| YouTube Channel

अव्यपेक्षा (avyapekSA)

 
Apte
English
अव्यपेक्षा [avyapēkṣā], Carelessness
˚च्यूतने
M.*
3.21. inadvertently fallen down.
Apte 1890
English
अव्यपेक्षा Carelessness
°च्यूतने M. 3. 20 inadvertently fallen down.
Shabdartha Kaustubha
Kannada
अव्यपेक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅಜಾಗರೂಕತೆ
प्रयोगाः - > "बाष्पावसरा हेमकाज्चीगुणेन श्रोणीबिम्बादव्यपेक्षाच्युतेन"
उल्लेखाः - > माल० ३-२१
अव्यपेक्षा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಏಕಾರ್ಥಿಭಾವರೂಪವಾದ ಸಾಮರ್ಥ್ಯ
E Bharati Sampat
Sanskrit
(स्त्री) विशेषेण अपेक्षा (अभावे न.त) १. अजागरूकता, अनास्था २. एकार्थीभावः, स.च समर्थसूत्रभाष्योक्तः अवयवार्थनिरपेक्षतया समुदायस्य विशेष्यविशेषणभावावगाह्येकोपस्थितिजनकत्वरूपः
वाचस्पत्यम्
Sanskrit
अव्यपेक्षा स्त्री विशेषेणापेक्षा व्यपेक्षा अभावे
न०
त०१ विशेषेणापेक्षाभावे समर्थसूत्रभाष्योक्ते अवयवार्थानपे-क्षया समुदायस्य विशेष्यविशेषणभावानगाह्येकोपस्थितिजनकत्वरूपे एकार्थीभावे “समर्थः पदविधिः” पा०सूत्रे सामर्थ्यं द्विविधं व्यपेक्षा अव्यपेक्षा प्रपञ्चित-मस्माभिः सरलायाम् तत्र स्वार्थपर्य्यवसायिपदानामा-काङ्क्षादिवशात् यः परस्परं सम्बन्धः सा व्यपेक्षा ।राज्ञः पुरुष इत्यादौ वाक्ये सत्यामाकाङ्क्षायां यो योयस्मिन् सन्निहितो योग्यश्च तेन तेन सम्बध्यते यथाराज्ञः पुरुषोऽश्वश्च राज्ञो देवदत्तस्य पुरुषः ऋद्धस्यराज्ञोऽश्वो धनञ्चेत्यादि वृत्तौ तु नैवम् वृत्तीनामेकार्थी-भावात् एकार्थोभावश्च विशेष्यविशेषणभावावगाह्येकोपस्थितिजनकत्वम् तथाच राजपुरुषादिशब्देन विशिष्टै-कार्थबोधकतया तदैकदेशे ऋद्धादेरन्वयः पुरुषांशे विशे-षणतयोपस्थितस्य नाश्वादिसम्बन्धिता राजादीनाम् ।जनितान्वयाच्च निराकाङ्क्षतया देवदत्तादेः स्वामितयापुरुषादावन्वय इति द्रष्टव्यम् देवदत्तस्य गुरुकुलमित्यादौदेवदत्तादेस्तु प्रधानीभूतकुलादिनैवान्वयः सम्बन्धस्तूपस्थित-गुरुद्वारक एव षष्ठ्यर्थः यथोक्तं हरिणा “समुदायेन सम्बन्धोयेषां गुरुकुलादिना संस्पृशावयवास्ते तु युज्यन्ते तद्वतासहेति” यद्वा सम्बन्धिशब्दार्थस्य पदार्थैकदेशत्वेऽपि भवत्येवकेषाञ्चित् सम्बन्धान्वयः तदुक्तं तेनैव” सम्बन्धिशब्दःसापेक्षो-नित्यं सर्व्वः समस्यते वाक्यवत् सा व्यपेक्षापि वृत्तावपिन हीयते” अतएव वार्त्तिककृता “सविशेषणानां वृत्तिर्न्नवृत्तस्य वा विशेषणं प्रयुज्यत इति वक्तव्यमिति” सामा-न्यतो वृत्तिमतो विशेषणस्य स्वातन्त्र्येण प्रयोगाभावममि-वायम् “अगुरुकुलगुरुपुत्रादीनां वक्तव्यम्” इत्यनेन गुरुकुलगु-रुपुत्रादीनां विशेषणत्वेऽपि पृथक्प्रयीगाय नञा पर्य्युदासःकृतः समानाधिकरणविशेषणस्य तु “समानाधिकरणम-समर्थवद्भवती” त्यनेन सर्व्वथा स्वातन्त्र्येण सामर्थ्याभावात्प्रयोगाभावो भङ्ग्याऽभिहितः एतन्मूलकमेव प्राचां गाथा“सापेक्षे प्रत्ययो स्यात् समासो वा कथञ्चन सापेक्षंतद्विजानीयादसमस्तविशेषणम् प्रतियोगिपदादन्यत्यदन्यत् कारकादपि वृत्तिशब्दैकदेशस्य सम्बन्धस्तेननेष्यते” इति अत्रायं विशेषः प्रधानस्य सापेक्षत्वेऽप्रिसमास इत्युक्तेः प्रधानस्य वृत्त्युपस्थाप्यविशेष्यस्य राज-पुरुषादेः सुन्दरादिविशेषणापेक्षयामपि समासः समासेचावयवशक्त्यैव तत्तदर्थपदार्थोपस्थित्या विशेष्यविशेषणभावा-द्यभ्युपगमे सापेक्षत्वादौ समासाभावादिकं वाचनिकंकल्प्यम् तथान्याप्यधिककल्पना स्यादतः समुदायशक्तिक-ल्पनम् यथोक्तं हरिणा “बहूनां वृत्तिघर्म्भाणां वचनैरेवसाधने स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः ।चकारादिनिषेधोऽथ बहुव्युत्त्तिभञ्जनम् कर्त्तव्यं ते न्याय-सिद्धं त्वस्माकं तदिति स्थितमिति” तथाहि द्वन्द्वादिविग्रह-वाक्ये चकारादि प्रयुज्यते समस्ते तु वचनैरेव तन्नि-षेधः कल्पनीयः समुदायशक्तिपक्षे तु उक्तार्थानामप्रयोगइत्युक्तन्यायादेव सिद्धम् नामार्थयोरभेदान्वयः कॢप्तःसच राजपदादुपस्थापितराजादेः पुरुषे स्वस्वाभिभाव-सम्बन्धेनान्वये परित्यक्तः स्यात् सम्बन्धलक्षणायान्तु किम-पराद्धम् विशिष्टलक्षणया प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थःप्रधानमिति नियमश्च कॢप्तः सच प्राप्तानन्दादौ भज्येतआनन्दकर्त्तृकप्राप्तिकर्म्मेत्यर्थबोधस्योभयसम्मतत्वेन कर्त्तृ-विहितक्तान्तार्थस्य कर्त्तुर्विशेष्यतौचित्येन प्रकृते तद्वैपरीत्यात्आनन्दसम्बन्धादिलक्षणास्वीकारे समुदायशक्तिपक्षे एवप्रवेशः तथा प्राप्त आनन्दोयमिति विग्रहे आनन्दादौअत्यन्तादिविशेषणयोगवत् समासे तद्वारणाय वृत्तस्य नन विशेषणयोग इति वाचनिकत्वकल्पनाऽधिका एतन्मतेन्यायसिद्धा इत्यादिबहुविप्लवापत्तिरतः समुदाये शक्तिः”नास्ति व्यपेक्षा यस्य अनपेक्षे
त्रि०