अव्यवहार्य (avyavahArya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English अव्यवहार्य avyavahArya not to be practised
अव्यवहार्य avyavahArya not to be discussed in law
अव्यवहार्य avyavahArya unactionable
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishअव्यवहार्य [avyavahārya], Not entitled to eat, drink, or commune in general with people of the same caste, excommunicated.
Not to be made the subject of litigation.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiअव्यवहार्य
"वि*, न* त*" - -
"जो अपने जातिबन्धुओं के साथ खाने पीने का अधिकारी न हो, जातिबहिष्कृत"
अव्यवहार्य
"वि*, न* त*" - -
"जो मुकदमे का विषय न बनाया जा सके, व्यवहार के अयोग्य ।"
Shabdartha Kaustubha
Kannadaअव्यवहार्य
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ವ್ಯವಹರಿಸಲು ಅನರ್ಹನಾದ /ಅಪಾಂಕ್ತೇಯ
निष्पत्तिः - > वि + अव + हृञ् (हरणे) - "ण्यत्" (३-१-१२४)
L R Vaidya
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanशब्दकल्पद्रुमः
Sanskritअव्यवहार्य्यं, त्रि, (वि + अव + हृ + ण्यत् । ततोनञ्-समासः ।) व्यवहारायोग्यं । अव्यवहरणीयं ।यथा । ज्ञानतश्चाण्डालान्त्यस्त्रीगमने तत्तुल्यतयाद्विगुणव्रताचरणे कृतेऽपि न व्यवहार्य्यः । यथायाज्ञवल्क्यः ।“प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।कामतोऽव्यवहार्य्यस्तु वचनादिह जायते” ॥
पापान्तरेऽप्यव्यवहार्य्यत्वं याज्ञवल्क्योक्तम् ।“शरणागतबालस्त्रीहिंसकान् संवसेन्न तु ।चीर्णव्रतानपि सदा कृतघ्नसहितानिमान्” ॥
“अत्र च कामतो महापातकादिवृहत्पापकर्तु-रव्यवहार्य्यत्वदर्शनात् कामतो बहुतरगुणयुक्त-शरणागतादिहन्तॄणामव्यवहार्य्यत्वं न तु हीनतर-हन्तॄणां अन्यथा विषमशिष्टतापत्तिः स्यात्” ।इति प्रायश्चित्ततत्त्वम् ॥
वाचस्पत्यम्
Sanskritअव्यवहार्य्य वि + अव + हृ--ण्यत् त० । शयनासन-भोजनादौ एकत्रावस्थानायोग्ये पतितादौ “कामतोऽव्यव-हार्य्यस्तु वचनादिह जायते” स्मृतिः । अव्यवहार्य्यास्तु पाति-त्यहेतुकर्म्मकारिणः स्मृतावुक्तावेद्यास्तेषां संसर्गविशेषोऽपिनि-षिद्धः यथा “याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम् ।कृत्वा सद्यः पतन्त्येते पतितेन न संशयः” देवलः “शरणा-गतबालस्त्रीहिंसकान् संवसेन्न तु । चीर्ण्णव्रतानपि सदाकृतघ्नसहितानपि” या० स्मृ० । स्त्रीघातकस्याव्यवहार्य्यत्वञ्चहीनवर्ण्णोपभुक्ताव्यतिरिक्तविषयम् “हीनवर्ण्णोपभुक्ता यात्याज्या बध्याऽपि वा भवेत्” वृह० स्मृतौ तस्या बध्यत्वोक्तेःअत्र कृतप्रायश्चित्तानामपि अव्यवहार्य्यतोक्तेः अकृत-प्रायश्चित्तानां सुतरां तथात्वम् तच्च शङ्कापूर्ब्धं प्रा० त०रघुनन्दनेन समर्थितं यथा । “पापाभावे कथमव्यवहा-र्य्यता” इति चेत् या० स्मृतौ वचनादिह जायते इत्युक्ते-स्तथात्वम् । तथाच किमिव वचनं न कुर्य्यात् नास्तिवचनस्यातिभारः तथाहि पापस्य द्वे शक्ती नरकोत्पादिकाव्यवहारविरोधिका च । तत्रैकतरशक्तिविनाशेऽपिव्यवहारविरोधिका