अव्यक्तं (avyaktaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindinonmanifested
शब्दकल्पद्रुमः
Sanskritअव्यक्तं, प्रकृतिः । आत्मा । इति हेमचन्द्रः ।महदादि । परमात्मा । इति मेदिनी ॥
(“योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।सर्व्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ” ॥
इति मानवे ॥
गणितादौ अज्ञातराश्यादिः । अदृश्यः । साङ्ख्यमतेसर्व्वकारणं रूपादिहीनतया चक्षुराद्यगोचरंप्रधानं महदादि ।“महतः परमव्यक्तमव्यक्तात् पुरुषः परः” ।इति कठोपनिषद् ॥
वेदान्तमते सूक्ष्मशरीरं स्वापावस्थायां शब्द-प्रवृत्तिनिमित्तैर्जातिगुणक्रियासम्बन्धैर्वर्ज्जितं नि-र्व्विकारं निराकारं ब्रह्म । परमात्मा, मायोपा-धिकं ब्रह्म, सूक्ष्ममतीन्द्रियं लिङ्गग्राह्यं परब्रह्म ।यदुक्तम्, --“अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्” ।रूपादिविहीनत्वेन चक्षुराद्यगोचरो योगाभ्या-सावसेयो भावः ।“ब्राह्मं सरः कारणमाप्तवाचोबुद्धेरिवाव्यक्तमुदाहरन्ति” । इति रघुवंशे ॥
प्रकृतिः । तथा हि, -- “यत् सर्व्वस्य जगतोवीजभूतमव्याकृतमनामरूपमतत्वं सर्व्वकार्य्यकार-णशक्तिसमाहाररूपं अव्यक्ताव्याकृताकाशादिना-मवाच्यं परमात्मन्योतप्रोतभावेन समाश्रितं वट-कणिकायामिव वटवृक्षशक्तिः । सत्त्वादिरूपेणनिरूप्यमाणे व्यक्तिरस्य नास्तीत्यव्यक्तम्” ।यदुक्तम् । “हेतुमदनित्यमव्यापि सक्रियमनेक-माश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विप-रीतमव्यक्तम्” ॥
० ॥
सर्व्वभूतानां कारणमकारणंसत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः स-म्भवहेतुरव्यक्तं नाम । तदेकं बहूनां क्षेत्रज्ञाना-मधिष्ठानं समुद्र इवोदकानां भावानां” ॥
इतिसुश्रुतः ॥
“अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः ।सदकारणवन्नित्यं दृष्टं हेतुमदन्यथा ॥
तदेव भावादग्राह्यं नित्यत्वान्न कुतश्चन ।भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा” ॥
इति ॥
“अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः” ।इति च ॥
“अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियं” ॥
इति च ॥
“अव्यक्तमस्य क्षेत्रस्य ज्ञेत्रज्ञमृषयो विदुः” ॥
इति च चरकः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
