| YouTube Channel

अव्यभिचरितः (avyabhicaritaH)

 
E Bharati Sampat
Sanskrit
(वि) व्यभिचरितः (न.त) १. व्यभिचारदोषरहितः (हेतुः) ‘काव्यप्तिः? तावदव्यभिचारतत्वे, तद्धि साध्याभाववदवृत्तित्वम्, (अनुमानचिन्ता) व्यभिचारश्च द्विधः १. अन्वयव्यभिचारः २. व्यतिरेकव्यभिचारश्च अन्वयव्यभिचारोऽपि द्विधा १. साध्याभाववद्वृत्तित्वम् २. स्वसमानाधिकरणाभावप्रतियोगिसमानाधिकरण्यं धूमवान्-वह्नेः-इत्यादौ धूमाभाववत् तप्तायः पिण्डम् तत्र वह्नेः वृत्तित्वम् इति सध्याभाववद्वृत्तित्वम् वह्न्यधिकरणं तप्तायः पिण्डम् तत्र धूमाभावः विद्यते धूमाभावप्रतियोगिना धूमेन सह समानाधिकरणत्वं वह्नेः - इति २. स्व (वह्निः) समनाधिकरणा (तप्तायः पिण्ड) पाधिकरण)(धूमा)भाव प्रतियोगिचारः सध्याभाववद्व्यापकीभूताभावप्रतियोगित्वं व्यतिरेकव्यभिचारः धूमवान् वह्नेः - इत्यादौ धूमाभावरूपसायावस्य तप्तायः पिण्डे सत्त्वेन वह्न्याववद्व्यापकूतावप्रतियोगित्वम् ‘एवं धूमवान् वह्नेः’ इत्यत्र अन्वयव्यतिरेकव्यभिचरो स्तः अतः व्यभिचरितत्वम् ‘वह्निमान् धूमात्’ इत्यत्र तु अन्वयव्यतिरेकव्यभिचारौ स्त इतिअव्यभिचरितत्वम् २. अबाधितार्थः ‘अव्यभिचरितेभ्यः प्रमाणेभ्यः’ (शा.भा)