक्तप्राया । पर्य्युदस्तकालानां तुकर्मानङ्गंत्वेऽपि नाशुद्धत्वम् । “रात्रौ श्राद्धं न कुर्वीत”“आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्ज्जयेत्” राक्षसीनाम सा वेला गर्हिता सर्व्वकर्मसु” इत्यादौ तत्तत्-कर्मणां तदितरकाले कर्त्तव्यतामात्रं बोध्यते न तु तेषा-मशुद्धत्वमप्रि तेन सन्ध्यावन्दनादेः सन्ध्यारात्र्योः कर्त्त-व्यताबिधायकं “पश्चिमां तु समासीनोयावत्तारकद-र्शनमित्यादि” “दिवोदितं यत् कर्म्मेत्युक्रम्य शर्वर्य्याः प्रथमेयामे तत् कुर्वीताविचारयन्नित्यादि” च शास्त्रंसार्थकम् । अपरद्रव्यगते शुद्ध्यशुद्धी तावदिदानीं निरू-प्येते । तत्रादौ द्रव्यशुद्ध्यशुद्धिसम्पादकं द्रव्यादिकमुच्यते ।“शारीरैर्मलैः सुराभिर्मद्यैर्यदुपहतं तदत्यन्तोपहतम् । अत्य-न्तोपहतं सर्व्वलौहभाण्डमग्नौ प्रक्षिप्तं शुध्येत्’ मणिमयमश्मेमयमब्जं च सप्तरात्रं महोनिस्यनेन शुध्येत् दन्ता-स्थिभवं सं तक्षणेन, दारवं मृण्मयञ्च जह्यात् । अत्यन्तो-पहतस्य प्रक्षालितस्य त्रिरवद्य तच्छिन्द्यात्” विष्णुः“अत्यन्तोपहतानां सर्व्वतैजसानामग्निना शौचं मृण्मयच-र्मणां त्यागः, तन्मात्रच्छेदमित्येके धारणं हि नववाससांशौचमित्याचार्य्याः तस्मात् सर्व्ववाससामाप्लावनादेवशुद्धिः” हारी० “तैजसानां कुणपरेतोमूत्रपुरीषो-पहतानामावर्त्तनमुल्लेखनं भस्मना त्रिःसप्तकृत्वः परिमार्जनमुच्छेदनं वा” शङ्खलि० “मूत्रपुरीषासृक्कुणपस्पृष्टानांतैजसानां पात्राणां पूर्व्वोक्तानामन्यतमेन त्रिःसप्तकृत्वःपरिमार्ज्जनम्” “क्षौमाणि वासांसि तेषामलाभे कार्पासिकान्यौर्ण्णकानि भवन्ति मूत्रपुरीषलोहितरेतःप्रभृत्युपहतानांमृदाद्भिः प्रक्षालनं वासोवदूर्ण्णावल्कलानां, वल्कलवत्कृष्णाजिनानाम्” इति च बौधा० “मद्यैर्मूत्रपुरीषैश्च श्लेष्मभिरश्रुशोणितैः । संस्पृष्टं नैव शुध्येत पुनःपाकेन मृण्म-यम् । एतैरेव यदा स्पृष्टं ताम्रसौवर्ण्णराजतम् । शुध्यत्या-वर्त्तितं पश्चादन्यथा केवलाम्भसा” शङ्खवशिष्ठकाश्यपाः“अलाबुदारुपात्राणां वैदलानां तथैव च । अत्यन्तोपहता-नाञ्च परित्यागो विधीयते । अत्र मूत्रपुरीषाभ्यां रेतसारुधिरेण च । चेलं यदुपहन्येत पुनः प्रक्षालयेत्तु तत् ।यद्यम्भसा न शुध्येत्तु वस्त्रं वोपहतं दृढम् । छेदनं तस्यदाहो वा यन्मात्रमुपहन्यते । मृत्तिकाक्षारपातेन अशुद्धंतत् परित्यजत्” यमः । “वस्त्रवैदलचर्माद्ये शुद्धिः प्रक्षालनंस्मृतम् । अतिदुष्टस्य तन्मात्र त्यजेच्छित्त्वात्मशुद्धये”वृह० । “दूषितं वर्जितं दूष्य कश्मलं चेतिलिङ्गिनाम् । चतुर्विधममेध्यं च सर्व्वं व्याख्यास्यते पुनः ।शुच्यप्यशुचिसंस्पृष्ट द्रव्यं दूषितमुच्यते । अभक्ष्यभोज्यपेयानिवर्ज्जितानि हि वक्ष्यति । न्यङ्कुः पतितचण्डालौ ग्रामशूकरकुक्कटौ । श्वा च नित्यं विवर्ज्याःस्युः षडेते धर्मतःसमाः । सव्रणः सूतकी सूती मत्तोन्मत्तौ रजस्वला ।