| YouTube Channel

अश (aza)

 
शब्दसागरः
English
अश r. 5th cl. (ऊ) अशू (अश्नुते) 1. To pervade or occupy.
2. To heap or
crowd. r. 9th cl. (अश्नाति) To eat, to eat hungrily. With प्र prefixed,
to begin to eat.
Wilson
English
अश r. 5th cl. (ऊ.) अशू (अश्नुते)
1 To pervade or occupy.
2 To heap or crowd. r. 9th cl. (अश्नाति) To eat, to eat hungrily.
With प्र prefixed, to begin to eat.
Apte
English
अशम् [aśam],
ind.
Ved.
Non-welfare, harm, mischief. शं नो देवी पृश्निपर्ण्यशं निर्ऋत्या अकः
Av.*
2.25.1
अशं केन शाम्यति
Ki.*
15.1.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अश्
मूलधातुः:
अश
धात्वर्थः:
भोजने
गणः:
क्र्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
अश्नाति
धातुप्रदीपः
Sanskrit
अशँ अश भोजने
- अश्नाति आश अशिता अशिष्यति अश्नातु अशान अश्यात् आशीत् अशिशिषति अशाश्यते अनाश्वान् (13) अशितुम् अशनम् अश्नन् 54
शब्दकल्पद्रुमः
Sanskrit
अश (स्वादिं-आत्मं-सकं-वेट् ।) व्याप्ति-संहत्योः अशिष्यते अक्ष्यते अश्नो-ति संहतिः समूहः इति दुर्गादासः
(“यद्ददाति गयास्थश्च सर्व्वमानन्त्यमश्नुते” ।इति याज्ञवल्क्यसंहिता ।)
अश (क्र्यादिं-परं-सकं-सेट् ।) भोजने अश्नात्यन्नंबुभुक्षितः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
अश संहतौ--व्याप्तौ स्वादि० आत्म०
सक०
वेट् अश्नुतेआशिष्ट आष्ट आनशे अशिता--अष्टा अक्ष्यते-अशिष्यते अश्लुवानः अष्टिः व्यष्टिः समष्टिः “खंप्रावृषेण्यैरिव चानशेऽब्दैः” भट्टिः “प्रतापस्तस्यभानोश्च युगपद्यानशे दिशः” रघुः
अश भोजने क्र्यादि०
पर०
सक०
सेट् अश्नाति आशीत् ।आश अशिता अशिष्यति “त्र्यहं परञ्च नाश्नीयात्प्राजापत्यं चरन् द्विजः, मनुः तदहं भक्त्युपहृतम-श्रामि प्रयतात्मनः” गीता
क्षीरतरङ्गिणी
Sanskrit
अशँ अश भोजने
- अश्नाति अशिता उपेयिवाननाश्वाननूचानश्च (32109) इत्यनाश्वान् साधुः आशितः कर्ता (61207) आद्युदात्तः घञ् (द्र0 33121)-समाशा गोमता जिताः इष्यशिभ्यां तकन् (उ0 3148)-अष्टका अशिपणाय्यो रुग्लुकौ (दश0 उ0 161 कपाठः) अश्रिः स्वादौ अशू व्याप्तौ (521)-अश्नुते तत्रैव ग्रहणानि 50
धातुवृत्तिः
Sanskrit
अशँ अश (अर्थः) भोजने
( अश्नाति अश्नीतः अश्नासि अश्नामि आश आशिथ आशिव अशिता अशिष्यति अश्नातु अशान अश्नानि आश्नात् आश्नाम् अश्नाः अश्नीयात् ) आशषि ( अश्यात् आशीत् आशिष्टाम् अशिशिषति अशाश्यते आष्टि) "सूचिसूत्रि'' इत्यादिना यङ्, ( आशयति ) "निगरण'' इति नित्यं परस्मैपदम्, ( माभवानशिषत् अनाश्वान् ) "उपेयिवाननाश्वान्'' इति नञ्पूर्वादश्नातेर्भाषायां भूतसामान्ये लिट्, क्वसुरनिट् निपात्यते इदमेवादेशवचनं भूतसामान्ये लिटः कल्पकं, चादेशविषयः इदं निपातनमुत्तरत्रानुवृत्तेर्लङ्लिङ्विषयं भवति, अस्य चोपादानं सादादौ कृतमिति तत एवावगन्तव्यम् ( 1 ) ( 1 ) तत्र हि सदादौ भूतसामान्ये सावकाशस्यास्य ल्टिः परभ्यां विशेषविहिताभ्यां उङलिङ्भ्यां बाधमाश ङ्क्य तद्विधानेऽप्यस्यानुवर्तनादित्युतरितमिति ( अशनायति, ) बुभुक्षतीत्यर्थः, "अशनायोदन्यधनाया'' इत्यादिना बुभुक्षायामीत्त्वापवाद आत्त्वम्, अश्नीत पिबतेति यस्यां क्रियायां सातत्येनोच्यते सा ( अश्नीतपिबता ) मयूरव्यंसकादौ "आख्यातमाख्यातेन क्रियासातत्ये'' इति पाठात्समासे टाप् अश्नुतइति स्वादौ 51
