अवीरा (avIrA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishApte Hindi
Hindiअवीरा
- -
वह स्त्री जिसके न कोई पुत्र हो न पति हो
Shabdartha Kaustubha
Kannadaअवीरा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪತಿ ಮತ್ತು ಪುತ್ರರಿಲ್ಲದ ಹೆಂಗಸು
व्युत्पत्तिः - > न वीरा
प्रयोगाः - > "पतिपुत्रवती नारी वीरा प्रोक्ता मनीषिभिः"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
L R Vaidya
EnglishE Bharati Sampat
Sanskrit(स्त्री) न वीरा (पतिपुत्रवती) । १. पतिपुत्ररहिता । ‘अवीरा निष्पतिसुता’ (अमरः २.६.११) । १अजातपुत्रा विधवा साऽवीरा परिकीर्तिता’ (स्मृतिः) । ‘मा त्वा वयं सहसावन्नवीराः’ (ऋक् ७.४.६) ।
Wordnet
Sanskrit अवीरा
पतिपुत्ररहिता स्त्री।
"सर्वे अवीरायाः सहाय्यं करोति।"
विधवा, गतभर्तृका, मृतपतिका, अभर्तृका, निर्नाथा, अनाथा, अवीरा, यतिनी, वृषभी, कात्यायनी, वितन्तुः
सा महिला यस्याः पतिः मृतः अस्ति।
"मेजर रणवीरं मृत्योः पश्चात् परमवीरचक्रेण सन्मानितं कृतं सः सन्मानः तस्य गतभर्तृकया स्वीकृतः।"
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
अभिधानचिन्तामणीशिलोच्छः
Sanskritतुल्ये अवीरानिर्वीरे श्रवणाश्रमणे तथा ।
अवीरा (स्त्री), श्रमणा (स्त्री)
शब्दकल्पद्रुमः
Sanskritअवीरा, (नास्ति वीरः पुत्त्रादिर्यस्याः ।) अजा-तापत्यविधवा । इति स्मृतिः । निष्पतिसुता ।इत्यमरमेदिन्यौ ॥
तदन्नभोजने दोषप्रायश्चित्तेयथा, --“यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ।भगजीवी वार्द्धुषिको विषहीनो यथोरगः” ॥
इति ब्रक्ष्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः ॥
* ॥
अपि च ।“अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः ।यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेत् ध्रुवं” ॥
इति च तत्रैव २७ अध्यायः ॥
* ॥
विष्णुः । गण-गणिकास्तेनगायनकान्नानि भुक्त्वा सप्तरात्रं पयसावर्त्तेत । अवीरास्त्रीस्वर्णकारसंसर्गपतितानाञ्च ।इति प्रायश्चित्तविवेकः ॥
* ॥
सामान्येनाभोज्यान्न-भोजनप्रकरणे मनुः, --“नाश्रोत्रियहुते यज्ञे ग्रामयाजिहुते तथा” । इत्यादि ।“अनर्चितं वृथामांसमवीरायाश्च योषितः”इत्यादिकञ्चोपक्रम्य ।“भुक्त्वा चान्यतमस्यान्नममत्याक्षपणं त्र्यहं” ।“मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रमेव” ॥
इति । अवीरा पतिपुत्त्रविहीना निःसम्बन्धिनी ।स्वसम्बन्धिन्यास्तु श्राद्धादिनाभ्यनुज्ञानात् व्यव-हारात् धनाधिकाराच्च । इति च प्रायश्चित्त-विवेकः ॥
* ॥
अस्या धनाधिकारो यथा याज्ञ-वल्क्यः, --“पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।तत्सुतो गोत्रजो बन्धुः शिष्याः सब्रह्मचारिणः ॥
एषामभावे पूर्व्वस्य धनभागुत्तरोत्तरः ।स्वर्य्यातस्य ह्यपुत्त्रस्य सर्व्ववर्णेष्वयं विधिः” ॥
