| YouTube Channel

अविस्मरण (avismaraNa)

 
शब्दसागरः
English
अविस्मरण
n.
(-णं) Remembering, not forgetting.
E.
neg. विस्मरण forget-
ting.
Wilson
English
अविस्मरण
n.
(-णं) Remembering, not forgetting.
E.
neg. विस्मरण forgetting.
Monier Williams 1872
English
अविस्मरण अ-विस्मरण, अम्, n. or अ-विस्मृति,
इस्, f. not forgetting, remembering, recollection.
Shabdartha Kaustubha
Kannada
अविस्मरण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮರೆಯದಿರುವಿಕೆ /ನೆನಪು /ಸ್ಮರಣೆ
निष्पत्तिः - > अभावे न० त०
व्युत्पत्तिः - > विस्मरणम्
Edgerton Buddhist Hybrid
English
a-vismaraṇa (nt.
neg. of Skt. vismaraṇa), non-forgetting: -dharmāvi° Mvy 〔784〕.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
अविस्मरण n. das Nichtvergessen, das Erinnern, Rasas. 46, 14.
वाचस्पत्यम्
Sanskrit
अविस्मरण
न०
अभावे
न०
त० विस्मरणाभावे स्मरणेविस्मरणञ्चानुभूतपदार्थस्य कालरोगादि प्रयोज्यः स्मरणाभावःसच अनुभूतविषयेषूद्भूतसंस्कारस्यापि प्रणिधानादिकारणा-न्तराभावात् अनुद्बुद्धतया स्मृतिरूपकार्य्याजनने, रोगा-दिना नाशने भवति तदभावः अविस्मरणं तत्र प्रणि-धानादिसहकृतसंस्कारस्य स्मरणजनकता रोगाद्यनभि-भवनीयता यथाह गौ० सू० “प्रणिधानलिङ्गा-दिज्ञानानामयुगपद्भावाद्यु गपदस्मरणम्” “प्रणिधानं चित्तै-काग्य्रं सुष्मूर्षेति यावत् लिङ्गज्ञानं उद्वोधकम् उद्वोधका-नामानन्त्यादादिपदं ज्ञानात्परतोयोजनीयं तस्य क्रमात्स्मरणक्रमः यदि युगपदुद्बोधकानि तदा तावद्विषयकमेकंस्मरणमिष्यत एव यथा पदज्ञानादाविति मन्तव्यम्वृत्तिः” प्रणिधानादीनि स्मृतिकारणानि तत्रैवोक्तानि ।“प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्म्माधर्म्मनिमित्तेभ्यः”“स्मरणमित्थनुवर्त्तते निमित्तशब्दस्य द्वन्द्वात् परं श्रुतस्य प्रत्येकमभेदेनान्वयः प्रणिधानं मनसोविषयान्तरसञ्चारवारणम्, निबन्धएकग्रन्थोपनिबन्धनं यथा प्रमाणेन प्रमेयादिस्मरणम्, अभ्यासः संस्कारबाहुल्यम्, एतस्य यद्यपि नोद्वोधकत्वं तथापितादृशे शीघ्रमुद्बोधकसमवधानं स्यादित्याशयेन तदुपन्यासः ।अभ्यासोदृढतरसंस्कारः उद्बोधकत्वेनोक्तैति केचित् लिङ्गंव्याप्यं व्यापकस्य स्मारकं, लक्षणं यथा कपिध्वजादि अर्जु-नादेः, सादृश्यं देहादेः परिग्रहः स्वीकारस्तस्य स्वस्वामिभावोऽर्थः तदेकतरेणान्यतरस्मरणम्, आश्रयाश्रितौ राजादितत्परिजनौ परस्परस्मारकौ, सम्बन्धोगुरुशिष्यभावादिः, गो-वृषन्थायात् पृथगुक्तः आनन्तर्य्यं प्रोक्षणावघातादेः, वियोगोयथा दारादेः, एककार्य्या अन्तेवासिप्रभृतयः परस्परस्मार-काः विरोधादहिनकुलादेरन्यतरेणापरस्मरणम् अतिशयःसंस्कारौपनयनादिराचार्य्यादिस्मारकः, प्राप्तिर्धनादेर्दातारंस्मारयति, व्यवधानमावरणं यथा खड्गादेः कोषादि सुखदुःस्वयोरन्यतरेणापरस्य ताभ्यां तत्प्रयोजकस्य वा स्मरणम्, इच्छाद्वेषौ यद्विषयकतया गृहीतौ तस्य स्मारकौ, भयंमरणादेर्भयहेतोर्व्वा स्मारकम्, अर्थित्वं दातुः, शाखादेःक्रिया वाय्वादेः, रागात्प्रीतेः पुत्रादेः स्मरणं, धर्म्मा-घर्म्माभ्यां जन्मान्तरानुभूतसुखदुःखसाधनयोः प्रागनुभूतसुखादेश्च स्मरणमिति तेषु किञ्चित्, स्वरूपसत्किञ्चच्चज्ञातमुद्बोधकं शिष्यव्युत् पादनाय चायं प्रपञ्चः” वृत्तिः ।कणादेन तु स्मृतिसाधारणकारणमुक्तं यथा “आत्मम-नसोः संयोगविशेषात् संस्काराच्च स्मृतिः” सू० “उत्पद्यतइति शेषः संयोगविशेषः प्रणिधानादिसन्निधानम्, एत-स्मादसमवायिकारणादात्मनि समवायिनि स्मृतिर्विद्या-विशेष उत्पद्यते, निमित्तकारणमाह संस्कारादिति चकारेणव्यापारी पूर्व्वानुभवः समुच्चीयते, अनुभवयाथार्थ्याया-थार्थ्यमियमनुविधत्ते, रज्जुं भुजङ्गतयोपलभ्य पलायितस्यतथैव स्मृतेः नचं सततं स्मृतिप्रसङ्गः, संस्कारोद्वोधा-धीनत्वात्, तदुक्तं प्रशस्तदेवपादैः “लिङ्गदर्शनेच्छानुस्मरणा-द्यपेक्षादात्ममनसोः संयोगविशेषात् पट्वभ्यासादरप्रत्यय-जनिताच्च संस्कारादॄष्टश्रुतानुभूतेषु शेषानुव्यवसायस्मरणे-च्छाद्वेषहेतुरतीतविषया स्मृतिः” इति आर्षं ज्ञानंसूत्रकृता पृथङ्ग लक्षितं, योगिप्रत्यक्षान्तर्भावितं, पदार्थ-प्रदेशाख्ये तु प्रकरणे तदुक्तं तद्यथा “आम्नायविधातॄ-णामृषीणामतीतानागतवर्त्तमानेष्वर्थेषु धर्म्मादिषु ग्रन्थोप-निवद्धेषु वा लिङ्गाद्यनपेक्षादात्ममनसोः संयोगाद्धर्म्मविशे-षाच्च प्रातिभं ज्ञानं यदुत्पद्यते तदार्षम्” इति तच्च कदा-चिल्लौकिकानामपि भवति यथा कन्यका वदति “श्वो मेभ्राता गन्तेति हृदयं मे कथयतीति” उप० संस्कारनाशकानि रोगकालजन्मान्तरादीनि
न०
ब० स्मृतियुक्ते
त्रि०