| YouTube Channel

अव्याप्यवृत्तिः (avyApyavRttiH)

 
Apte Hindi
Hindi
अव्याप्यवृत्तिः
स्त्री*
अव्याप्य - वृत्तिः -
"सीमित प्रयोग के एक श्रेणी, देशकाल की स्थिति से आंशिक विद्यमानता "
E Bharati Sampat
Sanskrit
(वि) अव्याप्य सर्वावच्छेदम अप्राप्य वृत्तिः यस्य १. किञ्चिदवच्छिन्नवृत्तिः स्वाधिकरणे अंशविशेषे कालभेदे वा अस्थितः पदार्थः संयोगादिः घटादिश्च सर्वदेशं व्याप्य स्वाधिकरणे गृहादौ वर्तते उदा - ‘अग्रेवृक्षः कपिसंयोगी मूले न’ अत्र कपिसंयोगः स्वाधिकरणे वृक्षे सर्वत्र अव्याप्य एकदेशे (अग्रे) विद्यते मूले विद्यते अतः कपिसंयोगः वृक्षे अव्याप्यवृत्तिः ‘अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते’ (भाषापरिच्छेदः) स्व समानाधिकरणाभावप्रतियोगी द्विविधः १. दैशिकः २. कालिकः आत्मनः विशेषगुणाः - १. बुद्धिः २. सुखम् ३. दुःखम् ४. इच्छा ५. द्वेषः ६. यत्नः ७. धर्मः ८. अधर्मः ९. भावनाख्यसंस्कारः १०. आकाशस्य विशेषगुणः - शब्दः सामान्यगुणौ - ११. संयोगः १२. विभा - एते सर्वे अव्याप्यवृत्तयः (न्यायभाषा)
शब्दकल्पद्रुमः
Sanskrit
अव्याप्यवृत्तिः, त्रि, (अव्याप्य सर्व्वावच्छेदमप्राप्यवृत्तिर्यस्य ।) किञ्चिदवच्छिन्नवृत्तिः ।(“अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते” ।इति भाषापरिच्छेदः ।)स्वसमानाधिकरणाभावप्रतियोगीति यावत् दै-शिककालिकभेदेन द्विविधः तत्पर्य्यायः ।प्रादेशिकः आत्मनो विशेषगुणाः बुद्धिः १सुखं दुःखं इच्छा-४ द्वेषः यत्नः धर्म्मः ७अधर्म्मः भावनाख्यसंस्कारः आकाशस्य वि-शेषगुणः शब्दः १० सामान्यगुणौ संयोग ११विभागश्च १२ एते सर्व्वे अव्याप्यवृत्तयः स्युः इतिन्यायभाषा