तथा विष्णुः । अपुत्त्रस्य धनं पत्न्यभिगामि तद-भावे दुहितृगामि । इत्यादि । तेन प्रपौत्त्र-पर्य्यन्तानामभावे पत्नी धनाधिकारिणी । यथाकात्यायनः ।“भर्त्तृदायं मृते पत्यौ विन्यसेत् स्त्री यथेष्टतः ।विद्यमाने तु संरक्षेत् क्षपयेत् तत्कुलेऽन्यथा ॥
अपुत्त्रा शयनं भर्त्तुः पालयन्ती व्रते स्थिता ।भुञ्जीतामरणात् क्षान्ता दायादा ऊर्द्ध्वमाप्नुयुः” ॥
यथेष्टत इति धर्म्माथं । तथा च व्यासः ।“लोकान्तरस्थं भर्त्तारमात्मानञ्च वरानने ।तारयत्युभयं नारी नित्यं धर्म्मपरायणा” ॥
मदनपारिजातधृता स्मृतिः ।“यद्यदिष्टतमं लोके यद्यत् पत्युः समीहितं ।तत्तद्गुणवते देयं पतिप्रीणनकाम्यया” ॥
भर्त्तुः शयनं पालयन्ती नान्यगामिनी । अतएवहरिवंशीयपुण्यकव्रतोपाख्याने ॥
“दानोपवासपुण्यानि सुकृतान्यप्यरुन्धुति ।निष्फलान्यसतीनां हि पुण्यकानि तथा शुभे” ॥
तथा वृहन्मनुः, --“अपुत्रा शयनं भर्त्तुः पालयन्ती व्रते स्थिता ।पत्न्येव दद्यात् तत्पिण्डं कृत्स्नमंशं लभेत च” ॥
तत्पिण्डमित्यत्र तदित्यनुषज्य । तच्छब्देन भर्त्तुःपरामर्शात् भर्त्तुः कृत्स्नमंशं यावदंशं हरेत् न तुवर्त्तनोचितमात्रं । इति दायतत्त्वं ॥
* ॥
अस्याःपतिश्राद्धाधिकारो यथा । पुत्रपौत्रप्रपौत्राभावेपत्नी । तथा च शङ्खः ।“पितुः पुत्रेण कर्त्तव्या पिण्डदानोदकक्रिया ।तदभावे तु पत्नी स्यात् तदभावे सहोदरः ॥
भार्य्यापिण्डं पतिर्द्दद्यात् भर्त्रे भार्य्या तथैव च ।श्वश्व्रादेश्च स्नुषा चैव तदभावे द्विजोत्तमः” ॥
इत्यादि ॥
“अपुत्रा स्त्री यथा पुत्रः पुत्रवत्यपि भर्त्तरि ।पिण्डं दद्यात् जलञ्चैव जलमात्रन्तु पुत्रिणी” ॥
इति निर्मूलं समूलत्वेऽपि बालदेशान्तरितपुत्र-सद्भावविषयमिति श्राद्धविवेकप्रभृतयः । इति॥
* ॥
अस्या भर्त्रादितर्पणाधिकारो यथा स्मृतिः ।“तर्पणं प्रत्यहं कार्य्यं भर्त्तुः कुशतिलोदकैः ।तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्व्वकं” ॥
एतत्तु तर्पणं पुत्रपौत्राद्यभावविषयमिति मदन-पारिजातः । इति ॥
* ॥
मृतायास्तस्या आद्य-श्राद्धादि पञ्चदशश्राद्धं कर्त्तव्यं न तु सपिण्डनं ।यथा । अत्र सपत्नीपुत्रस्य पुत्रत्वातिदेशात् तत्स-त्वेऽपि स्त्रीणां सपिण्डनं मैथिलैरुक्तं तन्न ।“पुत्रेणैव तु कर्त्तव्यं सपिण्डीकरणं स्त्रियाः ।पुरुषस्य पुनस्त्वन्ये भ्रातृपुत्रादयोऽपि ये” ॥
इति लघुहारीतवचने एवकारेण अतिदिष्टपुत्र-निषेधात् । पुत्रेणेति तत्सत्त्वमात्रविवक्षितं ।“सपिण्डीकरणं तासां पुत्राभावे न विद्यते” ।इति मार्कण्डेयपुराणैकवाक्यत्वात् ।“यानि पञ्चदशाद्यानि अपुत्रस्येतराणि च ।एकस्यैव तु दातव्यमपुत्रायाश्च योषितः” ॥
इति छन्दोगपरिशिष्टेन आद्यपञ्चदशश्राद्धैः प्रेत-त्वपरीहारोक्तत्वाच्च । एतत्पत्युरभावे द्रष्टव्यं ।ततश्च शिशौ पुत्रे अन्येनापि सपिण्ड्यते । एवंपतिसत्वेऽपि । अतएव मैथिलैरवीरायाः सपिण्डनंनास्तीत्युक्तं । इति च शुद्धितत्त्वं ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
