| YouTube Channel

अशितं (azitaM)

 
शब्दकल्पद्रुमः
Sanskrit
अशितं, त्रि, (अश + क्त ।) भुक्तं खादितं तृप्तं ।इति हेमचन्द्रः
(“आप एव तदशितं नयन्ते” ।“तेजोऽशितं त्रेधा विधीयते” ।इति छान्दोग्ये उपनिषदि
“अशितं मात्रया काले पथ्यं याति जरां सुखं”
इति वाभटः
“यावद् यस्याशनमशितमनुप-हत्य प्रकृतिं यथाकालं जरां गच्छति, तावदस्यमात्रा प्रमाणं वेदितव्यं भवति”
इति चरकश्च
)