| YouTube Channel

अशरीरत्व (azarIratva)

 
वाचस्पत्यम्
Sanskrit
अशरीरत्व
न०
अशरीरस्य भावः त्व शरीरसम्बन्धराहित्ये२ मोक्षे यथा मोक्षस्याशरीरत्वं तथोक्तं शा० भा० ।“अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः” इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्म्मकार्य्यत्वं मोक्षाख्यस्या-शरीरत्वस्य प्रतिषिध्यत इति गम्यते धर्मकार्य्यत्वे हिप्रियाप्रियस्पर्शनप्रतिषेधोनोपपद्यते अशरीरत्वमेव घर्म-कार्य्यमिति चेत् तस्य स्वाभाविकत्वात् “अशरीरंशरीरेषु अनववस्थेष्ववस्थितम् महान्तं विभुमात्मानंमत्वा धीरो शोचति” “अप्राणोह्यमनाः शुभ्रः अस-ङ्गोह्यषं पुरुष” इत्यादि श्रुतिभ्यः अतएवानुष्ठेयफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम्” ।अयं भावः अभावस्याधिकरणानतिरेकेण शरीरसम्बन्धा-भावस्य ब्रह्मरूपतया मोक्षस्य तदभिन्नतया तथात्वम् इति