| YouTube Channel

अशुद्धं (azuddhaM)

 
शब्दकल्पद्रुमः
Sanskrit
अशुद्धं, त्रि, (न शुद्धम् नञ्तत्पुरुषः ।) अपवित्र ।अकृतशोधनं अशौचयुक्तं यथा शङ्खः, --“ततः श्राद्धमशुद्धौ तु कुर्य्यादेकादशे तथा ।कर्त्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः”
इति ।“शुद्धा भर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयीः ।दैवे कर्म्मणि पैत्रे पञ्चमेऽहनि शुद्ध्यति”
इति शुद्धितत्त्वं
(वर्णाद्यशुद्धियुक्तः ।)