मृतबन्धुरशुद्धश्च वर्ज्यान्यष्टौ स्वकालतः । स्वेदाश्रुविन्दवःफेनोनिरस्तं नखरोम च । आद्रचर्म त्वगित्येतद् दूष्यमाहुर्द्विजातयः । मानुषास्थिकफोविष्ठारेतोयूत्रार्त्तवानिच । कुणपः पूयमित्येतत् कश्मलं चेत्युदाहृतम् । दूषितेप्रोक्षितेनापि शुद्धिरुक्ता विधानतः । दूष्ये मार्ज्जन-संस्कारैः कश्मले सर्व्वथा भवेत्” देवलः । अथभूमि शुद्ध्य-शुद्ध्युपायादि । “प्रसूते गर्भिणी यत्र म्नियते यत्रमानुषः । चण्डालैरुषितं यत्र यत्रोपन्यस्यते शवः ।विण्मूत्रे चाहिते यत्र कुणपोयत्र दृश्यते । एवं कलमशभुयिष्टा भूरमेध्येति लक्ष्यते । कृमिकीटपदक्षेपैर्दूषितायत्र मेदिनी । त्रप्सया कर्षणेः क्षिप्ता वान्तैर्वा दूष्यतांव्रजेत् । नखदन्ततनूजत्वक्तुषपांशुरजोमलैः । भस्मपङ्कतृणैर्वापि प्रच्छन्ना मलिना भवेत् । पञ्चधा वा चतुर्द्धावा भूरमेध्या विशुध्यति । दूष्या द्विधा त्रिधा वापिशोध्यते मलिनैकधा । दहनं खनन भूमेरुपलेपनवापने ।पर्ज्जन्यवर्षणं चेति शौचं पञ्चविधं स्मृतम्” देव० । त्रप्सा घनी-भूतश्लेष्मा “संमार्जनेनाञ्जनेन सेकेनोल्लिखनेन च । गवां च प-रिवासेन भूमिः शुध्यति पञ्चभिः” मनुः । “खननात् पूर-णाद्दाहाल्लेपनादभिघर्षणात् । गोभिराक्रमणात् कालाद्भूमिःशुध्यति सप्तभिः” यमः । “घनाया भूमेरुपघाते उपलेपनम्सुषिरायाः कर्षणम् आच्छन्नाया मेध्यमाहृत्य प्रच्छादनम्चतुर्भिः शोध्यते भूमिः गोभिराक्रमणात् खननाद्दहना-दभिघर्षणात् पञ्चमाल्लेपनात्” बौधा० “कर्षणमुपलेपन-मद्भिरभ्युक्षणं कालोदाहश्च भूमेः” शङ्खलि० शुद्धिरिति शेषः ।“खननात् पूरणाद्दाहाल्लेपनादभिघर्षणात् । गोभिराक्र-मणात् कालात् भूमिरेभ्यो विशुध्यति” हारी० । “मार्जनोपा-ञ्जनैर्वेश्म प्रोक्षणेन च पुस्तकम् । मार्ज्जनेनाञ्जनेनापि सेके-नोल्लेखनेन च । दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम्”विष्णुः “गोचर्म्ममात्रमब्विन्दुर्गोः (भूमेः) शोधयतिपातितः समूढमसमूढं वा यत्र लेपो न दृश्यते” बौधामृतौ वर्ण्णादिशेषे कालभेदः । श्वशूद्रपतिताश्चान्त्या मृता-श्चेद् द्विजमन्दिरे । शौचं तत्र प्रवक्ष्यामि मनुना भाषितंयथा । दशरात्राच्छुनि प्रेते मासात् शूद्रे भवेच्छुचिः ।द्वाभ्यां तु पतिते गेहे अन्त्ये मासचतुष्टयात् । अत्यन्ते वर्ज-येद्गेहमित्येवं मनुरब्रवौत्” वृ० मनुः । अत्यन्त्यः श्वपाकः ।द्विजस्य मरणे वेश्मविशुध्यति दिनत्रयात् । दिनैकेन बहि-र्भूमि रग्निक्षेपप्रलेपनैः” यमः । यथोक्तकालानन्तर कर्त्तव्यमाहसंवर्त्तः गृहश्रुद्धिं प्रवक्ष्यामि अन्तःस्थशवदूषिते । प्रोत्सार्य्यमृण्मयं पात्र सिद्धमन्न तथैव च । गृहादपास्य तत्सर्वंगोमयेनोपलेपयेत् । गोमयेनोपलिप्याथ छागेनाघ्रापये-द्वुधः । ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिभिः । सर्व्व-मभ्युक्षयेद्वेश्म ततः शुध्यत्यसंशयः । “दारुवदस्थिभूभ्योरावपन च भूमेः” गौत० “मार्जनाद्वेश्मनां शुद्धिः”क्षितेः शुद्धिस्तु सप्तभिः” शङ्खः । अशुद्ध्यपवादः “ब्राह्वणावसथेभूमिर्देवागारे तथैवच । मेध्या चैव सदा मन्ये गवां गोष्ठेच या भवेत्” यमः । “रथ्याकर्द्दमतोयानि नावः पन्थास्तृ-णानि च । स्पर्शनान्न प्रदुष्यन्ति पक्वेष्टरचितानि च” परा०रथ्याकर्द्दमतोयानि स्पृष्टान्यन्त्यैश्च वायसेः । मरुतार्केणशुध्यन्ति पक्वेष्टरचितानि च । तथैभिश्च विशुध्यन्ति सूर्य्यसोमांशुमारुतैः” विष्णुः । अथ मृत्तिकाशुद्धिः “व-ल्मीकादुत्कराल्लेपाज्जलाध्वपथिवृक्षयोः । कृतशौचावशि-ष्टाश्च न ग्राह्याः सप्न मृत्तिकाः । शुचिदेशे च संग्राह्याःशर्कराश्मादिवर्ज्जिताः” शाता० । अथ पक्वान्नादिशुद्ध्युशुद्ध्युपायाः । “केशकीटक्षुतघ्रातं वायसोपहतञ्च यत् क्लीवाभि-शस्तपतितैः सूतिकोदक्यनास्तिकैः । दूष्यं वा स्याद्यदन्नंतु तस्य निष्कृतिरुच्यते । अभ्युक्ष्य किञ्चिदुद्धृत्य तद्भुञ्जीताविशङ्गितः । भस्मना वापि संस्पर्श्य संस्पर्श्य वोल्मुखेन च ।सुवर्ण्णरजताभ्यां च भोज्यं घ्रातमजेन वा” । घृतं सपायसंक्षीरं तथैवेक्षुरसो गुडः । शूद्रभाण्डस्थितं तक्रं तथा मधुन दुष्यति” शाता० “त्वक्केशकीटरोमनखाश्रुपुरीषाणिदृष्ट्वा तद्देशपिण्डान्नमुद्धृत्याद्भिरभ्युक्ष्य भस्सनावकार्य्याभि-घार्य्यपुनरपि प्रोक्ष्य वाचा प्रशस्तम् ॐ भूर्भुवः स्वरित्युपरिपरिशीध्य च पुनरेवोपयुञ्जीत” बौधा० । “मसू-रमाषसंयुक्तं तथा पर्य्युषितं च यत् । तत्तु प्रक्षालितंकृत्वा भुञ्जीत ह्यभिघारितम्” यमः “माषाराजमा-षाः” हेमा० । पर्य्युषितभीजनविधानमापद्विषयम्“शुक्तानि हि द्विजोऽन्नानि न भुञ्जीत कदाचन । क्षालयि-त्वा तु निर्दोषाण्यापद्धर्म्मगतो यदा” तस्यैव वचनान्त-रात् “मक्षिकाकेशमन्नेषु पतितं यदि दृश्यते ।मूषिकस्य पुरीषं वा क्षुतं यच्चावधूनितम् । भस्मनास्पृश्यवाश्नीयादभ्युक्ष्य सलिलेन वा” यमः । क्षुतेनाक्रान्तमवक्षुतम्अवधूनितं वस्त्रेण । “अवक्षुतं काकपतङ्गकीटैरुदक्ययावा पतितैश्च दृष्टम् । अलातभस्माम्बुहिरण्यछागैः संस्पृष्ट-मन्नं मनुराह भेज्यम्” यमः । अस्यापवादः “मक्षिका मशकादंशा घुणा सूक्ष्मपिपीलिका । आमिषामेध्यसेवी च नैते कीटानिसर्गतः । यम “पाक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् । दूषितंकेशकीटैश्च मृत्प्रक्षेपेण शुध्यति” मनुः । गोध्रातेऽन्नेतथा केशमक्षिकाकीटदूषिते । सलिलं भस्म मृद्बारि प्रक्षेप्तव्यंविशुद्धये । अत्र मक्षिका विंष्ठामक्षिका “केशकीटक्षुतनिष्ठीवितंवचोऽभिहतं श्वभिराघ्रातं प्रेक्षितं यच्च पर्य्युषितम् पुनःसिद्धं चण्डालेनावेक्षितमभोज्यमन्नमन्यत्र हिरण्योद-कस्पर्शात्” सुमन्तुः “आकरजानां त्वभ्यवहरणीयानां घृते-नाभिघारितानां शुद्धिः पुनःपचनमेव स्नेहानां, स्नेह-वद्रसानां, संहतानामद्भिः प्रीक्णमतिद्रवाणामुत्पवनम, शुष्काणामुद्धृतदोषाणां संस्कारः परिप्लावितानां, दोषाणांततस्त्यागः” शङ्खलि० । “परोक्षमन्नं संस्कृत्य अग्नावधिश्रित्याद्भिः प्रोक्षेत्तदन्नं पवित्रम्” आप० । “अनिष्टगन्धोप-घ्राणश्रवणदर्शन केशकीटपिपीलिकाभिरन्नाद्योपघाते काञ्चनरजतवैदूर्य्यप्रबालगोबालाजिनदर्माणामेकतमेनाद्भिः सं-स्पृष्टेन मन्त्रप्रोक्षणं पर्य्यग्निकरणमादित्यदर्शनात् पूतंभवति वह्वन्नोपघाते ब्राह्मणमत्या तदन्तरमपनीय अजमव-घ्राप्य पूतं भवति त्यागोरसमयानाम्” हारी० । सिद्धहविषां महतां श्ववायसप्रभृत्युपहतानां तद्देशपिण्डमुद्धृत्य“पवमानः सुवर्ज्जन” इत्यनुवाकेनाभ्युक्षणं मधूदके पयो-विकारे च पात्रान्तरनयने शुड्विः एवं तैलसर्पिषी, उच्छिष्टसमन्वारब्धेतूदकेऽवधायोपयोजयेत्” वौधा० उच्छिष्टसम-न्वारब्धे