| YouTube Channel

अव्यवहार्य्य (avyavahAryya)

 
शब्दसागरः
English
अव्यवहार्य्य
mfn.
(-र्य्यः-र्य्या-र्य्यं) Unactionable, not to be discussed in law.
E.
neg. व्यवहार्य्य actionable.
Yates
English
अ-व्यवहार्य्य (र्य्यः-र्य्या-र्य्यं)
a. Unaction-
able at law.
Wilson
English
अव्यवहार्य्य
mfn.
(-र्य्यः-र्य्या-र्य्यं) Unactionable, not to be
discussed in law.
E.
neg. व्यवहार्य्य actionable.
Wordnet
Sanskrit
Synonyms:
अव्यवहार्य्य
adjective
व्यवहर्तुम् अयोग्यः।
"अव्यवहार्याणि वस्तुनि क्षेप्तव्यानि।"
वाचस्पत्यम्
Sanskrit
अव्यवहार्य्य
त्रि०
वि + अव + हृ--ण्यत्
न०
त० शयनासन-भोजनादौ एकत्रावस्थानायोग्ये पतितादौ “कामतोऽव्यव-हार्य्यस्तु वचनादिह जायते” स्मृतिः अव्यवहार्य्यास्तु पाति-त्यहेतुकर्म्मकारिणः स्मृतावुक्तावेद्यास्तेषां संसर्गविशेषोऽपिनि-षिद्धः यथा “याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम् ।कृत्वा सद्यः पतन्त्येते पतितेन संशयः” देवलः “शरणा-गतबालस्त्रीहिंसकान् संवसेन्न तु चीर्ण्णव्रतानपि सदाकृतघ्नसहितानपि” या० स्मृ० स्त्रीघातकस्याव्यवहार्य्यत्वञ्चहीनवर्ण्णोपभुक्ताव्यतिरिक्तविषयम् “हीनवर्ण्णोपभुक्ता यात्याज्या बध्याऽपि वा भवेत्” वृह० स्मृतौ तस्या बध्यत्वोक्तेःअत्र कृतप्रायश्चित्तानामपि अव्यवहार्य्यतोक्तेः अकृत-प्रायश्चित्तानां सुतरां तथात्वम् तच्च शङ्कापूर्ब्धं प्रा० त०रघुनन्दनेन समर्थितं यथा “पापाभावे कथमव्यवहा-र्य्यता” इति चेत् या० स्मृतौ वचनादिह जायते इत्युक्ते-स्तथात्वम् तथाच किमिव वचनं कुर्य्यात् नास्तिवचनस्यातिभारः तथाहि पापस्य द्वे शक्ती नरकोत्पादिकाव्यवहारविरोधिका तत्रैकतरशक्तिविनाशेऽपिव्यवहारविरोधिका शक्तिरस्त्येवेति यथोक्तमापस्तम्बेन“नास्यास्मिन् लोके प्रत्यासत्तिर्विद्यते कल्मषन्तु विहन्यते”इति प्रत्यासत्तिर्भोजनादौ सान्निध्यम्” मिताक्षरायान्तुकामतो व्यवहार्य्य इत्येव पाठः तथैव तेन व्याख्यात च“प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् कामतो व्यवहा-र्य्यस्तु वचनादिह जायते” या० स्मृ० “प्रायश्चित्तैः वक्ष्य-माणैरज्ञानाद्यदेनः पापं कृतं तदपैति अपगच्छति नकामतः कृतम्” किन्तु तत्र प्रायश्चित्तविधायकवचनबला-दिह लोके व्यवहार्य्यो जायते इति”--समर्थितश्चायमर्थआशङ्कापूर्ब्धकं तत्रैव यथा “ननु कामकृते प्रायश्चित्ता-भावात् कथं व्यवहार्य्यत्वम्? तदभावश्च “अनभिसन्धिकृते-ऽपराधे प्रायश्चित्तमिति” वसिष्ठवचनात्, “इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् कामतो ब्राह्मणबधेनिष्कृतिर्न विधीयते” इति मनुवचनाच्चावगम्यते नैतत् ।“यः कामतो महापापं नरः कुर्य्यात् कथञ्चन तस्यनिष्कृतिर्दृष्टा भृग्वग्निपतनादृते” इति तथा “विहितंयदकामानां कामात्तद्द्विगुणम्भवेदिति” कामकृतेऽपिप्रायश्चित्तदर्शनात् यत्तु वशिष्ठवचनम् तस्याप्यकामकृतेऽ-पराधे प्रायश्चित्तं श्रुद्धिकरमित्यभिप्रायः, पुनः कामकृतेप्रायश्चित्ताभाव इति यत्तु मनुवचनम् “इयं विशु-द्धिरुदितेत्यादि” तदपीयमिति सर्वनामपरामृष्टद्वादश-बार्षिकव्रतचर्य्याया एव “कामतो ब्राह्मणबधे निष्कृतिर्नविरधीयते” इत्यनेन प्रतिषेधो, पुनः प्रायश्चित्तमात्रस्य, मरणान्तिकादेः प्रायश्चित्तस्य दर्शनात् ननु यदि कामकृतेऽपिप्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेषात्?यदि पापक्षयोऽपि नास्ति तर्हि व्यवहार्यतापि कथम्भवति?उच्यते उभयत्र प्रायश्चित्ताविशेषः शास्त्रतोऽवगम्यते ।अज्ञानकृते सर्व्वत्र पापक्षयः यत्र तु “व्रह्महासुरापगुरु-तल्पगमातृपितृयोनिसम्बन्धावगमस्तननास्तिकनिन्दित कर्म्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातक-संयोजकाश्चेति” गौतमोक्तं महापातकादौ व्यवहार्य्यत्वंनिषिद्धं तस्मिन् पतनीये कर्म्मणि कामतः कृते व्यवहार्य्यत्व-मात्रं पापक्षय इति पापक्षयाभावे व्यवहार्य्यत्वमनुपपन्नम् द्वे हि पापस्य शक्ती नरकोत्पादिका व्यव-हारविरोधिका तत्रैकतरशक्त्यविनाशेऽपि व्यवहारवि-रोधिकायाः शक्तेर्विनाशोनानुपन्नस्तस्मात् पापानपगमेऽपिव्यवहार्य्यत्वं नानुपपन्नम् यत्तु मनुवचनम् “अकामतःकृते पापे प्रायश्चित्तं विदुर्बुधाः कामकारकृतेऽप्याहुरेके-श्रुतिनिदर्शनादिति” तदपि कामकृतेऽपि प्रायश्चित्तप्रा-प्त्यर्थं पुनः पापक्षयप्रतिपादनपरम् अपतनीयेपुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव “अका-मतः कृतं पापं वेदाभ्यासेन श्रुद्ध्यति कामतस्तु कृतंमोहात् प्रायश्चित्तैः पृथग्विधैरिति” मनुस्मरणात् पत-नीयेऽपि कर्म्मणि कामकृते मरणान्तिकप्रायश्चित्ते कल्मषक्षयोभवत्येव फलान्तराभावात् “नास्यास्मिन् लोके प्रत्यास-त्तिर्विद्यते कल्षन्तु निर्हन्यत इत्यापस्तम्बस्मरणात्” इति