शक्तिरस्त्येवेति यथोक्तमापस्तम्बेन“नास्यास्मिन् लोके प्रत्यासत्तिर्विद्यते कल्मषन्तु विहन्यते”इति प्रत्यासत्तिर्भोजनादौ सान्निध्यम्” मिताक्षरायान्तुकामतो व्यवहार्य्य इत्येव पाठः तथैव तेन व्याख्यात च“प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतो व्यवहा-र्य्यस्तु वचनादिह जायते” या० स्मृ० । “प्रायश्चित्तैः वक्ष्य-माणैरज्ञानाद्यदेनः पापं कृतं तदपैति अपगच्छति नकामतः कृतम्” किन्तु तत्र प्रायश्चित्तविधायकवचनबला-दिह लोके व्यवहार्य्यो जायते इति”--समर्थितश्चायमर्थआशङ्कापूर्ब्धकं तत्रैव यथा “ननु कामकृते प्रायश्चित्ता-भावात् कथं व्यवहार्य्यत्वम्? तदभावश्च “अनभिसन्धिकृते-ऽपराधे प्रायश्चित्तमिति” वसिष्ठवचनात्, “इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणबधेनिष्कृतिर्न विधीयते” इति मनुवचनाच्चावगम्यते । नैतत् ।“यः कामतो महापापं नरः कुर्य्यात् कथञ्चन । न तस्यनिष्कृतिर्दृष्टा भृग्वग्निपतनादृते” इति । तथा “विहितंयदकामानां कामात्तद्द्विगुणम्भवेदिति” च कामकृतेऽपिप्रायश्चित्तदर्शनात् । यत्तु वशिष्ठवचनम् तस्याप्यकामकृतेऽ-पराधे प्रायश्चित्तं श्रुद्धिकरमित्यभिप्रायः, न पुनः कामकृतेप्रायश्चित्ताभाव इति । यत्तु मनुवचनम् “इयं विशु-द्धिरुदितेत्यादि” तदपीयमिति सर्वनामपरामृष्टद्वादश-बार्षिकव्रतचर्य्याया एव “कामतो ब्राह्मणबधे निष्कृतिर्नविरधीयते” इत्यनेन प्रतिषेधो, न पुनः प्रायश्चित्तमात्रस्य, मरणान्तिकादेः प्रायश्चित्तस्य दर्शनात् । ननु यदि कामकृतेऽपिप्रायश्चित्तमस्ति तर्हि पापक्षयोऽपि कस्मान्न स्यादविशेषात्?यदि पापक्षयोऽपि नास्ति तर्हि व्यवहार्यतापि कथम्भवति?उच्यते उभयत्र प्रायश्चित्ताविशेषः शास्त्रतोऽवगम्यते ।अज्ञानकृते सर्व्वत्र पापक्षयः यत्र तु “व्रह्महासुरापगुरु-तल्पगमातृपितृयोनिसम्बन्धावगमस्तननास्तिकनिन्दित कर्म्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः पातक-संयोजकाश्चेति” गौतमोक्तं महापातकादौ व्यवहार्य्यत्वंनिषिद्धं तस्मिन् पतनीये कर्म्मणि कामतः कृते व्यवहार्य्यत्व-मात्रं न पापक्षय इति । न च पापक्षयाभावे व्यवहार्य्यत्वमनुपपन्नम् । द्वे हि पापस्य शक्ती नरकोत्पादिका व्यव-हारविरोधिका च तत्रैकतरशक्त्यविनाशेऽपि व्यवहारवि-रोधिकायाः शक्तेर्विनाशोनानुपन्नस्तस्मात् पापानपगमेऽपिव्यवहार्य्यत्वं नानुपपन्नम् । यत्तु मनुवचनम् “अकामतःकृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके-श्रुतिनिदर्शनादिति” तदपि कामकृतेऽपि प्रायश्चित्तप्रा-प्त्यर्थं न पुनः पापक्षयप्रतिपादनपरम् । अपतनीयेपुनः कामकृतेऽपि प्रायश्चित्तेन पापक्षयो भवत्येव । “अका-मतः कृतं पापं वेदाभ्यासेन श्रुद्ध्यति । कामतस्तु कृतंमोहात् प्रायश्चित्तैः पृथग्विधैरिति” मनुस्मरणात् । पत-नीयेऽपि कर्म्मणि कामकृते मरणान्तिकप्रायश्चित्ते कल्मषक्षयोभवत्येव फलान्तराभावात् । “नास्यास्मिन् लोके प्रत्यास-त्तिर्विद्यते कल्षन्तु निर्हन्यत इत्यापस्तम्बस्मरणात्” इति ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