उच्छिष्टसंस्पृष्टे” हेमा० । पयोदधिविकारादिशुचि पात्रान्तरे स्थितम् । पावनोत्पवनाभ्यां च पर्य्यग्नि-करणेन च” लौगा० “पवनं वस्त्रादिना गालनम्उत्पवनं दर्भपवित्रेण “सवितुष्ट्वाप्रसव उत्पुनामि” इत्यनेनमन्त्रेण संस्करणम् । “आममांसं घृतं क्षौद्रं स्नेहाश्च फल-सम्भवाः । म्लेच्छभाण्डस्थिता दुष्टा निष्क्रान्ताः शुचयः स्मृताः”यमः “श्रपणं घृततैलानां प्लावनं गोरसस्य च । भाण्डा-नि प्लावयेदद्भिः शाकमूलफलानि च । सिद्धमन्नं तथासर्पिः क्षीरञ्च दधि चाम्बु च । एतेषामवलीढानां तैजसीशुद्धिरिष्यते काकमार्जारनकुलसर्पमूषिकपक्षिभिः ।संस्कतं तु यदाह्यग्रमवलिह्येत केनचित् । मुवर्ण्णवर्ण्णताम्नोष्णैर्गोबालै रजतेन वा । स्पृष्टमेकतमेनापि भोज्यंघ्रातमजेन वा” शङ्ख० । तैजसी शुद्धिः पर्य्यग्निकरणम् ।इयं शुद्धिः केशादिकं दूषकमुद्धृत्य कार्य्या” हेमा० ।“घृतदधिपयस्तक्राणामाकरस्थितानामदोषः” ङ्खः “आ-धारदोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् ।घृतं तु पायसं क्षीरं तथैवेक्षुरसं गुडम्” द्रव-द्रव्याणि भूरीणिं परिप्लाव्यानि वाम्भसा । शस्यानिव्रीहयश्चैव शाकमूलफलानि च । त्यक्त्वा तु दूषितं भागमाप्लाव्याथ जलेन च । ब्रह्मा० । “द्रोणादभ्यधिकं सिद्धमन्नमुपहतं न दुष्यति । तस्यीपहतमात्रमपास्य गायत्र्यभिमन्त्रितं सुवर्ण्णाम्भः क्षिपेत् वस्तस्य च दर्शयेदग्मेः” । विष्णुः ।“शृतं द्रोणाधिकं चान्नं श्वकाकैरुपघातितम् । न त्याज्यंतस्य शुद्ध्यर्थं ब्राह्मणेभ्यो निवेदयेत् । कर्त्तव्यं वचनं तेषा-मन्नसंसकारकर्म्मणि” “द्रोणाधिकस्य शुद्धिस्तु धर्म्मशास्त्रेषुपठ्यते । श्वकाकैरवणीढं तु द्रोणान्नं न विसर्ज्जयेत् । ग्रासमुद्धृत्य तन्मात्रं यच्च लालाश्रितं भवेत् । सुवर्ण्णोदकेनाभ्युक्ष्यज्वलनेन तु तापयेत् । विप्राणां मन्त्रघोषेण पूतं भोज्यं चतद्भवेत्” परा० । द्रोणन्यूनपरिमाणस्यान्नस्य श्वाद्यवलेहमहोपघातदूषितस्य त्याग एव कर्त्तव्यः यथाह सएव ।“श्ववायसगवाद्यैस्तु जग्धमन्नं यदा भवेत् । स्नेहो वागोरसोवापि तत्र शुद्धिः कथं भवेत्? । अन्नं परित्यजेत्तत्रस्नेहस्य पावनेन तु । अश्वस्तनतया शुद्धिर्गोरमस्य विधी-यते । तत्रैव विषये देवलः “अवलीढं श्वमार्जारधाङ्क्षकुक्कुटमूषिकैः । भोजने नोपयुञ्जीत तदमेध्यं हि सम तः”चण्डालादिस्पृष्टस्य द्रोणाधिकस्यापि त्यागएव कार्य्य इत्याह“चण्डालेन शुना वापि दुष्टमन्नमयज्ञियम् । च-ण्डालादिभिरुच्छिष्टैः स्पृष्टं भूयोऽपि वर्जयेत्” वसि-ष्ठः । तत्रापवादः देवद्रोण्यां विवाहेषु यज्ञेषुप्रकृतेपु च । काकैः श्वभिश्च संस्पृष्टमन्नं तन्नविवर्ज्जयेत् । तन्मात्रमन्नमुद्धृत्य शेषं संस्कारमर्हति”द्रवाणां प्लावनेनैव घृतानां प्रोक्षणेन च । छागेन मुखसंस्पृष्टं शुचि त्वेवहि तद्भवेत्” वृह० “तीर्थे विवाहे यात्रा-यां संग्रामे देशविप्लवे । नगरे ग्रामदाहे च स्पृष्टास्पृष्टि नदुष्यति । गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः ।अमीमांस्यानि शौचानि स्त्रीभिराचरितानि च”वृह० “कन्दुपक्वानि तैलानि पायसं दधि सक्तवः ।एतान्यशूद्रान्नभुजोभोज्यानि मनुरब्रवीत्” शाता० ।