| YouTube Channel

अविशुद्धि (avizuddhi)

 
Apte
English
अविशुद्धिः [aviśuddhiḥ],
f.
Impurity.
Apte 1890
English
अविशुद्धिः f. Impurity.
Wordnet
Sanskrit
Synonyms:
मलिनता, मालिन्यम्, अपवित्रता, अशुद्धि, अस्वच्छता, अशुचिता, आशौच, अविशुद्धि, अशुचित्व
noun
मलिनस्य अवस्था भावो वा।
"तस्य मनसः मलिनता दूरीकर्तुं शक्यते।"
वाचस्पत्यम्
Sanskrit
अविशुद्धि स्त्री विरोधे
न०
त० शुद्धिविपरीते दोषे “सह्य-विशुद्धिक्षयातिशययक्तः” सां० का० अविशुद्धिर्हिंसा-दोषसाधनता यथोक्तम् “अविशुद्धिः सोमादियागस्य पशुवी-जादिबधसाधनता यथाह स्म भगवान् पञ्चशिखाचार्य्यः“स्वल्पसङ्करः सपरिहारः सप्रत्यवमर्ष” इति स्वल्पसङ्करःज्योतिष्टोमादिजन्मनः प्राधानापूर्वस्य स्वल्पेन पशुहिंसा-दिजन्मनानथेहेतुना अपूर्वेण सङ्करः सपरिहारः कियतापिप्रायश्चित्तेन परिहर्त्तुं शक्यः अथ प्रमादतः प्रायश्चित्त-मपि नाचरितं प्रधानकर्म्मविपाकसमये पच्यते तथापियावदसावनर्थं सूते तावत् सप्रत्यवमर्षः प्रत्यवमर्षेण सहि-ष्णुतया सह वर्त्तत इति मृष्यन्ते हि पुण्यसम्भारोपनीतस्व-र्गसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपपादितांदुःखवह्निकणिकाम् “मा हिंस्यात् सर्व्वाभूतानीतिसामान्यशास्त्रं विशेषशास्त्रेण “अग्नीषोमीयं पशुमालभेते-त्यनेन” बाध्यत इति युक्तं विरोधाभावात् विरोधे हिबलीयसा दुर्बलं बाध्यते चेहास्ति कश्चित् विरोधःभिन्नविधयत्वांत् तथा हि “मा हिंस्यादिति” निषेधेनहिंसाया अनर्थहेतुभावो ज्ञाप्यते त्वक्रत्वर्थत्वमपि “अ-ग्नीषोमीयं पशुमालभेत” इत्यनेन तु पशुहिंसायाः क्रत्वर्थत्व-मुच्यते त्वनर्थहेतुत्वाभावस्तथा सति वाक्यभेदप्रसङ्गात् नचानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः हिंसाहि पुरुषस्य दोषमावक्ष्यति क्रतोश्चोपरिकरिष्यति” सा० कौ० ।इति सांख्या मन्यन्ते मीमांसका वेदान्तिनश्च वैधहिंसायाअनर्थहेतुत्वं निराचक्रुः तच्च शा० सूत्रे तद्भाष्ये प्रपञ्चे-नोक्तम् तत्तु ४४३ पृष्ठे उदाहृतम्