कृदन्तरूपमाला
Sanskrit
1 {@“अश भोजने”@} 2 ‘व्याप्तावश्नुत इत्याहुः, अश्नातीति तु भोजने।’ 3 इति देवः।
आशकः-आशकः-शिका, अशिशिषकः-षिका, 4 अशाशकः-शिका, अशिता-त्री, आशयिता-त्री, अशिशिषिता-त्री, अशाशिता-त्री
5 6 अश्नन्-ती, 7शयन्-न्ती, अशिशिषन्-न्ती
-- अशिष्यन्-न्ती-ती, आशयिष्यन्-न्ती-ती, अशिशिषिष्यन्-न्ती-ती
-- अशाश्यमानः, अशाशिष्यमाणः 8 अट्-अशौ-अशः
-- -- 9 अशितम्- 10 तः, आशितम्-तः, अशिशिषितम्, अशाशितः-तवान्
अशः, आशः, 11 अन्नाशः, कुण्डाशी, 12 नराशी, 13 14 फलाशी, अशि 15 शिषुः
अना 16 श्वान्
अशितव्यम्, आशयितव्यम्, अशिशिषितव्यम्, अशाशितव्यम्
अश 17 नीयम्, आशनीयम्, अशिशिषणीयम्, अशाशनीयम्
आश्यम्, आश्यम्, अशिशिष्यम्, अशाश्यम्
ईषदशः-दुरशः-स्वशः
-- -- अश्यमानः, आश्यमानः, अशिशिष्यमाणः, अशाश्यमानः
आशः, आशः
अशिशिषः, अशाशः
अशितुम्, आशयितुम्, अशिशिषितुम्, अशाशितुम्
18 19 अष्टिः, आशना, अशिशिषा, आशिशयिषा, अशाशा, 20 अशनाया
21 अशनम्, आशनम्, अशिशिषणम्
अशाशनम्
अशित्वा, आशयित्वा, अशिशिषित्वा, अशाशित्वा
समश्य, प्राश्य, समशिशिष्य, समशाश्य
आशम् २, अशित्वा २, आशम् २, आशयित्वा २, अशिशिषम् २, अशिशिषित्वा २, अशाशम्
अशाशित्वा।
प्रासङ्गिक्यः
01
=>
(४८)
02
=>
(९-क्र्यादिः-१५२३। सक। से-पर-)
03
=>
(१६६)
04
=>
[[६। ‘सूचिपूत्रिभूव्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः’ (वा। ३-१-२२) इति यङ्।]]
05
=>
[पृष्ठम्००४६+ ४१]
06
=>
[[१। ‘क्र्यादिभ्यः--’ (३-१-८१।) इति श्ना- विकरणप्रत्ययः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-१११) इति आलोपः।]]
07
=>
[[२। ‘निगरणचलना--’ (१-३-८७) इति ण्यन्तात् परस्मैपदमेव।]]
08
=>
[[३। ‘व्रश्चभ्रस्ज--’ (८-२-३६) इति षत्वम्। तस्य जश्त्वेन डः।]]
09
=>
[[३। ‘क्तोऽधिकरणे ध्रौव्यगतिप्रत्य- वसानार्थेभ्यः’ (३-४-७६) इति अधिकरणे क्तः।]]
10
=>
[[आ। ‘सदोद्गारसुगन्धीनां फलानामलमा- शिताः’ भ। का। (७-३८) आङ्-- पूर्वात् ‘आदिकर्मणिक्तः’--(३-४-७१) इति कर्तरि क्तः।]]
11
=>
[[४। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
12
=>
[[५। ‘सुप्यजातौ णिनिः--’ (३-२-७८) इति णिनिः।]]
13
=>
[[B। ‘परस्त्रीभोगहरणं धर्म एव नरा- शिनाम्। मुखमस्तीत्यभाषिष्ठाः का मे साशङ्कता त्वयि’ भ। का। (९-१२२)]]
14
=>
[[C। ‘फलाशिनो निर्झरकुञ्जभाजः दिव्याङ्गनाऽनङ्गरसानभिज्ञाः।’ भ। का। (१२-४९)]]
15
=>
[[ड्। ‘लोकानशिशिषोस्तुल्यः कृतान्तस्य विपर्यये। वने चिकरिषोर्वृक्षान् बलं जिगरिषुः कपेः।।’ भ। का। (३-५४)]]
16
=>
[[६। ‘उपेयिवान्--’ (३-२-१०९) इति नञ्- पूर्वकादस्मात् क्वसन्तो निपातितः।]]
17
=>
[[E। ‘अशनीयमिवाशंसुर्महानायाद- शोभनः, भ। का। (७-७९)]]
18
=>
[पृष्ठम्००४७+ ४२]
19
=>
[[१। षत्वम् ष्टुत्वम्। ‘तितुत्र--’ (७-२-९) इति नेट्।]]
20
=>
[[२। ‘अ प्रत्ययात्’ (३-३-१०२) इत्य- प्रत्ययः।]]
21
=>
[[३। अशनमात्मन इच्छतीत्यर्थे क्यचि, ‘अशनायोदन्यधनाया बुभुक्षापि- पासागर्धेषु’ (७-४-३४) इति निपा- तनादीत्वाभावः। स्त्रियां क्यजन्तादकारप्रत्ययः।]]