द्रव्यविशेषे या शुद्धिरुक्ता सान्नान्तरसम्पादनाशक्तिरूपायामापद्येव कार्य्या । अनापदि तु दुष्टमन्नं परित्यज्यान्नान्तरंसंपाद्यम् यथोक्तं वायुपु० । “अन्नं पश्येयुरेते तु यदि वैहव्यकव्ययोः । उत्क्षेप्तव्यं प्रधानार्थंसंस्कारस्त्वापदि स्मृतः”“हविषां संस्कृतानान्तु मुख्यमेव वि वर्जनम् । मृत्प्रयुक्ता-भिरर्द्भिर्वा प्रोक्षणं तु विधीयते । सिद्धार्थकैः कृष्णतिलैः कार्य्यंवाप्यवकीरणम् । द्विजसूर्य्याग्निवस्तानां दर्शनं तु प्रयत्नतः”ब्रह्मपु० । अथोदकशुद्ध्यशुद्द्युपायाः । “उच्छिष्टं मलिनं क्लिन्नंयच्च विष्ठानुलेपितम्” इत्युपक्रम्य “सूर्य्येन्दुरश्मिपातेनमारुतस्पर्शनेन च । गवां मूत्रपुरीषेण शुध्यन्त्याप इतिस्थितिः” वृह० । “मृतपञ्चनखात् कूपादत्यन्तोपहतात्त-था । अपः समुद्धरेत् सर्व्वाः शेषं शस्त्रेण शोधयेत्” । वह्निप्रज्वालनं कृत्वा कूपे पक्वेष्टकाचिते । पञ्चगव्यं न्यसेत् पश्चात्नवतोयसमुद्भवे । जलाशयेष्वयाल्पेषु स्थावरेषु महीतले ।कूपवत् कथिता शुद्धिः महत्सु च न दूषणम्” विष्णुः“रथ्या कर्द्दभेत्यादिप्रागुक्तं ४८१ पृ० “भूमिस्थमुदकं पुण्यंवैतृष्णं यत्र गोर्भवेत् । अव्याप्तः चेदमेध्येन तद्वदेव हिशोधनम्” वापीकूपतडागेभ्य आपोग्राह्यास्तु सर्व्व-शः । “पश्चात् पश्येदमेध्यन्तु पञ्चगव्येन शुध्यति” परा०“अस्थिचर्म्मावसिक्तं यत् श्वमार्ज्जाराखुमूषिकैः । दूषितंयद्भवेत्तोयम्” इत्युपक्रन्य “अस्थिचर्म्मावपतितं खरवानरशूकरैः । उद्धरेदुदकं सर्वं शोधनं परिमार्जनम् ।वापीकृपतडागेषु दूषितेषु कथञ्चन । उद्धृत्य वै कुम्भ-शतं पञ्चगव्येन शुध्यति । खनिकूपतडागेषु संदिग्धेषुविशेषतः । तेभ्योहृत्वा घटशतं पञ्चगव्येन शुध्यति ।पादुकोपानद्विण्मूत्रं कूपे यदि निमज्जति । षष्टिंकुम्भान् समुद्धृत्य पञ्चगव्येन शुध्यति” परा० अथनानाद्रव्यशुद्ध्यशुद्धी “श्वपाकोयत् स्पृशेद्द्रव्यं मृण्मयंद्रवमेव वा । पक्वं वा भोज्यंकल्कं वा तत् सर्वं परिवर्जयेत्उच्छिष्टाशुचिभि स्पृष्टमद्रवं शोध्यतेऽम्भसा” ऊनं वापिप्रभूतं वा शोधयेत् प्रोक्षणादिभिः देव० । तैजसानांमणीनाञ्च सर्व्वस्याश्ममयस्य च । भस्मनाद्भिर्मृदा चैवशुद्धिरुक्ता मनीषिभिः ॥
निर्लेपं काञ्चनं भाण्डमद्भिरेवविशुव्यति । अब्जमश्ममयञ्चैव राजतञ्चानुपस्कृतम् ॥
अपामग्नेश्च संयोगाद्धैमरूप्यञ्च संबभौ । तस्मात्तयोःस्वयोन्यैव निर्णेको गुणवत्तरः ॥
ताम्रायःकांस्यरैत्यानांत्रपुणः सीसकस्य च । शौचं यथार्हं कर्त्तव्यं क्षाराम्लोदक-वारिभिः ॥
द्रवाणाञ्चैव सर्व्वेषां शुद्धिरुत्प्लावनं स्मृतम् ।प्रोक्षणं संहतानाञ्च दारवाणाञ्च तक्षणम् ॥
मार्ज्जनं यज्ञ-पात्राणां पाणिना यज्ञकर्म्मणि । चमसानां ग्रहाणाञ्चशुद्धिः प्रक्षालनेन तु ॥
चरूणां स्रुक्स्रुवाणाञ्च शुद्धिरु-ष्णेन वारिणा । स्फ्यशूर्पशकटानाञ्च मुषलोलूखलस्य च ॥
अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेनत्वल्पानामद्भिः शौचं विधीयते ॥
चेलवच्चर्म्मणां शुद्धिर्व्वैद-लानान्तथैव च । शाकमूलफलानाञ्च धान्यवच्छुद्धिरिष्यते ॥
कौशेयाविकयोरूषैः कुतपानामरिष्टकै । श्रीफलैरंशुपट्टानांक्षौमाणां गौरसर्षपैः ॥
