| YouTube Channel

अव्यवहार्य्यं (avyavahAryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
अव्यवहार्य्यं, त्रि, (वि + अव + हृ + ण्यत् ततोनञ्-समासः ।) व्यवहारायोग्यं अव्यवहरणीयं ।यथा ज्ञानतश्चाण्डालान्त्यस्त्रीगमने तत्तुल्यतयाद्विगुणव्रताचरणे कृतेऽपि व्यवहार्य्यः यथायाज्ञवल्क्यः ।“प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।कामतोऽव्यवहार्य्यस्तु वचनादिह जायते”
पापान्तरेऽप्यव्यवहार्य्यत्वं याज्ञवल्क्योक्तम् ।“शरणागतबालस्त्रीहिंसकान् संवसेन्न तु ।चीर्णव्रतानपि सदा कृतघ्नसहितानिमान्”
“अत्र कामतो महापातकादिवृहत्पापकर्तु-रव्यवहार्य्यत्वदर्शनात् कामतो बहुतरगुणयुक्त-शरणागतादिहन्तॄणामव्यवहार्य्यत्वं तु हीनतर-हन्तॄणां अन्यथा विषमशिष्टतापत्तिः स्यात्” ।इति प्रायश्चित्ततत्त्वम्