| YouTube Channel

अव्याजः (avyAjaH)

 
Apte Hindi
Hindi
अव्याजः
पुं*
- -
"छल कपट का अभाव, ईमानदारी"
अव्याजः
पुं*
- -
"सादगी, अकृतिमता"
E Bharati Sampat
Sanskrit
(पुं) व्याजः (अभावे न.त) १. निष्कपटता २. सहजता ‘इदं किलाव्याजमनोहरं वपुः’ (शाकु.१.१६) (वि) व्याजः यस्य ३. कपटरहितः ४. अकृतकः, सहजः ५. शीघ्रम् ‘सेक्तव्यो यदि मारवस्तरुरयं पाथोदपाथोलवैरव्याजं परिषिञ्च किं चिरयसे कालः परिक्रामति’ (उदटः)
Wordnet
Sanskrit
Synonyms:
अव्याजः
noun
छलाभावः।
"महात्मनः चित्तम् अव्याजम् अस्ति।"
Synonyms:
शुचिता, दाक्षिण्यम्, ऋजुता, आर्जवम्, सारल्यम्, अमाया, अकपटः, अव्याजः, न्यायिता
noun
चित्तस्य सद्वृत्तिः।
"अविनाशः शुचितया कार्यं करोति।"
Synonyms:
सरलता, सारल्यम्, अमाया, निष्कापट्यम्, अव्याजः, अवक्रता, ऋजुता
noun
सरलस्य भावः अवस्था वा।
"स्वभावस्य सरलता इति गुणः नैकानां विद्वज्जनानाम् स्थायीभावः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अव्याजः,
पुं,
(न व्याजः नञ्तत्पुरुषः ।) छलाभावः ।यथा ।“इदं किलाव्याजमनोहरं वपुःतपःक्लमं साधयितुं इच्छति ।ध्रुवं नीलोत्पलपत्रधारयाशमीलतां छेत्तुमृषिर्व्यवस्यति”
इत्यभिज्ञानशकुन्तलानाटके प्रथमोऽङ्कः ।शीघ्रं यथा “सेक्तव्यो यदि मारवस्तरुरयंपाथोदपाथोलवैरव्याजं परिषिञ्च किं चिरयसेकालः परिक्रामति मूले सिक्तरसे दले विग-लिते शीर्णे तथा वल्कले स्यादस्य परिस्थितेःप्रभुरहो धारापि वारां तव
इत्युद्भटः