क्षौमवच्छङ्खशृङ्गाणामस्थिदन्तमयस्यच । शुद्धिर्विजानता कार्य्या गोमुत्रेणोदकेन वा ॥
प्रोक्ष-णात्तृणकाष्ठञ्च पलालञ्चैव शुध्यति । मार्ज्जनोपाञ्जनैर्वेश्मपुनःपाकेन मृण्मयम् ॥
मद्यैर्मूत्रैः पुरीषैर्व्वा ष्ठौवनैःपूयशोणितैः । यावन्नापैत्यमेध्याक्ताद्गन्धोलेपश्च तत्कृतः ।तावन्मृद्वारि चादेयं सर्व्वासु द्रव्यशुद्धिषु” मनुः ॥
“कुसुम्भकुङ्कुमानां च ऊर्ण्णाकर्पासयोस्तथा । प्रोक्षणादितथा शुद्धिरित्याह भगवान् यमः” शङ्खः “तूलिकामुपधानानिपुष्परक्ताम्बराणि च । शोधयित्वातपे किञ्चित् करेण मार्ज-येन्मुहुः । पश्चाच्च वारिणा प्रोक्ष्य शुचीन्येवमुदाहरेत् ।तोयाभावे परस्पर्शे भूमीसंवेशनेऽपि च । कुण्डिकायाः प०रित्यागोदहनं वापदि स्मृतम्” देवलः । आमान्नपरिशोधनेबिशेषमाह हारीतः । “तस्य यन्मात्रमुपहतं तन्मात्रंपरित्यज्य शेषस्य कण्डनप्रक्षालने कुर्य्यात् । “पयसां दध्नांक्रीतानामवहननपवनैः, ब्रीहियवगोधूमानां घर्षणद-लनपेषाद्यैः शिम्बिधान्यानां कण्डनविमृशनप्रक्षालनैःफलीकृतानां घर्षणप्रक्षालेन पर्य्यग्निकरणैःशाकमूलफलानांभूस्थानग्रहणप्रक्षालनैः इक्षुकाण्डानां, स्वविधिविघानात्यज्ञहविषां श्रपणमेव स्नेहानां पुनः पाककृतलवणानांषुक्कसादिभिः स्पृष्टानां भूस्थानं तृणकाष्ठानामादित्य-दर्शनाच्छौचम् । हारी० “गवाघ्रातेषु कांस्वेषु शूद्रो-च्छिष्टेषु वा पुनः । दशभिर्भस्मभिः शुद्धिः श्वका-कोपहतेषु च” शाता० । दुष्टाभिशस्तपतिततिर्य्य-गधोवर्ण्णोपहतानामित्यनुवृत्तौ “यानशयनासनानि परि-हार्य्याणोत्येके सन्यन्ते असंस्कृतायां भूमौ न्यस्तानांतृणानां प्रक्षालनं न रक्षोपहतानामभ्युक्षणम् एषंक्षुद्रसमिधां महतां काष्ठानामुपघाते प्रक्षाल्या-वशोधनं दारुमयाणामुच्छिष्टसमन्वारब्धानामनुलेखनम्उच्छिष्टलेपोपहतानामेव तक्षणं मूत्रपुरीषलोहितरेतःप्रभृतिभिरुत्सर्गः मृण्मयानां पात्राणामुच्छिष्टसमन्वा-रब्धानामवज्वालनम् उच्छिष्टलेपोपहतानां पुनर्दहनंमूत्रपुरीषलोहितरेतःप्रभृतिभिरुत्सर्गः” बौधा० ।शौचं सहस्रलोम्नां तु मारुतार्केन्दुरश्मिभिः । रेतः-स्पृष्टं शवस्पृष्टमाविकं नैव शुध्यति” अङ्गिराः ।अथाशुद्ध्यपवादः । नित्यमास्यं शुचि स्त्रीणां शकुनिःझलपातने । स्नवने तु शुचिर्वत्स श्वा मृगग्रहणे शुचिः”मनुः “वत्सः प्रस्नवने मेध्यः शकुनिः फलपातने । स्त्रियश्चरतिसंसर्गे श्वा मृगग्रहणे शुचिः” शाता० “श्वभिर्हतस्य यन्मां-सं शुचि तन्मनुरब्रवीत् । क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्चदस्युभिः” मनुः “तथा मांसं श्वचण्डालक्रव्यादरदिनिपाति-तम्, याज्ञ० । शुचीति शेषः । “श्वहताश्च मृगा धन्याःपातितं तु खगैः फलम् । बालैरनुपरिक्रान्तं स्त्रीभिरा-चारितञ्च यत् । प्रसारितञ्च यत् पण्यं ये दोषाः स्त्रीमुखेषुच । मशकैर्मक्षिकाभिश्च निलीनं नोपहन्यते । क्षितिस्था-श्चैव याआपो गवां तृप्तिकराश्च याः” । वसि० “रश्मिरग्नि-रजश्छाया गौरश्वो वसुधाऽनिलः । विप्रुषोमक्षिकाः स्पर्शेवत्सः प्रस्नवने शुचिः । कारुहस्तः शुचिः पण्यं भैक्ष्यंयोषिन्मुखं तथा” याज्ञ० । “आत्मशय्यासनं वस्त्रंजाया पात्रं कमण्डलुः । शुचीन्यात्मन एतानि परे-षामशुचीनि तु” बौधा० । “स्वा भार्य्या शिशुर्वस्त्रंस्वमुपवीतं कमण्डलुः । आत्मनः कथितं शुद्धं न तुशुद्धंपरस्य तु” शङ्खः । “आत्मशय्यासनं वस्त्रं मेध्यंवाऽमलदूषितम् । ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमितिस्थितिः । आसनं शयनं यानं स्त्रीमुखं कुतपं क्षुरम् । नदूषयन्ति विद्वांसो यज्ञेषु चमसं तथा । गौरश्वोविप्रुषश्छाया मक्षिका शलभः शलः । अजोहस्ती रणे छत्रंरश्मयश्चन्द्रसूर्य्ययोः । भूमिरग्निरजो वायुरापोदधि घृतंपयः । सर्व्वाण्येतानि शुद्धानि स्पर्शे मेध्यानि नित्यशः”यमः । “शुचिरग्निः शुचिर्वायुः पवित्रा ये वहिश्चराः । आपश्चशुचयोनित्यं पन्थाः सञ्चरणाच्छुचिः । आपःशुद्धा भूमिगताशुचिर्नारी पतिव्रता । शुचिर्धर्म्मपरो राजा संतुष्टोब्राह्मणः शुचिः” यमः । “रजोभूर्वायुरग्निश्च मार्ज्जारश्चसदा शुचिः” विष्णुः “शुद्धं नदीगतं तोयं सर्व्व एवतथाऽऽकराः । शुद्धं प्रसारितं पण्यम् शुद्धमश्वाजयोर्मु-खम् । मुखवर्जं च गौः शुद्धा मार्ज्जारश्चंक्रमे शुचिः”शङ्ख० । “अदूष्या सन्तता धारा वातोद्धूताश्च रेणवः ।स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन । मार्ज्जा-रश्चैव दर्व्वी च मारुतश्च सदा शुचिः” परा० ।आकराः सोमपानं च वाचा यच्च प्रशस्यते” उश० शुचयःइति शेषः । “अदूष्या सन्तता धारा वातोद्धूताश्च रेणवः ।आकराः शुचयः सर्व्वेवर्जयित्वा सुराकरम्” वौधा० “रेणवःशुचयः सर्व्वे वायुना समुदीरिताः । अन्यत्र रासभाजाविश्वसमूहनिवाससाम्” पेठी० “गवाश्वरथनागानां प्रशस्तारेणवःसदा । अप्रशस्ताः समूहन्याःश्वाविरासभवाससाम्” उश०“अपि नोच्छिष्टदोषोऽस्ति मधुनो न च सर्पिषः । नफलानां न चेक्षूणां नाकराणां न योषिताम्” शाता० ।“शुचि पूतं स्वयंशुद्धं पवित्रं चेति केवलम् । मेध्यंचतुर्विघं लोके प्रजानां मनुरब्रवोत्” । तथा “नवं चानिर्मलंवापि शुचीति द्रव्यमुच्यते । शोधितं तु यदान्येन तत्पूत-मभिधीयते । स्वयमेव हि यद् द्रव्यं केवलं धन्यतां गतम् ।स्थावरं जङ्गमं वापि स्वयं शुद्धमिति स्मृतम् । अन्यद्रव्यैरदूष्यं च स्वयमन्यानि शोधयेत् । हव्यकव्येषु पूज्यं य-त्तत्पवित्रमिति स्मृतम् । अथ सर्वाणि धान्यानि हव्यान्या-भरणानि च । अवर्ज्यभक्ष्यजातीनि शुचीन्येतानि केवलम् ।वर्जिते निखिले द्रव्ये शुचिसंज्ञा न वर्त्तते । तस्मिन्नेवेहसर्वत्र शुद्धता न पुनर्भवेत् । तस्माच्छुद्धं तु कर्मण्यं शुची-त्याहुर्मनीषिणः । निर्मलं संस्कृतंद्रव्यं क्रियार्हं पूतमुच्यते ।वसतिश्चमसोयानं वाहनं साधनाम्बु च । छुरी नौरासनंचेति स्वयं शुद्धमिति स्मृतम् । शिशवश्च स्वयंशुद्धायोषितश्चानृतौ तथा । ब्रह्महत्या हि नारीणामृतु-काले न संस्पृशेत् । आकरा हि स्वयं शुद्धा द्रव्याणामिह-निर्ण्णयः । भस्म क्षौद्रं सुवर्ण्णं च सदर्भाः कुतपास्तिलाः ।अपामार्गशमीकाशाः पद्ममामलकं मणिः । माल्यानिनर्षपा दूर्वाः सदा भद्राः प्रियंङ्गवः । अक्षतारोचनालाजाहरिद्राश्चन्दना यवाः । पलाशखदिराश्वत्थतुलसीधातकी-तकी । एतान्याहुः पवित्राणि व्राह्मणा हव्यकव्ययोः ।