| YouTube Channel

अविश्वस्तः (avizvastaH)

 
शब्दकल्पद्रुमः
Sanskrit
अविश्वस्तः, त्रि, (न विश्वस्तः नञ्तत्पुरुषः ।)विश्वासानर्हः अकृतविश्वासः प्रत्ययायोग्यः ।यथा, --“न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।विश्वासात् भयमुत्पन्नं मूलान्यपि निकृन्तति”
इति चाणक्यं
(“विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्” ।इति भारते
)