योक्तिकानि मलघ्नानि शोधनानि च देहिनाम् ।तेष्वापोगोशकृन्मृच्च पवित्राणि विशेषतः । सर्वाशौचविशुध्यर्थं सर्वेषां सर्व्वतः सदा । अकश्मलैः समिद्धोऽग्रि-र्दुर्मनुष्पैरदूषितः । सर्वेषामप्यशौचानां समर्थः शोध-नाय सः । द्रव्याणामग्रिदग्धानां मेध्यत्वमुपदिश्यते ।ज्वालाभिमृष्टपात्राणां शुचित्वं नियतं भवेत् । अग्ने-र्वृषलमुक्तस्य ग्रहणं नास्त्यनापदि । श्नपाको वृषलाभस्तुब्राह्मणोऽग्निरनाहितः । चण्डालाग्नेरमेध्याग्नेः सूत-काग्नेश्च कर्हचित् । पतिताग्नेश्चिताग्नेश्च न शिष्टैर्ग्रहणंस्मृतम् । गोशकृच्छुद्धदेशस्था श्मशानाद्यचिता शिवा ।अग्राम्पा मृद्भवेच्छुद्वा श्लक्ष्णा विण्मूत्रवर्जिता । ऊर्द्ध्वंनाभे-र्यानि खानि तानि मेध्यानिसर्वशः” देवलः । “ऊर्द्धं वैपुरुषस्य नाभेर्मेध्यमर्वाचीनममेध्यमिति” श्रुतिः । “अजाश्वंमुखतोमेध्यं न गौर्न नरजा मलाः” विष्णुः ऊर्द्ध्वं नाभेःपुरुषोगौर्मेध्यः पृष्ठे समन्तादश्वः स्त्रियः सर्वतो हृदय-मासामशुचि” उश० । “मेध्या रहोगता नारी स्त्री मुखेशुचिचारिणी । स्पर्शने तु न दुष्यन्ति वातो गन्धोरसःस्त्रियः । स्त्रीणां मुखरसश्चैव गन्धोनिश्वास एव च । मु-खतोगौरमेध्यास्यान् मेध्योऽजोमुखतः स्मृतः । पृष्ठतोगौर्गजःस्कन्धे सर्वतोऽश्वः शुचिस्तथा । नृणां मूत्रपुरीषे तु अमे-ध्ये मल एव च । गोपुरीषं तु मूत्रं च नित्यं मेध्यमितिस्थितिः । यमः “पादौ शुची ब्राह्मणानामजाश्वस्य मुखंशुचि । गवां पृष्ठानि मेध्यानि सर्वगात्राणि योषिताम् ।रोमोद्भेदे शशी भुङ्क्ते गन्धर्वाः कुचदर्शने । अनलस्तुरजोभुङ्क्ते स्त्रियोमेध्यास्तु नान्यथा । बलात्कारोपभुक्तावा चौरहस्तगतापि वा । स्वयं वा प्रतिपन्ना वाअथवा विप्रमादिता । अत्यन्तदूषितापि स्त्री न परित्या-मर्हति । सर्वेषां निष्कृतिः प्रोक्ता नारीणां तु विशेषतः ।स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासिमासिरजस्तासां दुष्कृतान्यपकर्षति । सोमः शौचं ददौ स्त्रीणांगन्धर्वश्च शुभां गिरम् । पावकः सर्वभक्षत्वं मेध्या वै-योषितो ह्यतः” । ज्योतिषोक्तम् स्वराश्यपेक्षया इष्टसमयेअनिष्टस्थानस्थरव्यादिकतयानिष्टसूचनमपि अशुद्धिःज्योतिषोक्तनञः पर्य्युदासप्रसज्यप्रतिषेधोभयपरतायाःसर्वनिवन्धृभिर्व्यवस्थापनात् तत्र निषिद्धकालस्य न केवलंरात्र्यादिकालादिवत् पर्य्युदस्तता किन्तु प्रसज्यप्रतिषेध-परतया अनिष्टविशेषसूचकतापि तेन तत्र तत्र अनि-षिद्धकालस्याशुद्धता । अतएव गोचराशुद्धिः कालाशुद्धि-रिति च व्यवह्रियते” तथाच ज्योतिषोक्तदिशा तत्तत्-कालानां तत्तत्कर्म्मकरणायोग्यताप्रयोजकतया शुक्रा-स्तादिकालस्याशुद्धता सा च अकालशब्दे उक्तप्राया । “र-विशुद्धौ ग्रहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ” इत्युक्तेः गी-चरे शुभस्थानस्थितौ रव्यादीनां शुद्धिस्तद्वैपरीत्ये अशुद्धिःएवं वर्षर्त्तुमासदिवसानामप्यशुद्धिः सा च कन्यकानांदशवर्षाभ्यन्तरे एव विवेचनीया नातः परम् । “ग्रहशुद्धिमब्दशुद्धिं शुद्धिर्मासत्तुर्दिवसानाम् । अर्वाग्दशवर्षेभ्यःप्रवदन्ति कन्यकाना” मित्युक्तेः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
